अतिमृत्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमृत्यु¦ पु॰ अतिक्रान्तो मृत्युम् अत्या॰ स॰। मोक्षे
“तमेवविदित्वाऽतिमृत्युमेति नान्यःपन्था विद्यते” इति श्रुतिः। स्वादृष्टादिभिः शरीरसंबन्धोहि जन्म, तद्वियोगश्च मरणम्तदभिमानिनोजीवस्य। सति च ज्ञाने तन्मूलाज्ञाने निवृत्तेतद्धेतुकशरीरसंबन्वादिकं तन्तुदाहे पटदाहवत् स्वयं निवर्त्ततेअत एव ज्ञानवतो देहादिसंबन्धं श्रुतिर्निरास
“अशरीरं[Page0103-a+ 38] बाव सन्तं प्रियाप्रिये न स्मृशत इति”। तथा च देहसंबन्धा-भावे कथं मरणसम्भवः।
“न जायते म्रियते वा कथञ्चि-दिति” गीतावाक्येन तस्य मरणनिषेधात्।
“न तस्यपाणाह्युत्क्रामन्ति इहैव समवलीयन्ते” इति श्रुत्या तत्त्व-ज्ञानिनः प्राणोत्क्रभणरूपमरणनिषेधेन ज्ञानिनो न मृत्यु-रिति वेदान्तिसिद्धान्तः। अन्यमते तु एतद्देहात् प्राणोत्-क्रान्तावपि न पुनर्देहसम्बन्धोत्तरं पुनर्मरणमिति तद्राहित्य-मेव मोक्ष इति भेदः। अतएवोक्तं श्रुत्या
“मृत्युमुखात्प्रमुच्यते” इति तेन पुनर्मृत्युकारणीभूतादृष्टक्षय एव ज्ञानेनजन्यते
“ज्ञानाग्निः सर्वकर्म्माणीति” शास्त्रेण प्रारब्धकर्म्मा-रिक्तकर्म्मक्षयस्यैव ज्ञानेन साध्यतायाः सर्वसम्मतत्वात् विदु-षश्च एतद्देहारम्भकादृष्टवत् एतद्देहविगमादृष्टस्यापि प्रारब्ध-फलकतया न तस्य नाश इति। अधिकमाकरे द्रष्टव्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमृत्यु [atimṛtyu], a. Overcoming death. -त्युः Final liberation from death (मोक्ष); तमेव विदित्वा$तिमृत्युमेति नान्यः पन्था विद्यते Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमृत्यु/ अति-मृत्यु mfn. overcoming death ChUp.

"https://sa.wiktionary.org/w/index.php?title=अतिमृत्यु&oldid=484903" इत्यस्माद् प्रतिप्राप्तम्