सामग्री पर जाएँ

अथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथ, व्य, (अर्थ + ड पृषोदरादित्वात् रस्य लीपः ।) मङ्गलं । अनन्तरं । आरम्भः । प्रश्नः । कार्त्स्न्यं । इत्यमरः ॥ अधिकारः । संशयः । विकल्पः । समु- च्चयः । इति मेदिनी ॥ (अथ तस्य विवाहकौतकं ललितं बिभ्रत एव पार्थिवः ॥ इति रघुवंशे ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथ अव्य।

अनन्तरम्

समानार्थक:अथो,अथ

3।3।248।1।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

अथ अव्य।

आरम्भः

समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ

3।3।248।1।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , क्रिया

अथ अव्य।

कार्त्स्न्यम्

समानार्थक:वृत्तान्त,मात्र,न्यक्ष,अथो,अथ

3।3।248।1।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

अथ अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।248।1।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

अथ अव्य।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

3।3।248।1।2

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ। वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथ¦ अव्य॰ चु॰--अर्थ--ड पृषो॰ रलोपः। संशये, आरम्भेआनन्तर्य्ये, प्रश्ने, विकल्पे, प्रकरणे, समुच्चये पक्षान्तरे च। मङ्गलं तु नास्यार्थः किन्तु अर्थान्तरप्रयुक्तोऽप्ययं श्रुत्या[Page0111-b+ 38] मङ्गलसाधनं भवति।
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणःपुरा। कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभा” वित्युक्तेस्तस्य श्रवणेन मङ्गलसाधनत्वम् अतएव शारीरकभाष्ये
“अर्थान्तरप्रयुक्तोऽथशब्दः श्रुत्या मङ्गलमारचयती” त्युक्तम्। तत्र
“अथातो ब्रह्मजिज्ञासेत्यादौ” साधनचतुष्टयानन्त-र्य्यार्थे
“अथ प्रजानामधिप” इत्यादौ चानन्तर्य्ये,
“अथयोगानुशासन” मित्यत्र अधिकाररूपारम्भे
“शब्दोनित्यः अथानित्य” इत्यादौ संशये, संशयश्च एकधर्म्मिकं कोटिद्वयज्ञानंतत्र कोट्युपस्थापनस्य संशयहेतुत्वात् प्रकृते तस्यैव संशयशब्दा-र्थता विकल्पश्च संशयविशेष एव।
“अथ शक्नोषि भोक्तु-मित्यादौ” प्रश्ने,
“अथ शब्दानुशासनमित्यत्र मङ्गलार्थ-तयोपादानमर्थस्तु अधिकार एव
“अथ सरणमवश्यमेवजन्तोरिति” वेण्याम्,
“अथ चेत्त्वमिमं धर्म्म्यं संग्रामं नकरिष्यसीत्यादौ गीतायां च पक्षान्तरे, अथातोधर्मं व्याख्या-स्याम इत्यादौ कात्र्स्न्ये,
“भीमोऽथार्ज्जुन” इत्यादौसमुच्चये, स्वरादिपाठादस्याव्ययत्वम्।

अथ¦ मार्गे मेधिरोपणम्
“कृत्वा तु खलकं मार्गे समं गोम-यलेपितम्। रोषणीया प्रयत्नेन तत्र मेधिः शुभेऽहनि। स्त्रीनाम्ना कृषकैः कार्य्या मेधिर्वृश्चिकभास्करे। मेधेर्गु-णेन कृषकः शस्यवृद्धिमवाप्नुयात्। न्यग्रोधः सप्तपर्णोवा गाम्भारी शाल्मलिस्तथा। औदुम्बरो विशेषेणअन्योवा क्षीरवांस्तरुः। वटादीनामभावे तु कार्य्या स्त्रीनामधारिका। वैजयन्तीयुता मेधिर्निम्वसर्षपरक्षिता। धान्यकेशरसंयुक्ता तृणमर्कटकान्विता। अर्च्चिता गन्धपुष्पाभ्यां मेधिः शस्यसुखप्रदा। पौषे मेधिर्न चारोप्याक्रूराहे श्रवणे तथा। शस्यवृद्धिकरी मार्गे पौषे शस्य-क्षयङ्करी। कपित्थविल्ववंशानां तृणराज्ञां तथैव च। मेधिः कार्य्या नरैर्नैव यदोच्छेदात्मनः शुभम्”। अथ पौषे पुष्ययात्राकथनम्
“अखण्डिते ततो धान्येपौषे मासि शुभे दिने। पुष्ययात्रां जनाः कुर्युरन्योन्यंक्षेत्रसन्निधौ। परमान्नञ्च तत्रैव व्यञ्जनैर्म्मत्स्यमांसजैः। निरामिषैस्तथा दिव्यैर्हिङ्गुमारीचसंयुतैः। दधिभिश्चतथा दुग्धैराज्यपायसमिश्रितैः। नानाफलैश्च मू-लैश्च मिष्टपिष्टकयिस्तरैः। एभिः सुढौकितं कृत्वा तदन्नंकदलीदले। भोजयेयुर्जनाः सर्वे यथावृद्धपुरःसराः। आचम्य च ततस्तत्र चन्दनैश्च चतुःसमैः। अन्योन्यं लेपनंकुर्य्युस्तैलैः पक्वैः सुगन्धिभिः। कर्पूरवासितं दिव्यंताम्बूलं गन्धधूपितम्। भक्षयेथुः प्रषूर्य्यास्यं परिधायनवाम्बरम्। पुष्पैराभरणं कृत्वा नमस्कृत्य शचीपतिम्। गीतैर्वाद्यैश्च नृत्यैश्च कुर्य्युस्तत्र महोत्सवम्। ततस्तुहर्षिताः सर्वे मन्त्रं श्लोकचतुष्टयम्। हस्तसंपुटकं कृत्वापठेयुर्वीक्ष्य भास्करम्। क्षेत्रे चाखण्डिते धान्ये तवदेव! प्रसादतः। पुष्यन्तु मिलिताः सर्वे शस्यानि शुभका-रकाः। मनसा कर्म्मणा वाचा ये चास्माकं विरोधिनः। ते सर्वे पशमं यान्तु पुष्ययात्राप्रभावतः। धान्यवृद्धिर्य-शोवृद्धिः प्रवृद्धिः पुत्रदारयोः। राजसम्मानवृद्धिश्च गवांवृद्धिस्तथैव च। मन्त्रशासनवृद्धिश्च लक्ष्मीवृद्धिरहर्न्नि-शम्। अस्माकमस्तु सततं यावत् पूणी न वत्सरः। [Page2201-b+ 38] ततः प्रमुदिताः सर्वे व्रजेयुः स्वनिकेतनम्। न भोजर्नपुनः कुर्य्युस्तस्मिन्नहनि मानवाः। हिताय सर्तलोकानांपुष्ययात्रा मनोहरा। पुरा पराशरेणेयं कृता सर्वाथसाधिनी। तस्मादियं प्रयत्नेन पुष्ययात्रा विधानतः। सर्व-विघ्नप्रशान्त्यर्थं कार्य्या शस्यस्य वृद्धये। पुष्ययात्रां नकुर्वन्ति ये जना धनगर्विताः। न विघ्नोपशमस्तेषां कुत-स्तद्वत्सरे सुखम्। पौषे मासि ततः कुर्य्याद्धान्यच्छेदंविचक्षणः। मर्द्दयित्वा यथायोगमाढकेन प्रमापयेत्। सुप्रमाप्य च तद्धान्यं यथालाभं प्रबन्धयेत्। प्रमादेनापिपौषे त व्ययं तस्य न कारयेत्। मापनं सर्वशस्यानां वा-मावर्त्तेन कीर्त्तितम्। धान्यनां दक्षिणावर्त्तं मापनंक्षयकारकम्। वामावर्त्तेन सुखदं धान्यवृद्धिकरं परम्”। आढकलक्षणम्
“द्वादशाङ्गुलकैर्म्मानैराढकः परिकीर्त्तितः। श्लेष्मातकाम्रपुन्नागकृतमाढकमुत्तमम्। कपित्थपर्कटीनि-म्बजनितं दैन्यवर्द्धनम्”। अथ धान्यस्थापनम्। हस्ते स्वातौ च पुष्यायां रेवत्याञ्चप्रजापतौ। यममूलोत्तरे सौम्ये मघायाञ्च पुनर्वसौ। जीवेसोमे भृगोर्वारे निधने क्रूरवर्जिते। मीनलग्ने शुभे ऋक्षेधान्यस्थापनमुत्तमम्”। कृषिकर्त्तव्यतायां विशेषो वृहत्पराशरसं॰ दर्शितोयथा
“अतःपुरं गृहस्थस्य कर्माचारं कलौ युगे। धर्मं साधारणंसाक्षाच्चतुर्वर्णक्रमागतम्। युष्माकं सम्प्रवक्ष्यामि पाराश-रप्रचोदितम्। षट्कर्मसहितोविप्रः कृषिवृत्तिं समाश्रयेत्। हीनाङ्गं व्याधिसंयुक्तं प्राणहीनञ्च दुर्बलम्। क्षुद्युक्तंतृषितं श्रान्तमनड्वाहं न वाहयेत्। स्थिराङ्गं नीरुजंतृप्तं शान्तं षण्डविवर्जितम्। अधृष्टं सबलप्राणमन-ड्वाहं तु वाहयेत्। वाहयेद्दिवसस्यार्धं पश्चात् स्नानं स-माचरेत्। कुगवैर्न कृषिं कुर्य्यात्सर्वथा धेनुसंग्रहम्। ब-न्धनं पालनं रक्षा द्विजः कुर्य्यात्गृही गवाम्। वत्सा{??}यत्नतो रक्ष्या वर्धन्ते ते यथाक्रमम्। न दूरे तास्तु मोक्तव्याश्चरणाय कदाचन। दूरे गावश्चरन्त्यो वै न भवनिशुभायनाः। प्रातरेव हि दोग्धव्या दुहाः सायं तथागृही। दोग्धुर्विषर्य्यये नैव वर्द्धन्ते ताः कदाचन। अ-नादेयतृणं भुक्त्वा स्रवन्त्यनुदिनं पयः। तुष्टिकृद्देवतादीनांपूज्या गावः कथन्न ताः। यस्याः शिरसि ब्रह्मास्ते स्क-न्धदेशे शिवः स्मृतः। पृष्ठे विष्णुस्तथा तस्थौ श्रुतयश्च-रणेषु तु। या अन्या देवताः काश्चित्तस्या लोमसु ताःस्थिताः। सर्वदेवमयी गौस्तु तुष्येत्तद्भक्तितो हरिः। [Page2202-a+ 38] हरत्ति स्पर्शनात्पापं पयसा पोषयन्ति याः। प्रापयन्तिदिवं दत्ताः पूज्या गावः कथन्न ताः। यच्छफाहतभूमेस्तुउद्यतः पांशुसंचयः। प्रोथयेत् पुरुषस्येनो वन्द्यागावः कथन्न ताः। शकृन्मूत्रं हि यस्यास्तु पितुः पुनातिपातकम्। किमपूज्यं हि तस्या गोरिति पाराशरोऽब्रवीत्। गौरवत्सा न दोग्धव्या नचैव गर्भसन्धिनी। प्रसूता च दशाहार्वाग्दोग्धा चेन्नरकं ब्रजेत्। दुर्बलाव्याधिसंयुक्ता पुष्पिता या द्विवत्सभूः। सा साधुभिर्न दो-ग्धव्या वर्णिभिः सुखमीप्सुभिः। कुलान्ते पुष्पिता गावःकुलान्ते बहवस्तिलाः। कुलान्ते चलचित्तास्त्री कुलान्तेवन्धुविग्रहः। एकत्र पृथिवी सर्वा सशैलवनकानना। तथा गौर्ज्यायसी साक्षादेकत्रोभयतोमुखी। यथोक्तवि-धिना यस्ता वर्णैः पाल्यास्तु पूजिताः। पालयेत् पूजय-न्नेताः स प्रेत्येह च मोदते। दक्षिणाभिमुखा गाव उत्त-राभिमुखा अपि। बन्धनीयास्तथैतास्तु न च प्राक्पश्चि-मामुखाः। गोवृषवाजिशालायां सुतीक्ष्णं लोहदात्र-कम्। स्थाप्यन्तु सर्वदा तस्यां गवि लुप्तविमोक्षणात्। नावो देयाः सदा रक्ष्याः पोष्याः पाल्याश्च सर्वदा। ताड-यन्ति च ये पापा ये चाकर्षन्ति ता नराः। नरके पच्य-न्तेऽङ्गानि श्वासेव च प्रपीडिताः। विसर्पन्तीं न दण्डेनपालकस्तां निवर्त्तयेत्। गच्छ गच्छेति तां ब्रूयान्मा मा-भैरिति वारयेत्। संस्पृशन् गां नमस्कृत्य कुर्य्यात्तान्तु प्र-दक्षिणम्। प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा। त्रणो-दकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम्। सोऽश्वमेधसमं पुण्यंलभते नात्र संशयः। पृथिव्यां यानि तीर्थानि समुद्राश्चसरांसि च। गवां शृङोदकस्नाने कलां नार्हन्ति षोडशोम्। कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम्। सततंबालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम्। ब्राह्मणाश्चैवगावश्च कुलमेकं द्विधा कृतम्। तिष्ठन्त्येकत्र म-न्त्राणी हविरेकत्र तिष्ठति। गोभिर्यज्ञाः प्रवर्तन्ते गो-भिर्येवाः प्रतिष्ठिताः। गोभिर्वेदाः समुद्गीर्णाः सषडङ्ग-पदक्रमाः। सौरभेयास्तु तस्याग्रे पृष्ठतोऽप्यस्य ताःस्थिनाः। वसन्ति हृदये नित्यन्तासां मध्ये वसन्ति ये। ते पुण्यपुरुपाः क्षौण्वां नाकेऽपि दुर्लभाश्च ते। शृङ्ग-मूले स्थितो प्रह्मा शृङ्गमध्ये तु केशवः। शृङ्गाग्रे शङ्करंविद्यास्त्रयोदेवाः प्रतिष्ठिताः। शृङ्गाग्रे सर्वतीर्थानिस्यावराणि चराणि च। सर्वे देवाः स्थिता देहे सर्वदेव-मयी हि गौः। ललाटाग्रे स्थिता देवी नासामध्ये तु[Page2202-b+ 38] षण्मुखः। कम्बलाश्वतरौ नागौ तत्कर्ण्णे तु व्यवस्थि-तौ। स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ। दन्तेषु वसवश्चाष्टौ जिह्वायां वरुणः स्थितः। सरस्वतीच हुङ्कारे यमयक्षौ च गण्डयोः। ऋषयो रोमकूपेष्रप्रस्नावे जाह्नवीजलम्। कालिन्दी गोमये तस्या अपरादेवतास्तथा। अष्टाविंशतिदेवानां कोट्या लोमसु ताःस्थिताः। उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा। मुखे चाहवनीयस्तु चावसथ्यस्तु च कुक्षिषु। एवं योवर्त्तते गोषु ताडने क्रोधवर्जितः। महतीं श्रियमाप्तो-ति स्वर्गलोके महीयते। कुल्यं तस्या न लङ्घेत पूतिग-न्धं न वर्जयेत्। यावजिजघ्रति तद्गन्धं तावत्पुण्यं प्रव-र्द्धते। यो गां पयस्विनीं दद्यात्तरुणीं वत्ससंयुताम्। शिवस्यायतनं दत्तं दत्तन्तेन च विश्वकम्। उक्षा गौ-र्वेधसा सृष्टा तस्य ह्युत्पादनाय च। तैरुत्पादितशस्येनसर्बमेतद्धि धार्य्यते। यश्चैतान् पालयेत् यत्नात् वर्धयेच्चैवयत्नतः। जगन्ति तेन सर्वाणि साक्षात् स्युः पालितानिच। यावद्गोपालने पुण्यमुक्त’ पूर्वमनीषिभिः। उ-क्ष्णोऽपि पालने तेषां फलं दशगुणं भवेत्। जगदेतद्-धृतं सर्वमनडुद्भिश्चराचरम्। वृष एष ह्यतोरक्ष्यः पाल-नीयस्तु सर्वदा। धर्मोऽयं भूतले साक्षाद्ब्रह्मणा हितका-रिणा। त्रैलोक्यधारणायालमन्नानाञ्च प्रसूतये। अ-नादेयानि घासानि विध्वंसन्ति सकामतः। भ्रमिताभूतलं दूरमुक्षाणङ्को न पूजयेत्। उत्पादयन्ति शस्यानिमर्दयन्ति वहन्ति च। आनयन्ति दवीयःस्थनुक्ष्णोवाकोऽधिको भुवि। स्कन्धेन दूराच्च वहन्ति मारमन्नादि-कानां न च भक्षयन्ति। स्वीयेन जीवेन परस्य जीवं रक्षन्तिपुष्णन्ति विवर्धयन्ति। पुण्यास्तु गावो वसुधातले मां वि-भ्रत्यलं पृष्ठगगर्भभारम्। भारः पृथिव्या दशताडितायाएकस्य चाष्णो ह्यपि साधुवाचः। एकेन दत्तेन वृषेगयेन दत्ता भवेयुर्द्दश सौरभेयाः। दाने ह्यपीयं धरणीसमा नो तस्माद्वृषात् पूजितमस्ति नान्यत्। उत्पाद्य श-स्यानि तृणञ्चरन्ति तदेव भूयः सकलं वहन्ति। म भार-खिन्नाः प्रवदन्ति किञ्चिदहोवृषाद्धार्यति जीवलोकः। तृतीयेऽह्नि चतुर्थे वा यदेवो{??} दृढोभवेत्। तदा नसा नभेत्तव्या नैव प्राग्दुर्बलस्य च। नासावेधनकीलन्तु खा-दिरं वाथ शैंशपम्। द्वादशाङ्गुलकङ्कार्य्यन्तज्ज्ञैस्त्रीणिसमे च वा। शाला द्विपानां वृषगोहयानां तां याम्यदिग्-द्वारवतीं विदध्यात्। सौम्यां ककुब्द्वारवतीं सुशीभान्ते-[Page2203-a+ 38] षां शमिच्छन् हितमात्मनश्च। गावो वृषो वा हयहस्तिनोर्वा अन्ये ऽपि सर्वे पशवो द्विजेन्द्राः। याम्यामुखानैव तु उत्तरादिङ्मुखांसकास्ते खलु बन्धनीयाः। शा-लाप्रवेशे वृषगोपशूना राजापि यत्नाद्धयकुञ्जराणाम्। होमञ्च सप्तार्चिषिशास्त्रयुक्तं कुर्य्याद्विधिज्ञो द्विजपूजनञ्च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथ¦ ind. An auspicious and inceptive particle; it serves to introduce a remark, a question, an affirmation, &c. and corresponds to.
1. After.
2. And
3. Now, (inceptive or premising)
4. What, (inter- rogatively)
5. All, (comprehensively)
6. Therefore, thus, further, moreover, &c. It also implies doubt or command, and is frequently redundant. E. अर्थ to ask, ड affix, and र is dropped, also अथो।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथ [atha], (Ved. अथा) ind. [अर्थ्-ड, पृषोद˚ रलोपः Tv.] A particle used at the beginning (of works) mostly as a sign of auspiciousness, and translated by 'here', 'now' (begins) (मङ्गल, आरम्भ, अधिकार) (Properly speaking 'auspiciousness' or मङ्गल is not the sense of अथ, but the very utterance or hearing of the word is considered to be indicative of auspiciousness, as the word is supposed to have emanated from the throat of Brahmā ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥ and therefore we find in Śāṅkara Bhāṣya अर्थान्तरप्रयुक्तः अथशब्दः श्रुत्या मङ्गलमारचयति); अथ निर्वचनम्; अथ योगानुशासनम्; अथेदं प्रारभ्यते द्वितीयं तन्त्रम् Pt.2. (usually followed by इति at the end, इति प्रथमो$ङ्कः here ends &c.).

Then, afterwards (आनन्तर्य) अथ प्रजानामधिपः प्रभाते R.2.1; often as a correlative of यदि or चेत्; न चेन्मुनिकुमारो$यं अथ को$स्य व्यपदेशः Ś.7; मुहूर्तादुपरि उपाध्याय- श्चेदागच्छेत् अथ त्वं छन्दो$धीष्व P.III.3.9. Sk.

If, supposing, now if, in case, but if (पक्षान्तर); अथ कौतुक- मावेदयामि K.144, अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥ Ś.5.27; अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वे Ve.3.6. अथ गृह्णाति Ś.7; Ku.5.45; Mu.3.25; Ki.1.44; अथ चास्तमिता त्वमात्मना R.8.51 while, but, on the other hand; oft followed by ततः or तथापि, Bg.2.26;12.9,11; अथ चेत् but if Bg.2. 33;18.58.

And, so also, likewise (समुच्चय); गणितमथ कलां वैशिकीम् Mk.1. मातृष्वसा मातुलानि श्वश्रूरथ पितृष्वसा । संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥ Ms.2.1.31; भीमो$थार्जुनः G.M.

Used in asking or introducing questions (प्रश्न) oft. with the interrogative word itself; अथ सा तत्रभवती किमाख्यम्य राजर्षेः पत्नी Ś.7; अर्थवान् खलु मे राजशब्दः । अथ भगवाँल्लोकानुग्रहाय कुशली काश्यपः Ś.5; अथ शक्नोषि भोक्तुम् G. M.; अथात्रभवति कथमित्थंभूता M.5; अथ केन प्रयुक्तो$यं पापं चरति पूरुषः । Bg.3.36; अथ भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः Ś.2; अथ माडव्यं प्रति किमेवं प्रयुक्तम् Ś.6 (अथ may in these two sentences mean 'but').

Totality, entirety (कार्त्स्न्य); अथ धर्मं व्याख्यास्यामः G. M. we shall explain the whole धर्म (धर्म in all its details.) Śi;7.75.

Doubt, uncertainty (संशय, विकल्प); शब्दो नित्यो $थानित्यः G. M. The senses of अथ usually given by lexicographers are:अथो$थ स्यातां समुच्चये । मङ्गले संशयारम्भा- धिकारानन्तरेषु च । अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि ॥ Some of these senses are indentical with those in (1), while some are not in general use. -Comp. -अतः -अनन्तरम् now, therefore; अथा$तो धर्मजिज्ञासा Ms.1.1.1. -अपि moreover, and again &c. (= अथ in most cases); ˚च likewise, also.-किम् what else, yes, exactly so, quite so, certainly; सर्वथा अप्सरःसंभवैषा । अथ किम् Ś.1; अपि वृषलमनुरक्ताः प्रकृतयः अथ किम् Mu.1. -किमु how much more, so much more. -तु but, on the contrary. अथ तु वेत्सि शुचि व्रतमात्मनः । Ś.5.27.

वा or (used like the English disjunctive conjunction'or' and occupying the same place); व्यवहारं परिज्ञाय वध्यः पूज्यो$थवा भवेत् H.1.55; समस्तैरथवा पृथक् Ms.7.198; अथवा-अथवा either-or; वाथ is often used in the same sense with वा; कार्तिके वाथ चैत्रे वा Pt.3.38; साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ Ms.7.182; अथापि वा also used in the same sense; एतदेव व्रतं कुर्यु- श्चान्द्रायणमथापि वा 11.117;8.287.

or rather, or why, or perhaps, is it not so (correcting or modifying a previous statement); why should there be any thought or hesitation about it, or it is no wonder; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं सन्देहेन Ś.1.,1.16; गमिष्याम्युपहास्यताम्...अथवा कृतवाग्द्वारे वंशे$स्मिन् R.1.3-4; अथवा मृदु वस्तु हिंसितुम् R.8.45.; दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् U.6.4; अधोधो गङ्गेयं पदमुपगता स्तोकमथवा । विवेकभ्रष्टानां भवति विनिपातः शतमुखः Bh.2.1.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथ ind. (or Ved. अथा)(probably fr. pronom. base अ)an auspicious and inceptive particle (not easily expressed in English) , now

अथ ind. then

अथ ind. moreover

अथ ind. rather

अथ ind. certainly

अथ ind. but

अथ ind. else

अथ ind. what? how else? etc.

"https://sa.wiktionary.org/w/index.php?title=अथ&oldid=485080" इत्यस्माद् प्रतिप्राप्तम्