अज्ञान

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञानम्, क्ली, (ज्ञा + भावे ल्युट् नज्ञानं नञ्समासः) विरुद्धज्ञानं । तत्पर्य्यायः । अविद्या २ अहम्मतिः ३ । इत्यमरः ॥ सृष्टिकाले व्रह्मा प्रथमं पञ्च- प्रकारमज्ञांनं ससर्ज । यथा । तमः १ मोहः २ महामोहः ३ तामिस्रं ४ अन्धतामिस्रं ५ । इति श्रीभागवतं ॥ वेदान्तमते सदसद्भ्यामनि- र्व्व चनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित् । ज्ञानरहिते त्रि ॥ (यथा मनुः -- अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति । अज्ञानात्प्राश्य विण्मूत्रं । अज्ञानात् वालभावाच्च साक्ष्यं वितथमुच्यते ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञान नपुं।

अज्ञानम्

समानार्थक:अज्ञान,अविद्या,अहम्मति

1।5।7।1।3

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

वैशिष्ट्य : अज्ञः

पदार्थ-विभागः : , अभावः, ज्ञानाभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञान¦ न॰ न ज्ञानम्। ज्ञानाभावे, ज्ञानविरोधिनि तदभावे
“तत्राज्ञानं धिया नश्येदिति” वेदान्तिमतसिद्धे पदा-र्थान्तरे च
“अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव” इति गीता।
“अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकयेति,गुरुनतिः। अज्ञानञ्च ज्ञानाभाव इति नैयायिकाः। पदार्थान्तरमिति वेदान्तिनः। तथाहि अहं न जानामिअहमज्ञ इत्यादिविशिष्टानुभवः सार्वलौकिकः स च ज्ञाना-भवविषय इति नैयायिकैर्यदुक्तं तन्न युक्तं विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतायाः सर्ववादिसिद्धतया आत्मधिर्म्मिकज्ञा-नाभावप्रकारकज्ञाने जनयितव्ये तद्विशिष्टज्ञानाभावघटक-ज्ञानरूपस्य विशेषणस्य ज्ञानं पूर्ब्बमपेक्षितम् आत्मनितादृशे ज्ञाने च तदानीं सति कथङ्कारं ज्ञानाभावविशिष्टबुद्धिः स्यात् यस्मिन् धर्म्मिणि ज्ञानमस्ति तत्र ज्ञानाभाव-ज्ञानस्य बाधितत्वमेव अभावबुद्धेः प्रतियोगिज्ञानरोधि-तायाः सर्वमस्मतत्वात्। किञ्च ज्ञानाभावः किं ज्ञानसामा-न्याभाव उत तत्प्रागभावः अथ तद्ध्वंसो वा तत्र विषयोभवति, नाद्यः पूर्ब्बोक्तयुक्त्या ज्ञानाभावानुभवासम्भवेनप्रत्याख्यातत्वात्। न द्वितीयः प्रागभावस्य सामान्य-धर्म्मानवच्छिन्नप्रतियोगिताकतया तत्तज्ज्ञानप्रागभावस्यैवविषयता वाच्या सा च न सम्भवति सामान्याकारेणज्ञानाभावस्यैव प्रतीयमानत्वात् अन्यथा ज्ञानवत्यपि पुरुषेतादृशप्रतीतिः स्यात् अग्रे जनिष्यमानानन्तज्ञानप्राग-भावानामात्मनि सत्त्वेऽपि तेषाञ्च तत्तज्ज्ञानप्रतियोगि-कत्वेन ज्ञानसामान्यविशिष्टबुद्धौ विरोधिताभावात्। नान्त्यःप्रागभावरीत्या तस्यापि प्रत्याख्यातत्वात्। अतस्तादृशानुभवस्यविषयरक्षार्थं ज्ञानाभावातिरिक्तमज्ञानं कल्पनीयम्। तच्चानुमानेनैव। अनुमानञ्चेत्थमुक्तं प्रमेयविवरणोपन्यासे। विवादाध्यासितं ज्ञानं स्वप्रागभावातिरिक्तस्वविषयावरकसविषयकवस्तुपूर्ब्बकं भवितुमर्हति प्रकाशत्वात् अन्ध-कारे प्रथमोत्पन्नप्रदीपप्रभावदिति। यथा अन्धकारेप्रथमोत्पन्ना प्रदीपप्रभा स्वविषयस्य घटादेरावरकतमो-रूपपदार्थपूर्ब्बिका एवं ज्ञानमपि प्रकाशत्वसाम्यात् स्ववि-[Page0093-b+ 38] षयस्य घटादेरावरकं कञ्चित् पदार्थं समानविषयकं नियतम्पूर्ब्बमपेक्षते। उत्पन्ने च ज्ञाने प्रदीप्यप्रभया तम इवतन्निवर्त्तते ज्ञानप्रागभावेन सिद्धसाधनतावारणाय स्वप्राग-भावातिरिक्तेति विशेषणम्। तच्च अज्ञानं ज्ञानविरोधिसत्त्वासत्त्वाभ्यामनिर्वचनीयम्। तच्च शुक्तिकाद्यज्ञानं शुक्तौरजतादिकमिव ब्रह्मणि प्रपञ्चमुत्पादयति। अतएव तद्भाव-रूपं भावस्यैव भावपदार्थोपदानत्वसम्भवात्। अभावस्य तुअधिकरणस्वरूपत्वाङ्गीकारात् न भावस्याभावोपादानत्वव्या-घातः। तस्य भावरूपत्वेऽपि न त्रैकालिकाबाध्यत्वरूपम्सत्त्वं तत्त्वज्ञानेन बाध्यत्वात् नापि प्रातीतिकरजतादिवद-सत्त्वम् व्यवहारयोग्यत्वात्। अतः सदसद्भ्यामनिर्व-चनीयं व्यवहारिकसत्त्ववत् यत् किञ्चित् भावरूपं पदा-र्थान्तरमेवाज्ञानमिति सुस्थितम्। अस्य चाज्ञानस्यद्वे शक्ती आवरणं विक्षेपश्च तत्र या कदाचित् स्ववि-षयमावृणोति (विषयत्वसंप्राप्त्यनर्हं करोति) सा आवरण-शक्तिः या तु स्वकार्य्यबुद्धिवृत्त्या इन्द्रियादिद्वाराविषयदेशं प्राप्य विषयगतं स्वकारणनिष्ठवरणशक्तिं नाश-यति सा विक्षेपशक्तिः यथोक्तं
“बुद्धिवृत्तिचिदाभासौ द्वावेतौव्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येत् आभासात्तु घटःस्फुरेदिति”। यथा च शुक्तिविषयाज्ञानं स्वविषयशुक्तिमावृत्य स्वशक्त्यैव तत्र उत्पादितं रजतं विषयीकृत्यतद्गतमावरणशक्तिं नाशयति एवं ब्रह्मविषयकाज्ञानं स्वश-क्त्यैव ब्रह्मणि उत्पादितं प्रपञ्चं विषयीकृत्य तत्तदाकार-बुद्धिवृत्तिरूपा विक्षेपशक्तिः तद्गतावरणशक्तिं निवारयतीतिदृष्टानुसारिणीयं कल्पना। अधिकमाकरे द्रष्टव्यम्। नास्ति-विशिष्टज्ञानमस्य। विशिष्टज्ञानाभाववति अज्ञे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञान¦ n. (-नं)
1. Ignorance.
2. Spiritual ignorance, worldly illusion or belief in external appearances. mfn. (-नः-ना-नं) Ignorant, unwise. E. अ neg. and ज्ञान knowledge.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञान [ajñāna], a. [न. ब.] Ignorant, unwise. -नम् [न. त.] Ignorance, unconsciousness; especially, spirtual ignorance (अविद्या) which makes one consider his self as distinct from the Supreme spirit and the material world as a reality. According to the Vedāntins, अज्ञान is not merely a negative principle; (ज्ञानस्य अभावः), but a distinct positive principle; oft. identified with माया, प्रकृति &c. See अविद्या aiso In compounds अज्ञान may be translated by 'unawares,' 'inadvertently', 'unconsciously'; ˚आचरित, ˚उच्चारित &c.; ˚नतः, -˚नेन, ˚नात् unawares, inadvertently, unconsciously, unwillingly ˚तः स्वचरितं नृपतिः शशंस R.9.77. committed unintentionally or unconsciously. -परीक्षा See अज्ञातवस्तुशास्त्र.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञान/ अ-ज्ञान n. non-cognizance

अज्ञान/ अ-ज्ञान n. ignorance , (in philosophy) spiritual ignorance (or a power which , consisting of the three गुणs सत्त्व, रजस्, and तमस्, and preventing the soul from realizing its identity with ब्रह्म, causes self to appear a distinct personality , and matter to appear a reality)

अज्ञान/ अ-ज्ञान n. प्रकृति, माया, Illusion

अज्ञान/ अ-ज्ञान mfn. ignorant , unwise

"https://sa.wiktionary.org/w/index.php?title=अज्ञान&oldid=507616" इत्यस्माद् पुनः प्राप्तिः