अत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत, इ बन्धने (इदित्वात् नुम् भ्वादिं सेट् परं) इति कविकल्पद्रुमः ॥ अतीति बन्धे । शेषो दीर्घा- दिरित्यन्यः । अतएव अन्त्यते ईन्त्यते । स्वमते तु अन्त्यते इन्त्यते । छन्दोऽनुरोधादुभयत्र इकारः ॥ इति दुर्गादासः ॥

अत ई बन्धने । इति कविकल्पद्रुमः ॥

अत सातत्यगते । इति कविकल्पद्रुमः ॥ सातत्यगतं नैरन्तर्य्येण भ्रमणं प्रापणञ्च । अतति वायुः । अतति सूर्य्यो गगनं प्राप्नोतीत्यर्थः । इति दुर्गा- दासः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत¦ वन्धने इदित् भ्वा॰ पर॰ सक॰ सेट्। अन्तति। आन्तीत्
“समन्तति कपोत इव गतधिमिति” वेदः।

अत¦ बन्धने भ्वादि॰ पर॰ सक॰ सेट्। अतति। आतीत्।

अत¦ प्रापणे, सातत्ये, गतौ च भ्वादि॰ पर॰ सक॰ सेट्। अतति। आतीत्। क्त अतितः। इन् (पदातिः)
“अतिथिरभ्यतति गृहान् प्रति” इति वेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत¦ r. 1st cl. (अतति) To go, to move or approach progressively and continually. With an indicatory इ। अति (अंतति) To bind.

"https://sa.wiktionary.org/w/index.php?title=अत&oldid=484745" इत्यस्माद् प्रतिप्राप्तम्