सामग्री पर जाएँ

अजीर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीर्णम्, क्ली, (जॄ + क्तः, न जीर्ण्णं नञ्समासः) अपाकः । तत्पर्य्यायः । वायुगण्डः २ अन्तर्वमिः ३ पलता- शयः ४ । इति त्रिकाण्डशेषः ॥ अथाजीर्णस्य विप्रकृष्टं निदानमाह । अत्यम्बुपानाद्विषमाश- नाच्च सन्धारणात् स्वप्नविपर्य्ययाच्च । कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥ सन्धारणात् क्षुद्वातमूत्रपुरीषादीनां । स्वप्नविप- र्य्ययात् दिवाशयनाद्रात्रौ जागरणात् । लघु चापीत्यपिशब्दात् स्निग्धोष्णादिगुणयुक्तमपि ॥ * ॥ अन्यच्च । “ईर्षाभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन । प्रद्वेषयुक्तेन च सेव्यमान- मन्नं न सम्यक् परिपाकमेति” ॥ परिप्लुतेन व्याप्तेन । उक्तकारणेभ्योऽतिमात्र- भोजनं विशेषादजीर्णस्य कारणमजीर्णञ्च बहु- व्याधीनां कारणमित्याह । “अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः । रोगानीकस्य ते मूलमजीर्ण्णं प्राप्नुवन्ति हि” ॥ अनात्मवन्तः अबुद्धिमन्तः । रोगानीकस्य विसू- च्यादेः । मूलं कारणं ॥ * ॥ अन्यच्च । “प्रायेणाहारवैषन्यादजीर्णं जायते नृणां । तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति” ॥ तद्विनाशाद्विनश्यति अजीर्णविनाशात् विनश्यति रोगसंघात इत्यर्थः । यद्वा तत् अजीर्ण्णं आशात् भक्षणात् विना भक्षणाभावे विनश्यति निवर्त्तते इत्यर्थः ॥ * ॥ अजीर्ण्णस्य सामान्यस्य लक्षणमाह । “ग्लानिर्गौरवमाटोपो भ्रमो मारुतमूढता । विबन्धोऽतिप्रवृत्तिर्वा सामान्याजीर्ण्णलक्षणं” ॥ मारुतमूढता वायोरवरोधः । विबन्धः मला- प्रवृत्तिः ॥ * ॥ सन्निकृष्टकारणैः सहितानजी- र्णस्य भेदानाह । “आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः” । त्रिभिरित्येकशो न तु मिलितैः । “अजीर्ण्णं केचिदिच्छन्ति चतुर्थं रसुशेषतः” ॥ केचित् सुश्रुतादयः ॥ रसशेषतः भुक्तस्य पक्वस्य सारभूतो यो द्रवः स रसः सोऽपि पच्यते । भुक्तस्य पक्वस्य सारभूतो यो द्रवः स चापक्वः स रस- शेषः तस्मात् चतुर्थमजीर्णं नत्वामाजीर्णं ॥ * ॥ नन्वामाजीर्णाद्रसशेषस्य को भेद उच्यते । आमं मधुरतागतमपक्वं अन्नमेव । रसशेषस्तु भुक्तस्य पक्वस्य सारभूतो यो द्रवः स चापक्व इति भेदः । अजीर्ण्णं पञ्चमं केचित् निर्द्दोषं दिनपाकि च । निर्द्दोषं गौरवभ्रमशूलादिदोषाजनकं । दिन- पाकि च आहारोऽहोरात्रेण पाकं यातीति स्वभावः । यत्तु मात्राकालसात्म्यादिदोषाद्दिनान्तरे पाकं याति तद्दिनपाकि । अतएव याममध्ये न भोक्तव्यमिति वचनं, -- वदन्ति षष्ठं चाजोर्ण्णं प्राकृतं प्रतिवासरं” । प्राकृतं अविकारकं । प्रतिवासरं प्रतिदिन- भावि । भुक्तं यावन्नजीर्ण्णं तावदजीर्ण्णमित्युच्यते । एतदभिधानस्य प्रयोजनं पाकार्थं वामपार्श्वशयन- चञ्चूकसिद्धार्थकवास्तुकानां गायत्रिसारक्वथितेन पाकः” ॥ चञ्चूकं चेचूरु इति लोके । गायत्री खदिरः । “पलङ्किकाकेमुककारवेल्ली- वार्त्ताकुवंशाङ्कुरमूलकानां ॥ उपोदिकालावुपटोलकानां सिद्धार्थको मेघरवस्य पक्ता” ॥ मेघरवः चवराई इति लोके । -- “विपच्यते शूरणकं गुडेन तथालुकं तण्डुलजोदकेन । पिण्डालुकं जीर्य्यति कोरदूषात् कसेरुपाकः किल नागरेण ॥ लवणस्तण्डुलतोयात् सर्पिर्जम्बीरकाद्यम्लात् । मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलं ॥ क्षीरं जीर्य्यति तक्रेन तद्गव्यं कोष्णमण्डकात् । माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि” ॥ मण्डकः माण्डे इति लोके, -- “रसाला जीर्य्यति व्योषात् खण्डं नागरभक्षणात् सिता नागरमुस्तेन तथेक्षुश्चार्द्रकारसात् । ञरामिरागैरिकचब्दनाभ्या- मभ्येति शीघ्रं मुनिभिः प्रणीतं । उष्णेन शीतं शिशिरेण चोष्णं जीर्णो भवेत् क्षारगणस्तथाम्लैः” ॥ इरा मदिरा । “तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः । पीत्वाजीर्णं तोयजातं निहन्या- त्तत्र क्षौद्रं भद्रयुक्तं विशेषात्” ॥ तत्र तोयाजीर्णे । इति जठराग्निविकाराजीर्ण- विसूचिकालसविलम्बिकाचिकित्सा । इति भाव- प्रकाशः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीर्ण¦ n. (-र्णं)
1. Flatulency, indigestion.
2. Vigor, absence of old age or decay. mfn. (-र्णः-र्णा-र्णं)
1. Undigested.
2. Undecayed, unimpai- red. E. अ neg, and जीर्ण old, digested.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीर्ण [ajīrṇa], a. Undigested; undecomposed. -र्णम्, -र्णिः f.

Indigestion; अजीर्णे भेषजं वारि जीर्णो वारि बलप्रदम्, अजीर्णो भोजनं बिषम्; कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते H.2.57, Ms.4. 121.

Vigour, energy, absence of decay.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीर्ण/ अ-जीर्ण mfn. ( जॄ) , not decomposed

अजीर्ण/ अ-जीर्ण mfn. unimpaired

अजीर्ण/ अ-जीर्ण mfn. undigested

अजीर्ण/ अ-जीर्ण n. indigestion.

"https://sa.wiktionary.org/w/index.php?title=अजीर्ण&oldid=484595" इत्यस्माद् प्रतिप्राप्तम्