अथार्घं

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अथार्घं¦ संप्रवक्ष्यामि यदुक्त चादिजामले। एकाशीतिपदे चक्रे ग्रहभेदाच्छुभाशुभम्। देशः कालस्ततः पण्य-मिति त्रीण्यर्घनिर्णये। चिन्तनीयानि विद्धानि सर्व-कालं विचक्षणैः। देशोऽथ मण्डलं स्थानमिति देशस्त्रि-धोच्यते। वर्षमासदिनं चेति त्रिधा कालोऽषि कथ्यते। धातुर्मूलं च जीषश्च इति पण्यं त्रिधा मतम्। अथ त्रिकत्रयस्यास्य बक्ष्यामि खामिखेचरान्। देशेशा राहु-मन्देज्या मण्डलस्वामिनः पुनः। केतुसूर्य्यसिताः स्थान-नाथाश्चन्द्रारचन्द्रजाः। वर्षेशा राहुकेत्वार्क्किजीवा मासा-घिपाः पुनः। भौमार्कज्ञसिता ज्ञेयाश्चन्द्रः स्यात् दिवसाधिपः। धात्वीशाः सौरिपातारा, जीवेशाज्ञेन्दुसूरयः। मूलेशाःकेतुशुक्रार्का इति पण्याधिपाग्रहाः। पुग्रहा राहुकेत्वर्कजीवभूमिसुता मताः। स्त्रीग्रहौ शुक्रशशिनौ सौरिसौम्यौ नपु सकौ। सितेन्दू सितवर्णेशौ रक्तेशौ भौमभास्करौ। पीतेशौ ज्ञगुरू कृष्णनाथाः केतुतमोऽर्क्कजाः। ग्रहोवक्रोच्चयोर्यः स्यादुदये च बलाधिकः। देशादीनांस एवैकः स्वामी खेटस्तदा मतः। स्वगृहे वक्रतुङ्गे स्या-दुदये च बलाधिकः। वक्रोदये स्वहर्म्ये च पूर्णवीर्य्यो-ग्रहो भवेत्। तदग्रपृष्ठगे खेटे बलं त्रैराशिकात्मतम्। उच्चांशस्थे बलं पूर्णं नीचांशस्थे दलं वलम्। त्रैराशिकव{??}आतज्ञेयमन्तरे तु बलं बुघैः। एवं देशा-[Page2817-b+ 38] दिनाथा ये ग्रहवेधे व्यवस्थिताः। सुहृदः शत्रवोम-ध्याश्चिन्तनीयाः प्रयत्नतः। स्वमित्रसमशत्रूणां विध्यन्देशादिकं क्रमात्। शुभग्रहः शुभं दत्ते चतुस्त्रिद्व्ये-कपादकैः। दुष्टं दुष्टग्रहः कुर्य्यादेकद्वित्रिचतुःपदैः। विद्धं पूर्णदृशा पश्यन् तत्पादेन फलं ग्रहः। अविद्धंत्वन्यथां ज्ञेयं फलं दृष्ट्यनुमानतः। वर्णादिस्वरराशीनांमेषाद्ये राशिमण्डले। ग्रहदृष्टिवशात् सर्वं बिद्धं वर्णादिकंमतम्। स्वरवर्णः स्वचक्रोक्तस्तिथिवेधाच्च पीडयेत्। तिथिवर्णेषु यो राशिस्तद्दृष्टिः स्यात्तिथीक्षणात्। अशुभोवा शुभोवापि शुक्ले विध्यं स्तिथिं ग्रहः। सर्वंनिजफलं दत्ते कृष्णे पक्षे तु तद्दलम्। खेटकेकैकाशकेज्ञेया पूर्णा दृष्टिः सदा बुधैः। दृष्टिहीने पुनर्वेधे नस्यात् किञ्चित् शुभाशुभम्। इत्येवं दृष्टिभेदेन निर्द्दिष्टंसकलं फलम्। वर्णादिपञ्चके विद्धे ग्रहो दत्ते शुभा-शुभम्। सौम्यः पूर्णदृशा पश्यन् विद्धं वर्णादिपञ्च-कम्। फलं विंशोपकाः पञ्च क्रूरस्य चतुरोदिशेत्। वर्णादिपञ्चके यावत् स्थानवेधे च तावती। ष्टिस्तदनु-मानेन वाच्या विंशोपका बुधैः। एव विंशोपका येऽत्रसम्भवन्ति शुभाशुभाः। अन्योन्यं शोधयेत्तेषां शेषात् ज्ञेयंशुभाशुभम्। देशध्वंसः प्रजापीडा नृपविप्रबघस्तथा। यत्र दृष्टिस्तु तत्र स्याद् दुर्भिक्षंमण्डले तथा। वर्त्तमानार्घविंशांशाः कल्प्या विंशोपका इह। ते क्रमात् वर्त्तमा-नार्घे देयाः पात्याः शुभाशुभाः। अकालेऽपि फलंपुष्पं वृक्षाणां यत्र जायते। स्वजातिमासभुक्तिश्चदुर्भिक्षं तत्र रौरवम्। परचक्रागमोयत्र विग्रहश्चस्वराज्यके। ऋतोर्विपर्य्ययो यत्र दुर्भिक्षं मण्डलेभवेत्। भूमिकम्पोरजःपातोरक्तवृष्टिश्च जायते। देशेसर्वसुखोपेते वेधादेतद्वदेत्बुधः। दीपो यथा गृहस्या-न्तमुद्द्योयति सर्वतः। तथेदं सर्वतोभद्र चक्रं ज्ञान-प्रकाशकम्”।

२ शतपदचक्रम्--
“चक्रं शतपदं बक्ष्ये ऋक्षांशाक्षरसम्भ-वम्। नामादिवर्णतोज्ञेवां ऋक्षराश्यंशकास्तथा। तिर्य्य-गूर्द्धगता रेखा रुद्रसंख्यालिखेद्बुधः। जायते कोष्ठ-कानाञ्च शतैकं

१०

० नात्र संशयः। न्यस्येदवकह-डादि रौद्रादिविदिशि क्रमात्। (अ वकह डा ऐशान्यांम ट प र ता हरिति चाग्नेय्याम। न य भ॰ज खा नैरृत्यां ग श द च लावायव्याम्) पञ्च पञ्चक्रमेणैव विंशवर्णान् नियोजयेत्। पञ्चस्वरसमायोगे[Page2818-a+ 38] एकैकं पञ्चधा कुरु। (अवर्णाद्यास्त्रयोज्ञेयाः सन्ध्यक्षरयुतस्तथा। सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः। ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः) अधिक पा॰।
“कुर्य्यात् कुपुभुदुस्थाने त्रीणि त्रीण्यक्षराणि च। कुघङछोभवेत् स्तम्भे रौद्रे त्वीशानगोचरे। पुषणठो भवेत् स्तम्भेह्रस्ते चाग्नेयसंज्ञके। भुधफढोभवेत् स्तम्भे पूर्वाषाढे चनैरृते। दुथझङो भवेत् स्तम्भे वायव्ये भाद्रौत्तरे। एवं स्त्रम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः। धिष्ण्यानिकृत्तिकादीनि प्रत्येकं चतुरक्षरैः। साभिजिन्त्यंशका-स्तत्र शतैकं द्वादशाधिकम्। यदृक्षांशककोष्ठस्थः क्रूरःसौम्योऽपि वा ग्रहः। ततस्तं वेधयेत् तिर्यक् पुंसोनामा-दिमाक्षरम्। सौम्यैर्विद्धं शुभं ज्ञेयमशुभं पापखेचरैः। मिश्रैर्मिश्रफलं तत्र निर्वेधे न शुभाशुभम्। यदुक्तंसर्वतोभद्रे ग्रहोपग्रहवेधतः। शुभाशुभफलं सर्वं तदि-हापि विचिन्तयेत्”। (पञ्च स्वराः अ इ उ ए ओकारास्तै-र्योगे धिष्ण्यानि नक्षत्राणि। अ त्र चतुभिर्वर्णैरेकं नक्षत्रंयथा। अ इ उए

३ । ओ वविवु।

४ । वेवोककि।

५ । कुघङछ।

६ । केकोहहि।

७ । हुहेहोड।

८ । डिडुडेडो।

९ । ममिमुमे।

१० । मोटटिटु।

११ टेटो-पपि।

१२ । पुषणठ

१३ । पेपोररि।

१४ । रुरे-रोत।

१५ । तितुतेतो।

१६ । ननिनुने।

१७ । नोय-यियु।

१८ । येयोभभि।

१९ । भुधफढ।

२० । भेभो-जजि।

२१ । जुजेजोख। (अभिजित्) ॰। खिखुखे-खो।

२२ । गगिगुगे।

२३ । गोशशिशु।

२४ । शेशोददि।

२५ । दुथझञ।

२६ । देदोचचि।

२७ । चुचेचोल।

१ । लिलुलेलो।

२ । ऋऌयुक्तः अकार-युक्तेन ज्ञेयः। ह्रस्वेन दीर्घोज्ञेयः। तालव्यशकारेणदन्त्यसकारोज्ञेयः)।

३ अंशचक्रम्--
“अष्टाविंशोर्द्धगा रेखा अष्टाविंशतितिर्य्यग-गाः। अंशचक्रं भवत्येवं यदुक्तं चादिजामले। कृत्तिकादीनिभ्रान्यत्र पादाक्षरक्रमेण च। साभिजिन्ति न्यसेत् सर्वा-ण्यष्टाविंशतिसंख्यया। यो ग्रहो यत्र ऋक्षांशेतं तत्रैवन्यसेद्बुधः। वेधयेत् संमुखं वर्णं शुभो वाप्यशुभीऽपि वा। आद्यंशेन चूतुर्थांशं चतुर्थांशेन चादिमम्। द्वितीयेनतृतीयं तु तृतीयेन द्वितीयकम्। यस्य नामाक्षरंविद्ध्वमंशचक्रे ग्रहेण तु। क्रूरैः रिष्टं, शुभैर्हानिर्द्व्या-द्यैर्म्मृत्युर्न संशयः। क्रूरोभयस्थिते वेधे मृत्युर्विघ्नंशुमाशुमैः। शुभोभयगते वेधे व्याधिषीडा च बन्ध-[Page2818-b+ 38] नम्। बैधव्यञ्च विवाहे तु यात्राकाले महाभयम्। रोगे मृत्यूरणे भङ्गः क्रूरवेधे न संशयः। अद्रयःसागरानद्यो देशग्रामपुराणि च। क्रूरवेधे विनश्यन्तिनात्र कार्य्या विचारणा। चन्द्रस्यर्क्षांशको विद्धो भवेद्यत्रा-परग्रहैः। तन्मानं तद्दिनं वर्ज्यं सर्वदा शुभकर्मणि”

४ छत्रत्रयचक्रम्--आदौ चक्रं समालिख्य छत्रत्रयसुशोमि-तम्। अश्विन्यादीनि लेख्यानि सप्तविंशतिभानि च। अश्वि-न्याद्यं मघाद्यञ्च मूलाद्यञ्च क्रमेण च। उत्तरे पूर्वके याम्येचैतच्छत्रत्रयं मतम्। प्रतीचीमध्यरेखायामीशानान्तंहयाधिपः। आग्नेयान्तं नराधीशस्तन्मध्ये च गजा-धिपः। अश्वाध्यक्षा गजाध्यक्षोनराध्यक्षः क्रसेण च। एषां छत्रविभागेण ज्ञातव्यं हि शुभाशुभम्। अन्येषांभूभृतामृक्षं यत्र छत्रे व्यवस्थितम्। तच्छत्रं तस्य भूपस्यशुभाशुभफलप्रदम्। यत्र छत्रे स्थितः सौरिर्भङ्गं तस्यविनिर्दिशेत्। फलञ्च चामरादीनां प्रत्येकं च वदाम्य-हम्। चामरं कलसं वीणा छत्रं दण्डं पतद्गहम्। आसनं कीलकं रज्जुर्न्नव भेदा प्रकीर्त्तिताः। चामरे

१ चण्डता बायोरनावृष्टिश्च जायते। दुर्भिक्षंच भवेद्घोरं प्रजापीडा न संशयः। कलसस्थे

२ भवेद्युद्धं रणे भङ्गो महद्भयम्। घातपातादिकंसर्वं जायते नात्र संशयः। वीणासंस्थे

३ चार्कपुत्रेपट्टराज्ञी विनश्यति। चलचित्तो भवेद्राजा भयभीताच मेदिनी। यदाऋक्षत्रये सौरिश्छत्रे

४ दण्डे

५ पत-द्ग्रेहे

७ । तदा तस्य भवेद्भङ्गश्छत्रस्यापि न संशयः। आसनस्यभवेन्नाश आसनस्थे

७ शनैश्चरे। युवराजक्षयः कीले

८ वन्धनंरज्जुसंस्थिते

९ । सौम्ययुक्तोऽतिचारस्थः शनिरुक्त-फलो न हि। वक्रगः क्रूरयुक्तश्च सर्व्वं क्रूरं करोतिसः। शनिराहुकुजादित्यायदाजीवेन्दुसंयुताः। उत्त-राधीशराज्यस्य निश्चितं छत्रभङ्गदाः। क्रूरचतुष्टयंचैव बुधचन्द्रेण संयुतम्। पूर्वछत्रविनाशाय कथितंपूर्वसूरिभिः। एवं पापचतुष्क च यदा शुक्रेन्दसंयुतम्। दक्षिणाधिपतेश्छत्रविनाशो भाषितो बुधैः। एवमन्येषु राज्येषु यत्र यस्य च सम्भवः। उपग्रहसमायोगाच्छत्रभङ्गं विनिर्दिशेत्। यथा दुष्टफलः सौरि-स्तथा सौम्यफलोगुरुः। भौमज्ञौ शुक्रराहू च रविचन्द्रौबले समौ। यथा हानिकराः क्रूरास्तथा सौम्याः शुभप्रदाः। क्रूरयुक्तो भवेत् क्रूरश्चन्द्रः सौम्ययुतः शुभः। सौम्य-क्रूरा यदा छत्रे अष्टावेकत्र संस्थिताः। छत्रभङ्गो मवे-[Page2819-a+ 38] त्तस्य परचक्रागमेण च। नृपनामर्क्षगोराहुः केतुर्वा यस्यसंस्थितः। छत्रभङ्गोभवेत्तस्य विषदानेन भूपतेः। मृगयां साहसं यात्रां दुष्टाश्वगजवाहनम्। विग्रहञ्चत्यजेद्राजा छत्रस्थैः क्रूरखेचरैः। एवं ज्ञात्वा सदाराजा करोति ग्रहशान्तिकम्। यदुक्तं यामले तन्त्रेतेन शान्तिर्भविष्यति” इति

५ सिंहासनचक्रम् (

३ )--
“अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम्। येन विज्ञातमात्रेण क्रियते राज्यनिर्णयः। सप्त-विंशतिनक्षत्रेष्वेकैकन्तु नवात्मकम्। अश्विनीमधमूलाद्यंपञ्चनाडीविभेदितम्। अश्विन्याद्युत्तरे भागे मघाद्यं पूर्व-तः स्थितम्। भूलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम्। इतरेषु च राज्येषु नृपनामर्क्षतोवदेत्। शुभाशुभमिदम्मर्वं यस्य यत्र शनिः स्थितः। नाडिकापञ्चभेदेन एकैक-स्यासनं भवेत्। आधारमासन पट्टं सिंहं सिंहासनंतथा। आधारादिफल सर्वमेकैकस्य वदाम्यहम्। ग्रहवेधवशाज्ज्ञेयं मौम्यैःक्रूरैः शुभाशुभम्। नृपस्याधारना-मर्क्षे यदा पट्टाभिषेचनम्। पराधीनगतं राज्यं कुरुतेनात्र संशयः। आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः। प्रधानपुरुषादेशी प्रजाशान्तिकरो भवेत्। पट्टऋक्षे यदाराजा चोपविष्टो यदासने। पूर्वराजस्थितेस्तुल्यं चिरंपालयते महीम्। सिंहरूपी भवेद्राजा सिंहऋक्षासनेस्थितः। संग्रामस्य प्रियोनित्यमसाध्यो मन्त्रिणः सदा। सिंहासनगते ऋक्षे तेजस्वी भीषणाकृतिः। चलचित्तोमहाक्रोधी प्रजापीडाकरोनृपः। तत्कालेन्दुगतेऋक्षे क्रूरनिर्वेधनाडिके। शुभावस्थे शुभलग्ने संस्थायीनृप आसने। ईदृशे च समायोगे उपविष्टो यदासने। उच्छिद्य शत्रुसंघातमेकच्छत्रं करोति सः। क्रूरग्रहगतनाड्यामुपविष्टो यदासने। बन्धनं भूमिनाशश्च तथामृत्युः प्रजायते। आधारादिफलं तत्र क्रूरैरेव शुभैःशुभम्। आधारऋक्षगः सौरिरनावृष्टिं करोति सः। दुर्भिक्ष रौरवं घोरं प्रजामृत्युः प्रजायते। आसनस्थोयदा सौरिर्युद्धे भङ्गप्रंदोभवेत्। अथ वा व्याधिपीडा चघातदुःखञ्च जायते। पट्ट ऋक्षे यदा सौरिः पट्टराज्ञीविनश्यति। प्रियो वाथ कुमारो वा मन्त्रिवर्गक्षयोऽपिवा। सिंहे सिंहासने वाथ यदि तिष्ठति सूर्य्यजः। तदा मृत्युर्न्न सन्देहो यदि शक्रसमोनृपः। शन्यर्क-राहुमाहेया यदा चन्द्रर्क्षसंयुताः। यस्यासनगता एतेतदा तस्य क्षयङ्कराः। क्रूरयुक्तोऽतिवक्रश्च क्रूरनाडीगतो-[Page2819-b+ 38] ऽपि वा। आसने चन्द्रयोगेण कालरूपी शनैश्चरः। एवंशुभफलं दद्याद्देवमन्त्री नं संशयः। करोति विपुलं-राज्यं यस्यासनगतो गुरुः”

६ कूर्मचक्रम् (

५ )--
“कूर्मचक्रं प्रवक्ष्यामि यदुक्तं कौशलागमे। येन विज्ञातमात्रेण ज्ञायते देशनिर्णयः। यस्य शृङ्गैकदेशस्था देवास्त्रित्रिंशकोटयः। स मेरुः पृथिवीमध्येश्रू-यते दृश्यते न तु। तादृशाः पर्वताश्चाष्टौ सागरा द्वीपदिग्गजाः। सर्वे तु विधृता मूम्या सा धृता येन तं शृणु। दंष्ट्रायां सा वराहेण विधृता सधराधरा। मुस्ताखन-नतोयस्य शोभते मृत्तिका यथा। ईदृशोऽपि महाकायोवराहः शेषमस्तके। तस्य चूडामणेरूर्द्ध्वं शीभते मशकोपमः। एवंविधः स शेषोऽपि कुण्डलीभूय संस्थितः। कूर्मपृष्ठैकभागेन विसतन्तुरिवाबभौ। वपुःस्कन्धः शिरः पुच्छनखाङ्घ्रिप्रभृतीनि च। मानेन तस्य कूर्मस्य कथयामि प्रयत्नतः। शङ्कोः शतसहस्राणि योजनानि वपुः स्थितम्। तदर्द्धेनभवेत् पुच्छं पुच्छार्द्धेन तुकुक्षिकम्। ग्रीवाऽस्याऽयुतकोटीभिर्मस्तकं सप्तकोटिभिः। नेत्रयोरन्तरं तस्य कोटिरेका प्रजा-यते। मुखं कोटिद्वयं तस्य द्विगुणेन च पादयोः। अङ्गु-लीनां नखाग्रे तु योजनायुतसं ख्यया। एवं कूर्मप्रमाणन्तु कथितं चादियामले। तस्योपरिस्थिता चेयं सप्तद्वीपवती मही। कूर्माकारं लिखेच्चक्रं सर्वाबयवसंयुतम्। पूर्वभागे मुखं तस्य पुच्छं पश्चिममण्डले। पूर्वापरं लिखे-द्वेधं वेधश्चोत्तरदक्षिणे। ईशानराक्षसे वेध वेधमाग्नंयमारुते। नाभिशीर्षचतुःपादकुक्षिपुच्छेषु संस्थिते। तारात्रयाङ्किते ह्यस्मिन् सौरिं यत्नेन चिन्तयेत्। अधिके भत्रिके तत्र पादार्द्धेषु भमण्डलम्। चतुर्विंशतिसंसथाः स्युस्तांश्च हन्ति शनिः क्रमात्। अश्विन्याद्युत्तरे-भागे मघाद्र्यं पूर्व्वतः स्थितम्। मूलं च दक्षिणे भागेज्ञातव्यं नृपतित्रयम्। व्यापकग्रहराशिस्थे चन्द्रेमन्दोविशेद्यदा। यद्यद्धिष्ण्यपदार्द्धे च तत्र दोषाभवन्त्यमी। अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः। स्वचक्र परचक्रञ्च सप्तैताः ईतयः स्मृताः। कृत्तिकारोहिणी सौम्यं (

५ ) कूर्मनाभीगतं त्रयम्। साकेतामिथिला चम्पा कौशाम्बो कौशिकी तथा। अहिच्छत्रंगया विन्ध्यमन्तर्वेदी च मेकला। कान्यकुब्जं प्रयागञ्चमध्यदेशो विनश्यति। रौद्रम्पुनर्वसू पुष्यः कूर्मस्य चशिरःस्थितम्। सगौडो हस्तिबन्धश्च पञ्चराटञ्च कामरूः। वरेन्द्री च तथा ज्ञेया मगधश्च तथैव च। सूरसेनो वने-[Page2820-a+ 38] यासः पूर्वदेशोविनश्यति। अश्लेषा च मघापूर्वफाल्-गुन्याग्नेयगोचरे। अङ्गवङ्गौ कलिङ्गश्च पूर्वजाश्चैव को-शलाः। डाहलोजयहन्ता च तथैवच सुलज्जिका। उड्डी-यानं वराटञ्च अग्निदेशो विनश्यति। उत्तरा हस्तचित्राच दक्षिणं कुक्षिमाश्रिताः। दर्दुरश्च महेन्द्रश्च वनवासश्चसिंहलः। तापी भीमरथी लङ्का त्रिकूटं मलयस्तथा। श्रीपर्वतः किष्किन्घा इति नश्यति दक्षिणः। स्वातीविशाखा मैत्रं च कूर्मनैरृत्यगोचरे। नासिक्यं च सुराष्ट्रंचोत्तरमालवकं तथा। बाह्लीकं च प्रकाशञ्च भृगुकच्छ-ञ्च कोङ्कणम्। खेटापुरं च मौटेरं देशा नश्यन्ति चेदृशाः। ज्येष्ठा मूलं तथाषाढा पुच्छे कूर्मस्य संस्थिताः। पारावतंमरुकच्छमवन्ती पूर्वमालवः। पारातवर्वरद्वीपं सौराष्ट्रंसैन्धवं तथा। जनस्थानं विनश्यन्ति स्त्रीराज्यंपुच्छपीडने। उत्तरादित्रिऋक्षाणि पादे वायव्यगोचरे। गुर्ज्जरं तङ्गणञ्चैव मरुदेशं सरस्वतीम्। जालन्धरंबरादं च वालुकोदधिसंयुतम्। मेरुशृङ्गं विनश्यन्तिये चान्ये कोणसंस्थिताः। शतभिषादित्रयञ्चैव उत्तरंकुक्षिमाश्रितम्। नेपालं कीरकाश्मरीरगञ्जन खुर-सानकम्। माथुरं म्लेच्छदेशश्च खसकेदारमण्डले। हिमाश्रया विनश्यन्ति ये देशाश्चोत्तराश्रयाः। रेवतीचाश्विनी याम्यं

२ पादे त्वीशानगोचरे। गङ्गाद्वारंकुरुक्षेत्रं श्रीकण्ठं हस्तिनापुरम्। अश्ववक्त्वेकपादाश्चगजकर्णस्तथैव च। विनश्यन्ति च ते सर्वे देशास्त्वीशानगोचरे। सौरिःस्वदेशगोयत्र तत्र यत्नेन चिन्त-येत्। परदेशस्थितः कुर्याद्विग्रहंपृथिशीवतेः। यत्रस्थःपीडयेत्तत्र वेधस्थाने तथैव च। देशनामर्क्षगः सौरिर्भङ्ग-दो नात्र संशयः।

१ पृथ्वीकूर्मं समालेख्यं कृत्तिकादि यमा-न्तकम्। देशादिस्वस्वऋक्षादि वक्ष्ये कूर्मचतुष्टयम्। पूर्वव-च्चक्रमालिख्य देशनामर्क्षपूर्व्वकम्।

२ देशकूर्मो भवेत्तत्र यत्रसौरिक्षयन्तथा। नगरे

३ नागरमृक्षं कृत्वा लेख्यं तु पूर्व-वत्। सौरिस्थाने भवेद्दुष्टं वेधस्थाने तथैव च।

४ क्षेत्रजेक्षेत्रभान्यत्र कृत्वा कूर्मं यथास्थितम्। सौरिस्थाने तथावेधे जायतेऽत्र महद्भयम्।

५ गृहकूर्मं समालिख्य गृहद्वा-रमुखस्थितम्। स्वाम्यर्क्षपूर्व्वकम् कृत्वा ततोवीक्ष्यं शुभा-शुभम्। गृहमध्यस्थितः सौरिः शोकसन्तांपदायकः। द्वारेविघ्नप्रदोज्ञेयः पावके वह्निदायकः। ज्ञेयो मृत्युप्रदो या-म्ये राक्षसे राक्षसाद्भयम्। वारुणे शुभदोज्ञेयो वायव्येशून्यदायकः। अर्थलाभप्रदः सौम्ये शाङ्करे सर्वसिद्धिदः। [Page2820-b+ 38] सौरिर्बलाधिकोदुष्टः स्वल्पवीर्य्यः शुभावहः। समकालंपीडयेद्यत् भानुजः कूर्मपञ्चक्वम्। तत्र स्थाने-महायुद्धं जायते नात्र संशयः। दुष्टस्थाने गते चन्द्रेकर्त्तव्यन्तत्र शान्तिकम्। यदुक्तं यामले तन्त्रे सर्वविघ्नविनाशकम्। यन्देशञ्चैवं पश्यन्ति राहुभौमशनै-श्चराः। परचक्रभयं चाग्निदुर्भिक्षन्तत्र दारुणम्। कूर्मचक्रं महाचक्रं कथितञ्चादियामले। तिकालविषय-ज्ञानं पाणिस्थं येन जायते”। तन्त्रोक्ते मन्त्रग्रहणतत्साधनोपयोगिकुर्म्मचक्रे तुकूर्म्मचक्रशब्दे पृष्ठे उक्ते तत्र दृश्ये। ”

७ पद्मचक्रम्--
“पद्माकारं लिखेच्चक्रमष्टपत्रं सुशोभनम्। कोष्ठकं नवमं मध्ये पद्मचक्रं प्रजायते। कृत्तिकादीनिभान्यत्र त्रीणि त्रीणि यथाक्रमम्। मध्यकोष्ठादि रु-द्रान्तं सप्तविंशतिसंख्यया। नव खण्डा धरा सा चनवभागेषु संस्थिता। यत्र खण्डे स्थितः सौरिः स्वण्डंतच्च विनश्यति”

८ फणीश्वरचक्रम्--
“कृत्तिकाद्यं लिखेच्चक्रं सर्पाकारंफणीश्वरम्। सप्तनाडीसमायुक्तं सौरिवेधं विलोकयेत्। नाड्येकैकसमायोगे जम्बूद्वीपादि गण्यते। सप्त द्वीपाःक्रमेणैव पीड्यन्ते सौरिपीडया। जम्बूप्लःक्षस्तथा शाकःकुशः क्रौञ्चश्च शाल्मलिः। सप्तमः पुष्करद्वीपः पीड्यन्तेसौरिपीडया”। कोलानलचक्राणि सप्त

९ राहुकालानलचक्रम्--(

३ )
“अथातः संप्रवक्ष्यामि प्रोक्ताया व्रह्मयामले। राहुकालानली यात्रा सद्यःप्रत्ययकारणम्। ग्रहयोगवशाद्यात्रा ज्योतिःशास्त्रे प्रभा-षिता। या सा शुभेषु कार्य्येषु फलदा न तु सङ्गरे। यस्य छायाप्रभावेण छाद्येते शशिभास्करौ। तस्य राहोःप्रभावञ्च वक्ष्येऽहं रणकर्म्मणि। केचित् मूर्खा वद-न्त्येवं ग्रहोराहुरकारणम्। यतो वर्षे दिने लग्ने-ष्वाधिपत्य न दृश्यते। आधिपत्ये स्थिता ये च वर्षे मासेदिवानिशोः। ते चाधिकारिणोज्ञेया राहू राजाऽ-भिधीयते। वेदागमपुराणेषु विख्यातो राहुखेचरः। तस्यमाहात्म्यमज्ञात्वा मिथ्या जल्पति स्वल्पवित्। दुष्टारिष्टेषुसर्वेषु जातकादिषु मन्यते। सद्यः प्रत्ययदो राहुःस कथं स्यादकारणम्। भ्रमं श्च कालरूपेण संहारेणमहीतले। स्ववक्त्रदंष्ट्रया रौद्रोज्ञेयो राहुर्न्न संशयः। ग्रहा ग्रासभयाद् यस्य सृष्टिमार्गे भ्रमन्ति च। तस्य ना-मान्यहं वक्ष्ये मुखं पुच्छं क्रमेण च। राहुरगुस्तमः[Page2821-a+ 38] पातः स्वर्भानुः सिंहिकासुतः। दैत्यश्छाया शिरोबक्त्रंग्रहारिश्च विधुन्तुदः। पुच्छं केतुः शिखी सर्पो गुदं गुह्यंघटोमतम्। उत्पातो विषगर्भश्च धूम्रकालः ग्रहान्तकः। ऋक्षाधारगतोराहुः सर्परूपेण संस्थितः। तस्य चक्रंप्रवक्ष्यामि राहुकालानलाख्यकम्। शलाकासप्तकं चक्रमीशादौ कृत्तिकादिकम्। साभिजित् सर्वमालिख्य अष्टा-विंशतितारकाः। यत्र ऋक्षस्थितोराहुर्वदनं तद्विनिर्दि-शेत्। मुखात् पञ्चदशे ऋक्षे पुच्छं तस्य व्यवस्थितम्। एकोत्तरशतं ख्याताः जायन्ते तत्र केतवः। व्याप्नुवन्तोजगत्सर्वं सहस्रार्कसमत्विषः। राहुभुक्तानि ऋक्षाणिजीवपक्षे त्रयोदश। त्रयोदशाऽपि भोग्यानि मृतपक्षःप्रकीर्त्तितः। मृतपक्षे मुखन्तस्य गुदं जीवाङ्गमध्यगम्। एवमङ्गद्वयं राहोर्ज्ञातव्यं स्वरवेदिभिः। जीवपक्षे क्षपा-नाथे मृतपक्षे रवौ स्थिते। तस्मिन् काले शुभा यात्राविपरीता तु हानिदा। चन्द्रादित्यौ यदा युक्तौ जीवपक्ष-व्यवस्थितौ। तत्र क्षेमं जयो लाभो यात्राकाले नसंशयः। मृतपक्षे यदा काले सस्थितौ चन्द्रभास्करौ। तदा हानिर्भयं भङ्गोमृत्युर्यात्राफलं मतम्। जीवप-क्षस्थिते चन्द्रे कार्य्यं स्यादऽमृतोपमम्। मृतपक्षे मृतंज्ञेयं यतश्चन्द्रबलात् बलम्” तत्राङ्गभेदेन फलभेद उक्तस्तत्रराहुषडङ्गविभागचक्रम्--
“अतः षडङ्गभेदेन राहु-चक्रं वदाम्यहम्। मुखं हृदुदरं गुह्यं पुच्छं मस्तक-मेव च। मुखैकं हृदये सप्त षडृक्षाणि तथोदरे। ऋक्षैकंगुह्यगं तस्य षट् पुच्छे
“मुखाद्यङ्गनामभेदः सप्तमस्तके मुखाद्यङ्गस्य नामानि फलंचास्य वदाम्यहम्। यथोत्तरं क्रमेणैवं चन्द्रार्कभ्रमणेनच। यत्र ऋक्षे स्थितो राहुस्तस्याभिधानमीरितम्। गिलितं कर्त्तरी जिह्वा चन्द्राङ्गं वदनं तथा। राहु-धिष्ण्याग्रतः सप्त भुक्तधिष्ण्यानि यानि च। तानि सम्पुट-संज्ञानि कामाङ्गं हृदयन्तथा। हृदयाग्रे स्थिता-याश्च तारका रससंख्यया। कामाङ्गं जठरं जीवं सम्पु-टोदरसंज्ञकम्। तत्पुरोयत्तु नक्षत्रमेकं पञ्चदशं मु-खात्। गुदमुद्गिलितं गुह्यं केतुश्चन्द्राङ्गकर्त्तरी। गुदधिष्ण्याग्रतोयानि धिष्ण्यनि रससं ख्यया। पुच्छंसूर्य्याङ्गवज्राङ्गपुष्टिमृत्युस्तथैव च। शेषाणि सप्त भा-न्यत्र मध्यस् थान्यस्य पुच्छयोः। कपालं मस्तकं शीर्षंरुद्राङ्गंभोगिमण्डलम्। स्थिररूपी स्थितोभानुश्चररूपश्चचन्द्रमाः। क्रमेणैकैकशोऽङ्गानां योगषट्कं वदाम्यहम्। [Page2821-b+ 38] मुखादियोगषट् कम्--
“राहुवक्त्रे स्थिते सूर्य्ये चन्द्रे हृदय-संस्थिते। यायिनो विजयस्तत्र स्थायिनो भङ्ग आहवे। मुखाग्रसंस्थिते सूर्य्ये चन्द्रे चोदरगे तथा। अत्र यायीजयेद्युद्धे हेलया नात्र संशयः। भास्करे गिलिताङ्गस्थेचन्द्रे वज्राङ्गसंस्थिते। स्थायी भङ्गमवाप्नोति यायीजयति सक्षतः। राहुऋक्षस्थितो भानुश्चन्द्रे पुच्छाड। संस्थिते। स्थायिनोविजयोयुद्धे यायिनो मृत्युमादिशेत्। राहुजिह्वां गते सूर्य्ये चन्द्रे रुद्राङ्गसंस्थिते। बलावर्तोभवेत्तत्र सैन्ययोरुभयोरपि। राहुऋक्षस्थितोभानुश्चन्द्र-स्तत्रैव संस्थितः। न कश्चिज्जयमाप्नोति सैन्ययो-रुभयोःक्षयः”। हृदयादियोगषट्कम्।
“हृदयस्थे दिवानाथे जठरस्थेनिशाकरे। निर्द्दिष्टः स्थायिनोमृत्युर्य्यायो जयतिनिर्व्रणः। हृदयस्थो यदा भानुः शशाङ्कोगुदमाश्रितः। हेलया जयते यायी स्थायी च म्रियते रणे। कामाङ्गकेदिवानाथे पुच्छषट्के निशाकरे। स्थायिनो विजयस्तत्रयायिनश्च पराजयः। सम्पुटस्थो यदादित्यो रुद्राङ्गेचन्द्रमा स्थितः। यायी च भङ्गमायाति किञ्चित्स्थायीजयी रणे। कामाङ्गं याति चेत् भानुश्चन्द्रे राहुमुख-स्थिते। संग्रामे विजयी यायी, स्थायिनो भङ्गमादिशेत्। हृदयाङ्गे यदा युक्तौ चन्द्रादित्यौ व्यवस्थितौ। देवानपिजयेत् यायी किंपुनर्मानवं बलम्”। उदरादियोगषट्कम्--
“उदरस्थे दिवानाथे निशानाथे गुद-स्थिते। समयुद्धं भवेत्तत्र किञ्चित् यायी जयी रणे। स-म्पुटस्थो यदा भानुः पुच्छे भवति चन्द्रमाः। यायिभङ्गो,जयः स्थातुस्तत्र काले न संशयः। कामाङ्गगः सहस्रां-शुर्म्मस्तकस्थो निशाकरः। यात्रिकोभङ्गमायाति स्थाने वासीजयी रणे। भानुरुदरगोयत्र निशेशोराहुवक्त्रगः। विवादीहीयते तत्र स्थायी जयति नान्यथा। स्वर्भानोरुदरेभानुर्हृदये तारकाधिपः। अनायासेन संग्रामे यायिनोजयमादिशेत्। उदराङ्गे यदा युक्तौ चन्द्रादित्यौव्यवस्थितौ। तदा सन्धिर्न्न सन्देहः सैन्ययोरुभयोरपि”। गुदादियोगषट्कम्--
“केतुधिष्ण्ये स्थिते सूर्य्ये चन्द्रे वज्राङ्गसंस्थिते। यायिभङ्गो, जयी स्थायी भाषितं व्रह्मयामले। गुदे तीक्ष्णांशुसंयुक्ते कपालस्थे निशाकरे। यायी चभज्यते तत्र स्थायी जयति नान्यथा। गुदऋक्षस्थितःसूर्य्योराहुऋक्षस्थितः शशी। महाहवं भवेद् वोरंकिञ्चित् स्थायी जयी रणे। भानुरुद्गिलिते ऋक्षे शशभृत्[Page2822-a+ 38] संपुटे यदि। यायिनो विजयस्तत्र स्थायिनो भङ्गमादि-शेत्। गुदभे वर्त्तते भानुर्ज्जठरे रोहिणीपतिः। दण्ड-यित्वा रिपोः सैन्यं याताभ्येति निजालयम्। गुदेदिनकरो यत्र तत्रैव यामिनीकरः। समयुद्धं भवेत्तत्रकिञ्चिदागन्तुको जयी”। वज्राङ्गयोगषट्कम्--
“सूर्य्याङ्गस्थः सहस्रांशुर्ज्जिह्वायांशीतगुः स्थितः। यायिनोविजयं विद्यात् स्थायिनश्चपराजयम्। पुच्छक्षेत्रस्थितो भानुः रुद्रक्षेत्रे तु चन्द्रमाः। यायिनो मृत्युरायाति जयलाभौ च स्थायिनः। पुच्छ-षट्के यदादित्यः कामाङ्गे चन्द्रमाः स्थितः। यायी वि-जीयते तत्र शक्रतुल्योऽपि वैरिभिः। अंशुमाली स्थितोवज्रेजठरस्थं सुधाकरे। आदत्तेऽरिश्रियं सर्वां जित्वा यायीरणाङ्गणे। भास्करे राहुपुच्छस्थे मृगाङ्के गुदमाश्रिते। समयुद्धं भवेत् तत्र किञ्चित् यायी जयी रणे। सूर्य्याचन्द्रमसौ यत्र वज्राङ्गे यदि संस्थितौ। सैन्य-योरुभयोस्तत्र बधो भबति निश्चितम्”। कपालादियोगषट्कम्--
“रुद्राङ्गस्थे दिवानाथे राहुजिह्वा-ङ्गगः शशी। स्थायिनस्तु जयस्तत्र भङ्गो भवति यायिनः। राहुशीर्षस्थिते मित्रे शशाङ्के हृदि संस्थिते। विना युद्धेन गृह्णीयाद्यायी सर्वामरिश्रियम्। कपालसंस्थितः सूर्य्यः सम्पुटस्थो यदा शशी। यायिना जीयतेतत्र स्थायिनो भङ्गमादिशेत्। मस्तकस्थे दिवानाथेधिष्ण्यनाथे गुदश्रिते। यायिनो विजयो युद्धे स्थायिनस्तुपराजयः। राहुशीर्षगतोभानुः पुच्छर्क्षे तु निशाकरे। अन्योऽन्यं विग्रहं घोरं युद्धं भवति दारुणम्। दिनेशो राहुरुद्राङ्गे चन्द्रस्तत्रैव सङ्गतः। विनाशंकोषराज्यस्य यायिनो मृत्युमादिशेत्। ” राहुदशाङ्गविभागचक्रम्--
“हृदयादीनि चाङ्गानि जिह्वान्तानिक्रमेण च। दशसंख्यान्यहं वक्ष्ये राहुचक्रस्य मध्यतः। पुष्पितं फलितं चैव निःफलं झटितं गुदम्। राजस-न्तामसं वृद्धं मृतं जिह्वा क्रमेण च। पुष्पिते त्रीणिधिष्ण्यानि क्षेमलाभकराणि च। शत्रुभङ्गो भवेद्युद्धेयात्रा मासेन लाभदा। ततश्चत्वारि धिष्ण्यानि पक्षै-केण्ण फलन्ति च। गजवाजिधनं देशं यायी तु लभतेध्रुवम्। अफलेषु त्रिविष्ण्येषु षण्मासैर्य्यायिनं प्रति। सन्धिं सेवां तथा देशं स्थायी यच्छति निश्चितम्। फलं प्राप्नोति वर्षेण झटितैश्च त्रितारकैः। हस्त्यश्वपुत्रमित्रादि देशकोषपरिग्रहैः। गुदैकेन भृशं[Page2822-b+ 38] लक्ष्मीः पद्मिनी प्रियवादिनी। रूपयौवनसम्पन्नामासयुग्मेन लभ्यते। विग्रहस्य भवेद्वृद्धिर्युद्धे भङ्गस्तथैवच। रोगपीडा भवेद्वर्षे राजसाख्यैस्त्रितारकैः। हस्त्यश्वपुत्रमित्रादि देशकोषपरिग्रहाः। षड्भिर्मासै-र्विनश्यन्ति यायिनस्तामसत्रये। तामसाग्रे चतुष्के तुतारकावृद्धसंज्ञकाः। सर्व्वनाशकराः प्रोक्ता मासैकेन नसंशयः। ततस्त्रीणि मृत्युभानि राजमृत्युप्रदानि च। आर्शोवातश्च गुल्मश्च पक्षैकेण फलन्ति च। युद्धे भङ्गो-महाभीतिर्द्रव्यनाशः कुलक्षयः। सद्यो मृत्युं लभेद्-यायी राहुवक्त्रे सुनिश्चितम्। ” इति दशाङ्गफलम्।
“युद्धकाले यदा शीध्रं यात्रायोगो न लभ्यते। उत्पाद्येतेतदा शीघ्रं तत्कालेन्दुदिवाकरौ। इष्टनाड्योहताधिष्ण्यैःषष्टिभागाप्तशेषके। अश्विन्यादीन्दुभुक्तेन युतस्तत्काल-चन्द्रमाः। यथा चन्द्रस्तथा सूर्य्यः कर्त्तव्यश्चेष्टकालिकः। अहोरात्रस्य मध्ये तौ विभ्रान्तौ धिष्ण्यमण्डले। स्थिर-चक्रे पुरा प्रोक्तं चन्द्रादित्यफलं मया। चरचक्रेऽप्यनेनैवप्रकारेण फलम्भवेत्। सर्व्वेषु शुभकार्य्येषु यात्राकालेविशेषतः। सर्वकाले शुभश्चन्द्रोज्ञेयो हृदि गुदोदरे। पुच्छषट्के कपालस्थे शशाङ्के राहुवक्त्रगे। बन्धनं हानिर्मृत्युश्च सर्वकार्य्येषु जायते। हृदि गुदोदरे चन्द्रे विवाहेनन्दति द्वयम्। नैःस्वं वैधव्यविद्वेषौ मुखे पुच्छे तुमस्तके। पुष्पिते फलिते गुह्ये प्रश्नकाले शशो शुभः। अफले झटिते मध्ये मृत्युः शेषाङ्गगे विधौ। ऊर्द्धे तुखेचरं चक्रमधोभूचरमुच्यते। उभयोः सन्निपातेनराहुकालानलं मतम्”।

१० सूर्य्यकालानलचक्रम्--
“ऊर्द्धगास्त्रिस्रः शूलाग्रास्तिस्रस्तिर्यक् च संस्थिताः। द्वे द्वे नाड्यौ स्थिते कोणशृङ्गयुग्मं तथैकया। मध्ये त्रिशूलदण्डाधो भानुभाद्यभमण्डलम्। साभिजिच्च प्रदातव्यं सव्यमार्गेण सर्वदा। ऋक्षाष्टके जयोलाभः ऋक्षषट्के तथा पुनः। शृङ्गयुग्मेरुजाभङ्गो मृत्युः शूलत्रये स्फुटम्। नामऋक्षं स्थितंयत्र ज्ञेयं तत्र शुभाशुभम्। अधोगतैश्च नक्षत्रैरुद्वेगो-बधबन्धनम्। विवाहे विग्रह युद्धे रोगार्त्तौ गमने तथा। सूर्य्यकालानलं चक्रं ज्ञातव्यं च प्रयत्नतः। ” (रोगे चकुजनक्षत्र दिन ऋक्षन्तु युद्धके। प्रयाणे कृत्तिका लेख्याअन्यत्रार्कस्य दीयते)। क्वचित् अधिकपाठः

११ चन्द्रकालानलचक्रम्--
“चन्द्रकालानलं चक्रं व्योमाकारंलिखेद्बुधः। चतुर्द्दिक्षु त्रिशूलानि मध्ये भिन्नानि कार-[Page2823-a+ 38] येत्। पूर्वत्रिशूलमध्यस्थं दिनऋक्षादि लेखयेत्। सव्य-मार्गेणदातव्या अष्टाविंशतितारकाः। त्रिशूले च बहिर्मध्येम ये बहिस्त्रिशूलके। त्रिशूले चक्रबाह्ये च चक्रमध्येतथैव च। नामऋक्षं स्थितं यत्र तत्र ज्ञेयं शुभाशुभम्। त्रिशूले च भवेन्मृत्युर्भव्यञ्च बहिरष्टकम्। लाभःक्षेमं जयः प्रज्ञा चन्द्रगर्भ न संशयः। वर्ज्जनीयंप्रयत्नेन प्रथमाष्टत्रिपञ्चकम्। ऋक्षं द्वातिंशकं चात्रकालरूपं न संशयः। लाभालाभौ सुखं दुःखं जयश्चैव पराजयः। चन्द्रकालानलं चक्रं ज्ञात्वा संशय-वर्ज्जितम्”।

१२ घोरकालानलचक्रम्--
“शलाकासप्तकं चक्रं लिखित्वाचन्द्रभादितः। त्रिषु त्रिषु च ऋक्षेषु नव सूर्यादयो-ग्रहाः। यदङ्गे नामनक्षत्रं युद्धकारस्य जायते। फल-न्तस्य प्रवक्ष्यामि एकैकस्य यथाक्रमम्। भानुना शोकस-न्तापः शशाङ्कः क्षेमलाभदः। भूसुतो मृत्युमाधत्ते बुधे-बुद्धिः प्रजायते। जीवे लाभः, शुभं शुक्रे, सूर्य्यपुत्रेमहद्भयम्। राहुणा घातपातश्च केतौ मृत्युर्न्न संशयः। यात्राजन्मविवाहेषु संग्रामे विग्रहेऽपि वा। घोरकालानलं चक्रं ज्ञात्वा कर्म समारभेत्”।

१३ गूढकालानलचक्रम्--
“सप्तरेखोद्भवं चक्रं चन्द्रभाद्यंभमण्डलम्। लिखित्वा कल्पयेच्चक्रं षडङ्गं जयका-ङ्क्षिभिः। दिनर्क्षाद्गण्यते चक्रे गूढसम्पुटकर्त्तरी। दण्डः कपालं वज्राङ्गं ज्ञातव्यं स्वरवेदिभिः। यत्र ऋक्षेस्थितश्चन्द्रस्तत्रादौ त्रीणि गूढकम्। सम्पुटे नव भान्य-त्र कर्त्तरी च ततस्त्रिभिः। दण्डे धिष्ण्यानि च त्रीणिकपाले धिष्ण्यसप्तकम्। वज्राङ्गे त्रीणि धिष्ण्यानि षडङ्गस्येति निर्णयः। यदङ्गे नामनक्षत्रं युद्धकारस्य जायते। वक्ष्य शुभाशुभं तस्य गूढकालानले स्थितम्। गूढस्थेविभ्रमो, युद्धे जयो भवति सम्पुटे। कर्त्तर्य्यां सक्षतंयुद्धं, दण्डे भङ्गो न संशयः। कपालस्थ भवेन्मृत्युर्वज्रेंतस्य महद्भयम्। गूढकालानलं चक्रं भाषितं व्रह्म-जामले”।

१४ शशिसूर्य्यकालानलचक्रम्--
“द्वादशारं लिखेच्चक्रं मेषादिद्वादशान्वितम्। क्षेत्रयुग्मञ्च तत्रैव विख्यातं रविचन्द्रयोः। सिहाद्यं मकरान्तञ्च भानुक्षेत्रमुदाहृतम्। कुम्भादिकर्कपर्य्यन्तं चन्द्रक्षेत्रं न संशयः। चन्द्रक्षेत्रगते सूर्य्ये चन्द्र-स्तत्रैव संस्थितः। यायिनो विजयोयुद्धे स्थायिनो भङ्गनादिशेत्। सूर्य्यक्षेत्रे गते चन्द्रे सूर्य्यस्तत्रैव संस्थितः। [Page2823-b+ 38] यायी भङ्गमवांप्नोति स्थायिनो विजयो भवेत्। सूर्य्ये सूर्य्याङ्गसंयुक्ते चन्द्रे चन्द्राङ्गसंगते। तदाकाले भवेद्सन्धिर्युद्धं तस्य विपर्यये। सूर्य्यक्षेत्र गतेचन्द्रे चन्द्रक्षेत्रगते रवौ। महायुद्धं प्रवर्त्तेत संहारःसैन्ययोर्द्वयोः। यात्रायां युद्धकाले च चक्रमेतद्वि-लोकयेत्”। अत्र विशेषः।
“एकेन क्रूरवेधेन विद्धोभवति चन्द्रमाः। स्वल्पं युद्धं तदा काले जायते नात्रसंशयः। द्वाभ्यां वापि त्रिभिर्व्वापि पापैर्विद्धो यदाशशी। तदा युद्धं महाघोरं सैन्ययोरुभयोरपि। वक्रैः पृष्ठे भवेद्युद्धमग्रे चैवातिचारिभिः। मध्यगत्याभवेन्मध्ये पापैः सौम्यैस्तु तत् नं हि। ऊर्द्ध्व-दृष्टौ भवेदूर्द्धं मध्यदृष्टौ तु मध्यमे। अधोदृष्टा-वधस्ताच्च केकरे पार्श्वतो भवेत्। शनिराहुकुजादित्या-स्त्वेकरेखागता यदि। चन्द्रेण संयुतास्ते च तदा पातचतुष्टयम्। शनिना चन्द्रयुक्तेन जीववेधगतेनच। तदा वृष्टिर्भवेन्नूनं वर्षोपलमथोच्छ्रितम्। भौमे-नाग्नेर्भवेत् पातो राहुणा लौहपातकृत्। भानुना चण्डवातश्च सर्व्वैः सर्व्वे भवन्ति च। शुक्रेणजलपातोऽपि पांशुपातः शशाङ्कजे। गुरुणा चञ्चला-पातः दिग्दाहः केतुना भबेत्”।

१५ संघट्टचक्रम्--
“अश्विन्यादि लिखेत् चक्रं सप्तविंशतितारकम्। त्रिकोणं नवभिर्वेधः कर्त्तव्यस्तिर्य्यगाकृति। अश्विनीरेवतीवेधी वेधश्चाश्विनिज्येष्ठयोः। मघापौष्णैमथाश्लेषे अश्लेषामूलयोस्तथा। एवं संघट्टचक्रं चकार्य्यमृक्षगता ग्रहाः। भूपनामर्क्षसंघट्टे युद्धं भवतिनान्यथा। निर्वेधे सौम्यबेधे च युद्धं नास्ति न संशयः। क्रूरवेधे भवेद्युद्धं तत्काले घोरदर्शनम्। युद्धकाङ्क्षीभवेद्राजा यस्य भंक्रूरवेधितम्। युद्धद्वेषी भवेत् सौम्येतथा वेधविवर्जिते। सौम्यक्रूरविभागेन मित्रामित्रक्रमेण च। वक्रातिचारगत्या च युद्धं स्वल्पञ्च जास्ति च।

१६ कुलाकुलचक्रम्(

३ )--
“द्वितीया दशमी षष्ठी कुलाकुल-मुदाहृतम्। बिषमा अकुलाः सर्वाः शेषाश्च तिथयःकुलाः

१ रविचन्द्रौ गुरुः सौरिश्चत्वारोऽप्यकुलामताः। भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः

२ । वारु-णार्द्राभिजिन्मूलं कुलाकुलमुदीरितम्। कुलानिसमधिष्ण्यानि शेषभान्यकुलानि च

३ । तिथौ वारे चनक्षत्रे अकुले यायिनो जयः। कुलाख्ये स्थायिनोनूनंसन्धिश्चैव कुलाकुले”। [Page2824-a+ 38]

१७ कम्भचक्रम्(

२ )--
“कुम्भाकारं लिखेच्चक्रं तिर्य्यग्रेखाप्रभे-दितम्। तस्य चोर्द्ध्वमधोलेख्यमेकैकान्तरभं क्रमात्। भानुभाद्यं न्यसेत्तत्र रिक्तां पूर्णामिति क्रमात्

१ । एवंराशिक्रमाल्लेख्यारिक्ता पूर्ण्णा इति क्रमात्

२ । रिक्तेरिक्ता भवद्यात्रा पूर्ण्णे यात्रा शुभावहा। इति यात्राफलं ज्ञेयं कुम्भचक्रद्वये स्थितम्”।

१८ प्रस्तारचक्र--
“त्रयोदशोर्द्धगारेखा दश रेखाश्च तिर्य्य-गाः। भवेयुः कोष्ठकास्तत्र सङ्ख्ययाष्टोत्तरं शतम्। मेषाद्या राशवोलेख्यास्तिर्य्यक् प्रथमपङ्क्तिषु। नवां-शराशयश्चाधो नवधा सर्व्वराशिषु। कवर्गान्नवधालेख्यं कोष्ठके प्रथमाष्टके। द्वितीये सप्तमे चाद्या एवंटाद्यास्त्रिषष्ठले। यशवर्गौ चतुर्थे च अवर्गः पञ्चमेतथा। नवद्वादशके ताद्याः शेषे पाद्याः द्विकोष्ठके। चतु-रक्षरसंयोगात् अश्विन्यादिक्रमेण च। ज्ञेया नवां-शका वर्ण्णा मेषादिराशिमण्डले। भौमं शुक्रं बुधंचन्द्रं भानुं सौम्यं सितं कुजम्। गुरुं सौरिं शनिंजीवं विदध्यात् कोष्ठकोपरि। कोष्ठाक्षरगतो ज्ञेयश्चन्द्रस्तत्कालसम्भवः। तदधीनं फलं सर्व्वं लाभा-लाभजयादिकम्। दिनऋक्षगतानाड्यः सप्तविंशतिताडिताः। षष्टिभक्ते भवेदृक्षं तत्कालेन्दुंगतं स्फु-टम्। इष्टनाड्योहताधिष्ण्यैः षष्टिभागाप्तशेषके। अश्विन्यादीन्दुभुक्तेन युक्तस्तत्कालचन्द्रमाः। क्रूरक्षेत्राक्षरे चन्द्रे न शुभं सर्व्वकर्म्मसु। शुमक्षेत्रे शुभंचैव प्रस्तारे चन्द्रनिर्ण्णयः। नाडीफलौ यशौ वर्गाववर्गोद्युफलोदयः। कुःपक्षेण च मासेन ऋतौ चतोऽयनोदयः। जन्मकाले विवाहे च याने जन्मनिसङ्गरे। शशाङ्कस्य फलं श्रेष्ठं स्वरशास्त्रेषु निश्चितम्। अंशकेनांशकं गुण्यं ध्रुवयुक्तं कृतं पुनः। चतुःस्था-मुनयः (

७ ,

७ ,

७ ,

७ ), सूर्य्याः

१२ सप्त

७ रन्ध्र

९ गुणे-षवः

५३ । मासाः

१२ शैलाः

७ इना

१२ स्तत्वा

२४ राशीनांच ध्रुवाइमे। गुणाः

३ शैलाः

७ युगाः

४ पञ्च सप्तपञ्चाद्रयो

७ युगाः

४ । नागा

८ वाणा

५ रसा

६ भूता

५ मेषादेरंशका इमे। नग्नस्य योऽंशकोदेवि! तस्य स्वामीच यो ग्रहः। तद्वशात् कालविज्ञानमुदितांशकसं-ख्यया। सूर्य्येऽयनं क्षणश्चन्द्रे दिनान्यारे तथा बुधे। ऋतवंश्च, गुरौ मासाः, शुक्रे पक्षः प्रकीर्त्तितः। सूर्य-पुत्रे समा देवि! सर्व्वदैवंविधिः स्मृतः”।

१९ तुम्बरचक्रे दृष्टिचक्रम्--
“प्रस्तारे द्वादशारे च ऋक्षाक्षर-[Page2824-b+ 38] क्रमेण च। नवांशराशिमार्गेण चक्रं भवति तुम्बरम्। यत्र मेषादिराशिस्थस्तत्कालेन्दुः प्रजायते। ग्रहदृष्टिव-शात् सर्व्वं ज्ञेयं तत्र शुभाशुभम्। त्रिदशे पञ्चमे धर्मेचतुर्थाष्टमसप्तमे। पादवृद्ध्या निरीक्षन्ते प्रयच्छन्तितथा फलम्। ऊर्द्धदृष्टी च भौमार्क्कौ केकरौ बुधभार्ग-बौ। समदृष्टी च जीवेन्दू शनिराहू त्वधोमुखौ। मेषोवृषो मृगः कन्या कर्कमीनतुलास्तथा। आदित्यादिग्रहेषू-च्चा नीचं तु तस्य सप्तमम्। परमोच्चा दिशो

१० रामा

३ अष्टाविंशतिथोन्द्रियाः

१५ ।

५ । सप्तविंशास्तथा विंशःसूर्य्यादीनां तथांशकाः। परमोच्चात् परं नीचमर्द्धचक्वां-शसंख्यया। नीचस्थानात् क्रमेणोच्च उक्तोऽसावत्र खेचरः। उच्चान्नीचाच्च यत्तुर्य्यं समस्थानं तदुच्यते। उच्चनीचसमस्थाने चन्द्रं ज्ञात्वा फलं वदेत्। उच्चस्थानस्थितंचन्द्रं भोमादित्यौ प्रपश्यतः। समस्थाने च गुर्विन्दूनीचस्थं राहुसूर्य्यजौ। बुधशुक्रौ त्रिकोणे च चन्द्रंतत्कालसम्भवम्। अन्यत्रस्थं न पश्यन्ति जात्यन्धा इव खेचराः। सौम्यदृष्टिस्थिते चन्द्रे सर्वं सौख्यंप्रजायते। क्रूरदृष्टिगतं पुंसां मृत्युर्हानिर्महद्भयम्। एवं शुभयुते चन्द्रे सर्वं सौम्यं प्रजायते। क्रूरैःक्रूरफलं तत्र मिश्रैर्मिश्रं न संशयः। रक्तं पीतं सितंकृष्णं चन्द्रे वर्णचतुष्टयम्। ज्ञातव्यञ्च प्रयत्नेन प्रश्नकालेसदा बुधैः। रविर्भौमः सितः सौम्योगुरुः सौरिः शशी तमः। वर्गेशाश्च अवर्गादौ ग्रहाज्ञेया विच-क्षणैः। स्यातां रविकुजौ रक्तौ पीतौ जीवबुधौ ग्रहौ। शशिशुक्रौ सितौ वर्णौ कृष्णत्वं राहुमन्दयोः। यद्वर्णवर्गगश्चन्द्रस्तस्य स्वामी च यो ग्रहः। तस्य वर्णेनवर्णत्वं शशाङ्कस्य प्रजायते। रक्ते चन्द्रे भवेद्युद्धंकृष्णे मृत्युर्न्न संशयः। पीते शुभं विजानीयात्सितेशुभतरं फलम्”।

२० तुम्बुरचक्रम्--
“द्वादशारं लिखेच्चक्रं नाडिकैका त्रिधापुनः। पञ्चमे पञ्चमे स्थाने तिर्य्यग्वेधं तथा कुरु। अष्टोत्तरशतं चैव नाडीसंख्या प्रजायते। अक्षराण्यस्यचक्रस्य नाडिकाग्रेषु विन्यसेत्। क्रूरवेधाक्षरे चन्द्रो यदातत्कालसम्भवः। तदा तस्य फलं वक्ष्ये विवाहादौशुभाशुभम्। विवाहे क्रूरवेधेन वैधव्यं च विशीलता। यात्रायाञ्च भवेद्धानिर्मृत्युर्भङ्गोमहाहवे। क्रूराःसर्वे हानिकराग्रहाः सौम्याः शुभप्रदाः। द्व्यादिवेधोभवेद्यस्य तस्य मृत्युर्न्न संशयः। तत्कालेन्दुफलं सर्व{??}[Page2825-a+ 38] यद्क्तं चादिजामले। गोपितंत्वन्यशास्त्रेषु मया चात्रप्रकाशितम्”। अङ्गशब्दे

७३ पृ॰ चक्रनामोद्देशे चर-मित्यशुद्धम्। तुम्बरमिति शुद्धम् एवमन्यस्याप्यशुद्ध-स्यात्र दर्शितचक्रनामानुसारेण तत्र शुद्धता बोध्या

२१ भूचरखेचरचक्रम्--
“अधःस्थं भूचरं चक्रमूर्द्ध्वस्थंखेचरं तथा। चरस्थिरविभागेन स्थायी यायी फलंक्रमात्। मेषादिद्वादशारे च वाममार्गेण भूचरम्। तस्योर्द्धं खेचरं चक्रं दक्षमार्गेण सर्वदा। ये ग्रहाराहुमार्गस्था भूचक्रे ते व्यवस्थिताः। सूर्य्यमार्गेण ये लग्नाःखेचराः खेचरस्थिताः। भूचक्रे संस्थितैः पापैः खेचक्रेसौम्यखेचरैः। स्थायियायिबलं ज्ञेयं क्रमात् स्वरविचक्षणैः। सौम्यश्च भूचरे चक्रे क्रूराः खेचरगा यदि। संहारोजायते तत्र सैन्ययोरुभयोरपि। भूचरस्थाग्रहायत्र दृश्यन्ते च शुभाशुभाः। यायी संहारमायाति-स्थायी सार्द्धक्षये जयी। खेचरे खेचराः सर्वे सौम्याःपापगतायदा। स्थायिनो बलसंवर्त्तो यायी जयतिसक्षतः। भूचरे खेचरे सर्वे यदा मिश्रा शुभाशुभाः। तदा मिश्रं फलं वाच्यं स्थायिनो यायिनोऽपि वा”।

२१ पथचक्रम्--
“अश्विन्यादीनि धिष्ण्यानि पङ्क्तियुक्त्यालिखेद्बुधः। नाडीनाञ्च त्रये वेधः सर्पाकारः पथाख्यके। क्रूरवेधस्थिता नाडी तद्धिष्ण्येन युते दिने। यात्रायुद्धं न कर्त्तव्यं पथचक्रे त्विदम फलम्” !

२२ नाडीचक्रम्(

३ )--आर्द्रादिकं लिखेच्चक्रं मृगान्तञ्चत्रिनाडिकम्। भुजङ्गसदृशाकारं मध्ये मूलं प्रतिष्ठि-तम्। यद्दिने चैकनाडीस्थाश्चन्द्रनामर्क्षभास्कराः। तद्दिनं वर्जयेत्तस्य विवाहे विग्रहे रणे। ”

१ एकनाडीगतेभौमे रविजीवसमन्विते। यदा चन्द्रेण संयुक्ते तदा-क्षौणी परिप्लुता। ऊर्द्ध्वनाडीगतो वायु र्मध्यनाड्यांसमोभवेत्। अधोनाड्यां भवेत्वृष्टि रेतद्वृष्टेस्तुलक्षणम्

२ विवाहाङ्गत्रिनाडीचक्रम्--
“अश्विन्यादि लिखेच्चक्रंसर्पाकारं त्रिनाडीकम्। तत्र वेधवशात् ज्ञेयं विवा-हादि शुभाशुमम्। आद्यनाडीगनक्षत्राण्यश्विरौद्र पुनो-त्तराः

७ ।

१२ । हस्तेन्द्रमूलबारुण्यः पूर्वभाद्रपदस्तथा

१ याम्यःसौम्यो

५ गुरु

८ र्य्योनि

११ श्चित्रा मित्र

१७ जलाह्वयम्

२० । धनिष्ठा चोत्तरा भाद्रा मध्यनाडीव्यवस्थिताः। कृत्तिकारोहिणी सार्प

९ मथास्वातीविशाखकम्। उत्तरा श्रवणंपौष्णं

२७ पृष्ठनाडीव्यवस्थिताः। वेधनाड्यृक्षमश्विन्यादि-षष्ठं च द्वितीयकम्। याम्यादि तुर्य्यतुर्य्यं च कृत्तिकादि[Page2825-b+ 38] द्विकं द्विकम्। एवं निरीक्ष्य बोद्धव्यं कन्यामन्त्रे गुरौस्वरे। पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे। एकनाडीस्थऋक्षाणि यदा स्युर्वरकन्ययोः। तदाबेधं विजानीयाद्गुर्वादिषु तथैव च। प्रकटं यस्यजन्मर्क्षं तस्य जन्मर्क्षतोवदेत्। प्रनष्टं जन्मभं यस्यतस्य नामार्क्षतो वदेत्। द्वयोर्ज्जन्मभयोर्वेधो द्वयोर्न्नामर्क्षयोस्तथा। जन्मनामर्क्षयोर्वेधो न कर्त्तव्यः कदाचन। एकनाडीस्थिता दुष्टा भर्त्तुश्चैव कुलाङ्गना। तस्मा-न्नाडीव्यधोवीक्ष्यो विवाहे शुभमिच्छता। आद्यनाडीव्यधे भर्त्ता मध्यनाडीव्यधे द्वयम्। पृष्ठनाडीब्यधे कन्याम्रियते नात्र संशयः। समासन्ने व्यधे शीघ्रं दूरवेधे चि-रेण तु। व्यधान्तरभमानेन वर्षे रिष्टं प्रजायते। एकर्क्षंजायते यत्र विवाहे वरकन्ययोः। मूलवेधो भवेत्तत्रमहादुष्टफलप्रदः। एकनाडीस्थिता यत्र गुरुर्मन्त्रश्चदेवताः। तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत्। प्रभुःपण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम्। एकनाडीगता भव्या न भव्या वेधवर्ज्जिताः। क्रूरग्रहगता नाड्यो यस्य जन्मर्क्षसम्भवाः। तस्य मृत्युर्न्नसन्देहो यात्रायुद्धे भयं भवेत्। द्व्यादिक्रूरव्यधो यस्यचक्रे चैव त्रिनाडिके। हानिर्विघ्नं भयं क्लेशोजायतेबधबन्धनम्। एवं सौम्यव्यधो यस्य जन्मधिष्ण्ये प्रजायते। जयो लाभः सुखं तस्य जायते नात्र संशयः। शुभपाप-ग्रहैर्विद्धा यस्य जन्मर्क्षनाडिका। तस्य मिश्रं फलंवाच्यं नाडीचक्रे स्वरज्ञकैः”

२ ।
“एतच्चक्रं समालिख्य अश्विन्याद्यं हि पङ्क्तितः। वेधो द्वादशनाडीभिः कर्त्तव्यः पन्नगाकृतिः। आद्यं-शेन चतुर्थांशं चतुर्थांशेन चादिमम्। द्वितीयेन तृती-यञ्च तृतीयेन द्वितीयकम्। एवं चांशव्यधोयेषां जायतेवरकन्ययोः। तेषां मृत्य्रन्नसन्देहः शेषांशाः स्वल्प-दुःखदाः। गुरुमन्त्राश्च देवाश्च स्वस्थाने च सुशोभनाः। अन्यांशकगताभव्या ज्ञातव्या स्वरवेदिभिः। एवं जाना-ति यश्चक्रं चक्रराजं त्रिनाडिकम्। तस्य पाणितलेज्ञानं सर्वदैक प्रतिष्ठितम्”

३ ।

२३ कालचक्रम्--
“नवोर्द्धगानि धिष्ण्यानि नव तिर्य्यग्ग-तानि च। अधोगतानि धिष्ण्यानि नव चैव विनिर्द्दिशेत्। चतुर्न्नाडीकृतो वेघो मध्यऋक्षत्रयोज्झितः। सर्पाकारञ्चतच्चक्रं कालचक्रं प्रजायते। त्रीणि मध्यगतर्क्षाणितानि कालमुखानि च। कोणस्थिते च ये धिष्ण्ये ते च[Page2826-a+ 38] दंष्ट्रे द्वयं मतम्। दिनर्क्षमादितः कृत्वा नामर्क्षं यत्रसंस्थितम्। मुखदंष्ट्रागतो मृत्युः शुभमन्यत्न संस्थिते। ज्वरिते नष्टदग्धे च विवाहे विग्रहे रणे। कालदंष्ट्रास्यगं नाम यस्य तस्य महद्भयम्”।

२४ सूर्य्यफणिचक्रम्--
“सप्तविंशतिभान्यत्र पङ्क्तियुक्त्याक्रमेण च। त्र्यन्तरे त्र्यन्तरे चैव फणिचक्रं त्रिना-डिकम्। यत्र ऋक्षे स्थितो भानुस्तदादि गणयेद्बुधः। नामर्क्षं च स्थितं यत्र ज्ञेयं तत्र शुभाशुभम्। कुर्य्या-न्मृत्युं च रोगञ्च नाडीवेवं गतो नृणाम्। वर्ज्जयेत्सर्व्वकार्य्येषु युद्धकाले विशेषतः। निर्व्वेधर्क्षकमध्यस्थंयस्य नाम प्रजायते। सिद्ध्यन्ति तस्य कार्य्याणि संग्रामेविजयो भवेत्”।

२५
“चन्द्रफणिचक्रम्--
“सूर्य्यफणीश्वरे चक्रे यदुक्तं च शु-भाशुभम्। चन्द्रादौ तत्फलं चक्रे ज्ञेयं सर्वं फंणीश्वरे। ”

२६ कविचक्रम्--
“हीनसैन्यः सदा स्थायी यायी सैन्या-धिकः सदा। अबलस्य बलोपायं वक्ष्येऽहं कविसङ्गरे। प्रयाणे चोत्प्रयाणे वा निशीथे मृगयाङ्गते। शोकार्त्तिव्यसनप्राप्ते हतसैन्ये विनायके। अष्टधा कविकाल-स्तु कथितो दुर्बले नृपे। इत्थं कुर्वन् परान् युद्धे जयती-ह न संशयः। चतुरस्रं त्रिनाडीकम् कविचक्रं लिखे-द्वुधः। प्रवेशे निर्गगे भानि स्थानविष्ण्यादि विन्यसेत्। यत्र नामाङ्किते स्थाने शत्रुसैन्यं व्यवस्घितम्। तत्रचक्रम् समालेख्यं सेनाध्यक्षर्क्षपूर्वकम्। त्रीणि त्रीणिप्रवेशे च ईशादौ विदिशि क्रमात्। निर्गमे तुर्य्यतुर्य्यौच पूर्वाशादिक्रमेण च। सौम्याः क्रूरा ग्रहायत्रप्रवेशे निर्गमे स्थिताः। वक्रातिचारगास्तत्र ज्ञात्वाकविरणं कुरु। जीवपक्षस्थिते चन्द्रे अकुलर्क्षे प्रवे-शके। यानं कविरणे प्रोक्तं ज्ञात्वा प्रवेशनिर्गमौ। उदितेऽस्तस्वरो यस्य यत्र जन्मेन्दुसम्भवः। तद्दिनेते भटाः सर्वे वर्जनीयाः कवौ रणे। क्रूरे शीघ्रे प्रवे-शर्क्षे यत्र तत्र बिशेद्रणे। वक्रस्थे निर्गमे सोम्येतद्दिशि निर्गम कुरु। प्रवेशर्क्षे प्रवेशं च निर्गमेनिर्गमे क्रुरु। भूबलं पृष्ठतः कृत्वा प्रोक्तः कंविरणे जयः। ”

२७ खलचक्रम्--
“चतुरस्रं चतुर्द्वारं” खलचक्रं लिखे-द्बुधः। नन्दाद्यास्तिथयोन्यस्याः पूर्यद्वारक्रमेण च। पूर्वाशादिचतुष्के तु सप्त सप्त क्रमेण तु। कृत्तिकादिलिखेन्मध्ये खले मान्यष्टविंशतिम्। शनिचन्द्रौ कुजसौम्यौ भानुशुक्रौ वृहस्पतिः। मध्ये बहिर्गतादेया[Page2826-b+ 38] अपसव्यं दिशां क्रमैः। यद्दिने यद्दिशि स्युस्ते तिथि-धिष्ण्यदिनाधिपाः। प्रवेशः खलकद्वारे कृर्त्तव्यस्तेनसर्वदा। खलकाभ्यन्तरे कालः शनिसूर्य्येज्यमङ्गलैः। बुधशुक्रेन्दुभिर्बाह्ये यायी स्थायी क्रमाज्लयी। ख-लके मध्यनक्षत्रे यो ग्रहो यत्र संस्थितः। तत्र स्थानेगते चन्द्रे फलं वक्ष्ये शुभाशुभम्। सूर्य्यस् थाने-स्थिते शूरे मृत्युश्चन्द्रसमाश्रिते। भौमस्थाने भहा-क्रोधी बुधस्थाने महद्भयम्। गुरुस्थाने स्थितःस्थास्नुर्भङ्गमायाति भार्गवे। शनिस्थे सक्षतं युद्धंराहुस्थे मरणं ध्रुवम्। वक्रस्थाने भवे{??}गुद्धं शीघ्रस्थाने च धावति। समचारगते स्थायी क्षीणेन्दु-स्थे च मोहनम्। क्रूरपृष्ठे जयो युद्धे, सौम्यपृष्ठेपराजयः। क्रूरे च संमुखे मृत्युर्ज्जयः सौम्य-ग्रहे स्थिते। योधयोः पृष्ठगाः क्रूरा उभयोर्म्मृत्युकारकाः। सौम्याः सन्धिप्रदा युद्धे मिश्रा मिश्रफलप्रदाः। ”

२८ कोट चक्रम् (

८ )--
“अथातः सं प्रवक्ष्यामि कोटयुद्धस्यनिर्णयम्। अल्पारिः कुरुते यत्र भूरिसैन्यपराभवम्। यस्याश्रयबलादेव राज्यं कुर्वन्ति भूतले। विग्रहंचतुराशायां सामात्यैः शत्रुभिःसह। विषमं दुर्गभंघोरं चक्र भीरुभयावहम्। कपिशीर्षञ्च शोभाद्यंरौद्राट्टलकमण्डिनम्। प्रतोली यत्र कालास्यं परिखाकालरूपिणी। रणमण्डकृताटोपः ठिङ्कुनीयन्त्रमण्डितम्। मुसलैर्मुद्गरैः पाशैःकुन्तखङ्गैर्धनुःशरैः। संयुतैः सुभटैःशूरैरिति दुर्गं समादिशेत्। दुर्गस्थो दुर्गमःशत्रुरसाध्यो येन सिध्यति। कोटचक्रं प्रवक्ष्यामिविशषादष्टधा मतम्। प्रथमं मृण्मयं कोटं जलकोटंद्वितीयकम्। तृतीयं ग्रामकोटञ्च चतुर्थं गिरिगह्वरम्। पञ्चमं पर्वतारोहं षष्ठकोटञ्च डामरम्। सप्तमंवक्रभूमिस्थं विषमाख्यं तथाष्टमम्। मृण्मथे साधयेत्खण्डिर्जलस्थे जलमोक्षणम्। ग्रामदुर्गेऽग्निदानञ्चप्रवेशो गह्वंरस्य च। पर्वते स्थानभेदश्च भूबलं डामरे-रणे। चक्राख्ये कविंयोगश्च विषमे स्थायियायिता। अतिवर्ण्णं कालकर्णञ्चक्रावर्त्तं च डामरम्। ताला-यर्त्तञ्च पद्माङ्गं यक्षभेदञ्च शाम्बरम्। एतन्नामाष्टकंज्ञेयं दुर्गाष्टकक्रमेण च। यस्य वर्गस्य योभक्ष्यःस वर्गस्तस्य भङ्गदः। अ गरुडः क मार्ज्जारः च सिंहःट शुनीसुतः। त सर्पः प आखुकश्च य गजः श अजा-सुतः। दुर्गवर्गस्य ये भक्ष्या वर्ज्यास्तद्भागजा नराः। [Page2827-a+ 38] तद्वर्ग्यास्तु रणे त्याज्या न कर्त्तव्या गडाधिपाः स्ववर्ग-पञ्चमे स्थाने खण्डिर्भङ्गश्च जायते। अवर्गाद्यष्टकंज्ञेयं पूर्वाद्यष्टदिशां क्रमात्। कोटचक्रं लिखेच्चादौचतुरस्रं त्रिनाडिकम्। कृत्तिकादीनि भान्यत्र साभि-जन्ति न्यसेद्बुधः। बहिः कोटे च मध्ये च मध्ये दुर्गेबहिर्बहिः। प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्वरवेदि-मिः। ईशात् प्रवेशधिष्ण्यानि मध्यात् प्राचीविनि-र्गमः। वहिर्द्वादश भान्यत्र प्राकारे तारकाष्ट-कम्। दुर्गमध्ये तथा चाष्टौ तन्मध्ये स्तम्मतुर्य्यकम्। कृत्तिका पुष्यसार्पञ्च मघास्वातीविशाखकम्। अनुराधा-भिजित् कर्णो धनिष्ठाश्वियमाह्वयम्। ब्राह्मं पुनर्वसुभाग्यं चित्रा ज्येष्ठा तथोत्तरा

१२ । शतभं रेवती चैवंप्राकारे तारकाष्टकम्। मृगरौद्रोत्तराहस्तमूलमाषाढ-पूर्वकम्। पूर्वोत्तरा तंथा भाद्रा मध्ये ताराष्टकं तथा। प्राच्यां रौद्रं यमे हस्तं पूर्वाषाढा च पश्चिमे। कौवेर्य्या-मुत्तरा भाद्रा ह्येतत्स्तम्भचतुष्टयम्। कृत्तिकाद्यं मघाद्यञ्चमैत्राद्यं वासवादिकम्। त्रीणि त्रीणि प्रवेशे च द्वाद-शर्क्षाणि निर्गमे। कृत्तिकादिरयं न्यासः सुबेधार्थः प्रद-र्शितः। दुर्गभाद्गणना चात्र ग्रहैर्वाच्यं ततः फलम्। दुर्गनामस्थितो वर्णोयद्वर्गोच्चारितः स्फुटम्। तदाशादिलिखेच्चक्रं क्रमात् स्वरविचक्षणैः। चतुरस्रं

१ वृत्तं

२ दीर्घं

३ त्रिकोणं

४ वृत्तदीर्घकम्

५ । अर्द्धचन्द्रं

६ तथा ज्ञेयं गोस्तनं

७ धनुराकृति

८ । चतुरस्रे यथा न्यासो भूमिभागक्रमेण च। प्रवेशे निर्गपे ह्यस्ति तथा वृत्तादिसप्तके। दुर्गे भित्तिविभागेन दातव्यं धिष्ण्यमण्डलम्। तत्र स्थैः खेचरैः सर्वैःफलं वाच्यं यथोदितम्। बाह्यभे मध्यभे वापि यत्रस्थाःक्रूरखेचराः। तत्रस्थाने कृतं यत्न हन्ति दुर्गं ससैनि-कम्। बुधशुक्रेन्दुजीवाश्च सदा सौम्या ग्रहा मताः। शन्यर्कराहुकेत्वारा मताः क्रूरा बुधैरिमे। त्रिप्रकारोग्रहे चारो वक्रः शीघ्रः समोमतः। उच्चनीचसमास्ते चत्रिधा चक्रे भ्रमन्तिं च। ऊर्द्धं चाधः समास्तिर्ष्यग्दृष्टि-भेदश्चतुर्विब्धः। स्वके मित्रे समं शत्रौ चतुर्द्ध चगृहे ग्रहः। सूर्य्यमुक्ता उदीर्यन्ते शीघ्राश्चार्क्केद्वितीयगे। समास्तृतीयगे यान्ति मन्दगत्या चतुर्थगे। वक्रः स्यात् पञ्चषष्ठेऽर्के त्वतिवक्रोऽष्टसप्तमे। नवमेदशमे भानौ जायतेकुटिला गतिः। शीघ्रगाश्च भवन्त्येतेद्वादगैकादशे तथा। राहुर्वक्रः सदा ज्ञेयो रवीन्दू शीघ्रगौ तथा। शीघ्रोऽतिचारगत्या च समश्च सप्तमन्दया। [Page2827-b+ 38] वक्रातिवक्रकौटिल्यगत्या वक्रग्रहोमतः। क्रूरोऽति-क्रूरतां याति सौम्थोयात्यतिसौम्यताम्। वक्रचारे समु-त्पन्ने शीघ्रे तूक्तविपर्य्ययः। मेषो वृषोमृगः कन्या कर्कमीनतुलास्तथा। रव्यादीनां क्रमादुच्चं नीचं यत्तस्य सप्त-मम्। उच्चान्नीचाच्च यत्तुर्य्यं समस्थानं तदुच्यते। उच्चस्थंमध्यमं नीचं वक्रे यत्र व्यवस्थितम्। ऊर्द्धदृष्टी चभौमार्क्कौ केकरौ बुधभार्गवौ। समदृष्टी च जीवेन्दूशनिराहू त्वधोदृशौ। सुहृदोर्क्केन्दुभौमेज्या एवंशुक्रज्ञभानुजाः। अन्योन्यं वैरिणोह्येते राहीः सर्वे चशत्रवः। स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे ग्रहे। अर्द्धं समगृहे ज्ञेयं पादं शत्रुगृहस्थिते। क्रूरोगर्भे पुरं-हन्ति प्राकारे खण्डिकारकः। बहिःस्थो वेष्टके सैन्थेमृत्युदो नात्र संशयः। क्रूरागर्भे, शुभा बाह्ये निश्चितन्तेपुरान्तकाः। सौम्या मध्ये बहिः क्रूरा असाध्यंदुर्गमुच्यते। क्रूरचतुष्टयं मध्ये प्राकारे सोम्यखेचराः। भेदोभङ्गो भवेत्तत्र विना युद्धेन गृह्यते। प्राकारेसंस्थिताः क्रूरामध्ये सौम्याग्रहा यदि। दुर्गभङ्गेसमुत्पन्ने भङ्गमायाति वेष्टकः। मध्ये नाडीस्थिताःसौम्याः क्रूरां बहिरवस्थिताः। सैन्यावर्त्तोबहिः शत्रो-र्थिना युद्धेन जायते। प्राकारे पुरमध्ये च यदाक्रूरा व्यवस्थिताः। सौम्या बाह्ये तदा दुर्गमयत्ने-नापि सिद्ध्य{??}। सौम्या मध्ये च कोटे च बाह्येपापग्रहो यदि। देवैर्ब्रह्मादिभिर्दुर्गं रणारम्मे नगृह्यते। प्राकारबाह्यगाः क्रूराः सौम्या मध्यगता यदि। युद्धे प्राकारखण्डिश्च पुरभङ्गो न जायते। सौम्याबाह्ये तथा कोटे मध्ये क्रूरग्रहाःस्थिताः। स्वयं दुर्गंप्रयच्छन्ति वेष्टकस्य गडाधिपाः। बाह्याभ्यन्तरगाः क्रूणाःप्राकारे शोभना ग्रहाः। रिपुपक्षः क्षयं याति विना-युद्धेन निश्चितम्। प्राकारस्था ग्रहाः क्रराबहिर्म्मध्येशुभाःस्थिताः। समयुद्धं भवेत्तत्र खण्डिःपाता दिनेदिने। स्तम्भान्तरगता यस्यं ग्रहाः सौम्याः शुभा-न्विताः। भवेयुस्तस्य कोटस्य न नाशस्तु कदाचन। यदि साक्षादहं (शिवः) तत्र युध्यमानोरणेऽम्बिके। !तथापि न भयं विद्यादिति सत्यं च नान्यथा। भौम्याः क्रूराग्रहाश्चाष्टौ मध्ये प्राकारबाह्यगाः। एकस्था यत्र कुर्वन्ति सङ्ग्रामं तत्र दारुणम्। गजाश्वरथभूपालैः सामन्तैर्मण्डलेश्वरैः। तत्राप्यकभटा-मर्द्द उभयोः सैन्ययोः क्षयः। बाह्ये शत्रुप्रवेशर्क्षे[Page2828-a+ 38] संग्रामं चारभेद्यदा। तदा सिध्यति तत् दुर्गं न करो-तीह विस्मितम्। कोष्टस्थैस्तु गतोयोद्धा शस्त्रहस्तोमहाबलः। शस्त्रंत्यक्त्वा ब्रवीत्येवं धर्म्ममार्बं दद-ख मे। निर्गमेषु च ऋक्षेषु संग्रामं यदि चारभेत्। नैव सिद्ध्यति तद्वुर्गं कोटस्थश्च जयावहः। बाह्यना-ड्यां स्थिता ये च ग्रहाः पापान्विता यदा। मध्ये शुभा-न्विता ये च तत्र भङ्गो न जायते। गडाधीशाः स्मृताःसौम्या वेष्टाधीशाश्च पापकाः। क्षेत्रयुग्मे स्थिता ये चज्ञातव्याश्च प्रयत्नतः। गडाधीशो भवेच्चन्द्रो वेष्टाधीशश्चभास्करः। चन्द्रसूर्य्यविभागेन ज्ञातव्यं च बलाबलम्। अंशाधीशोभवेच्चन्द्रस्ताराधीशोहि भास्करः। चन्द्र-सूर्य्यगतिं ज्ञात्वा पश्चाद्द्वेषं तु कारयेत्। वेष्टाधीशोभवेन्मध्ये गडाधीशो हि याह्यगः। स्वयं दुर्गं प्रय-च्छन्ति वेष्टकस्य गडाधिपाः। चापकुन्तगदापाशखङ्ग-हस्तैर्महाभटैः। अभङ्गयोर्द्वयो राज्ञोः सेन्यावर्त्तो हिजायते। वाहिन्यो रक्तवाहिन्यो दुस्तराः प्रेतस-ङ्कुलाः। वसासृक्पङ्कलिप्ताङ्गा अन्त्रमालावगुण्ठिताः। गृध्रकाकशिवाश्येनशाकिनीप्रेतराक्षसाः। वेतालखेच-रा भूताः र्पिशाचाः स्वेच्छयादृताः। ईदृशञ्च मादा-थोरं तत्काले जायते ध्रुबम्। न कश्चिद्विजयी युद्धे-द्वयं याति यमालयम्। समसंख्याः शुभाः क्रूराःबहिर्म्मध्ये यदा सिथताः। तदा सन्धिं विजानीयात्सैन्ययोरुभयोरपि। क्रूरैर्भङ्गोजयः सौम्यैर्मिश्रैर्मिश्रं फलं मतम्। विचार्य्य युद्धं कर्त्तव्यं कोटचक्रेस्वरोदये। प्रबेशधिष्ण्यगे चन्द्रे जीवपक्षर्क्षसंस्थिते। निशि कविरणं दुर्गे कर्त्तव्यं बाह्यसैन्यकैः। निर्गम-र्क्षस्थिते चन्द्रे दुर्गाभ्यन्तरगैर्न्नृपैः। कर्त्तव्यं कवि-युद्धं तु रात्रौ सुप्ते वहिर्ज्जने। प्रवेशनिर्गमावुक्तौसैन्ययोरुभयोर्न्निशि। कवौ कोटे जयोयुद्धे विपरीतेपराजयः। क्रूरोवक्री प्रवेशर्क्षे पुरमध्यगतो यदा। तदा कोटविनाशाय कोटम् थो बाह्यभूपतेः। प्रवेशे बा-ह्यगैर्वक्रैः क्रूरैः स्वसैन्यविग्रहः। दुर्भिक्षं मृत्युर्भङ्गश्चबहिःसैन्यस्य जायते। निर्गमर्क्षे बहिःस्थे च क्रूरो-वक्रं करोति चेत्। प्राकारस्य भवेद्भङ्गः प्राकारस्थेपुरस्य च। पुरभे निर्गमे वक्राः कथञ्चित् क्रूरखेचराः। दुर्गं सुक्त्वा तदा काले दुःर्गस्थः प्रपलायते। यथा क्रूरैस्तथासौम्यैः फलं ग्राह्यं विपर्य्यये। मिश्रैर्मिश्रं विजानीयात्कोटचक्रे न संशयः। उक्तग्रहैः समायोगो न चात्यै-[Page2828-b+ 38] र्न बलोञ्झितैः। न भास्करकरोच्छिन्नैर्न खेचरपरा-जितैः। दुर्गसैन्यं तथा तूच्चे प्राकारे मघ्यभागतः। नीचस्थ वेष्टक सैन्य ज्ञातव्य स्वरवेदिभिः। कोटंकोटाधिपौ नीचौ निघ्नन्तौ भौमभास्करौ। समस्थौच पुरं सर्वमुच्चस् थौ निफलौ च तौ। प्राकारवेष्टकान्घ्रन्तावुच्चस्थौ राहुसूर्य्यजौ। प्राकारस्थौ बहिः-सैन्यं नीचस्थौ निःफलौ चतौ। समदृष्ट्या गुरुचन्द्रौ पश्यतः सर्वतः सदा। तिर्य्यकस्थानं बुधशुक्रौफलदौ नात्र संशयः। ऊर्द्ध्वदृष्टिग्रहैः कुर्य्यात्-ढङ्कुलीयन्त्रवाहनम्। समे च साधयेत् खण्डिरन्ध्रपात-मधोमुखे। दुर्गमध्यस्थिते सूर्य्ये जलशोषः प्रजायते। चन्द्रे भङ्गः, कुजे दाहो, बुधे बुद्धिबलानराः। वाक्पतौदुर्गमध्यस्थे सुभिक्ष प्रचुरं जलम्। चलचित्तानराः शुक्रे,मृत्युरोगो शनैश्चरे। दुर्गमध्ये स्थिते राहौ भेदोभङ्गोमहद्भयम्। केतौ मध्यगते तत्र विषदानं गडाधिपे। इत्थमुक्तं फलं मध्ये एवं बाह्यस्थितैर्ग्रहैः। उपग्रहसमायोगादत्यन्तं प्राणसंशयः। अकारादिस्वराः पञ्चपूर्वाद्याशाचतुष्टये। मध्येऽन्त्यं सव्यमालिख्य अन्तस्थानेच खण्डिका। दुर्गनाम्नः स्वरोयस्य बालो वास्तमितो-ऽपि वा। तद्दिने प्रारभेद्युद्धं दुर्गं सिद्ध्यति नान्यथा। वज्रार्गलविधांनं च कर्त्तव्यं दुर्गरक्षणे। भञ्जने यम-राजाख्यं यदुक्तं चादिजामले। शुक्रोबुधोगुरुर्मन्दोराहुर्मन्दः सितोबुधः। चन्द्रः सूर्य्यः शनिः सौम्योवैशाखात् कोटपालकाः”।

२९ गजचक्रम्--
“अथातः सं प्रवक्ष्यामि चक्र” मात-ङ्गनामकम्। येन विज्ञातमात्रेण यात्रायुद्धे जयोभवेत्। गजाकारं लिखेच्चक्रं सर्व्वावयवसंयुतम्। अष्टाविंशतिभान्यत्र देयानि सृष्टिमार्गतः। मुखे शुण्डाग्रनेत्रेच कर्णे शीर्षाङ्घ्रिपुच्छके। द्विकं द्विकञ्च दातव्यंपृष्ठोदरे चतुश्चतुः। द्विरदर्नामभान्यादौ वदनाद्गण्यते बुधैः। यत्र धिष्ण्ये स्थितः सौरिर्ज्ञेयं तत्र शुभाशुभम्। सुखशुण्डाग्रनेत्रे च सौरिभं सस्तकोदरे। युद्धकालेभनेद्यस्य जयस्तस्य न संशयः। पादे पृष्ठे च पुच्छे च कर्ण-संस्थे शनैश्चरे। मृत्युर्भङ्गो रणेतस्य ऐरावतसमोयदि। एतेषां दुष्टभानाञ्च यत्काले संस्थितः शनिः। तत्कालेपट्टबन्धश्च वर्जनीयः प्रयत्नतः। पृथिव्या भूषणं मेरुःशर्व्वर्य्या भूषणं शशी। नराणां भूषणं विद्या सैन्यानांभूषणं गजः। शरत्रोमरचक्राद्यैर्गजस्कन्धहतानराः। [Page2829-a+ 38] तत्क्षणात् स्वर्गप्तायान्ति तस्मात् स्वर्गोपमागजाः। नास्ति हस्तिसमोयोद्धा नास्तिहस्तिसमः सखा। नास्ति हस्तिसमोबन्धुर्न्नास्ति हस्तिसमोरिपुः”।

३० अश्वचक्रम्--
“अश्वाकारं लिखेच्चक्रमश्वधिष्ण्यादिता-रकाः। वदनात् सृष्टिगा देया अष्टाविंशतिसंख्यया। मुखाक्षिकर्णशीर्षेषु पुच्छाङ्घ्रौ युग्मसंख्यया। पञ्चपञ्चोदरे पृष्ठे सौरिर्यत्र फलं ततः। मुखाक्ष्युदरशी-र्षेषु यदा सौरिर्व्यवस्थितः। युद्धकाले तदा तस्य जयोभवति नान्यथा। कर्णपुच्छाङ्घ्रिपृष्ठस्थे अश्वचक्रेऽर्क-नन्दने। विभ्रमं भङ्गं हानिञ्च करोत्यश्वो महाहवे। एतत्स्थाने स्थितः सौरिर्यदा काले हयस्य च। पट्ट-वन्धे गमे युद्धे वर्ज्जयेत्तं हयं नृपः। देशान्तर-स्थितास्तस्य रिपवः सन्ति शङ्किताः। तुरङ्गायस्यभूपस्य विचरन्ति महीतले। मेदिनी तस्य यस्याश्वाइति वाक्यं विनिश्चितम्। सर्व्वाःश्रियो न राजन्ते विना-ऽश्वेन महीभुजाम्”।

३१ रथचक्रम्--
“आदौ चक्रं समालिख्य रथाकारं सुशो-भनम्। रथाग्रे त्रित्रिशूलानि रथचक्रं त्रिदण्डकम्। भानुभं मध्यशूलाग्रे ततः स्वर्क्षगतानि च। त्रीणि त्री-णि लिखेदेवं सप्तविंशतिसंख्यया। महारथिकनक्षत्रंयत्र तत्र शुभाशुभम्। शृङ्गे मृत्युर्ज्जयश्चक्रे रथेसन्धिः सदण्डके”।

३२ व्यूहचक्रम्--
“अष्टारं वर्त्तुलाकारं व्यूहचक्रं त्रिना-डिकम्। दण्डचतुष्टयं बाह्ये कर्त्तव्यञ्च चतुर्द्दिशम्। पूर्व्वदण्डाग्रतोन्यस्य दिनभाद्यं भमण्डलम्। प्रवेशे निर्ग-मे चैव त्रीणि त्रीणि प्रदक्षिणे। शशिसंज्ञाष्टकं मध्येतद्बाह्ये भानुसंज्ञकम्। तृतीयं राहुसंज्ञं च क्रेतुर्दण्डवतुष्टये। चन्द्रर्क्षे विजयोलाभः सूर्य्यर्क्षे मध्यसंफलम्। रांहुधिष्ण्याष्टके विघ्नं मृत्युः केतुचतुष्टये। एवमुकं चतुःस्थाने यद्दिने यस्य नामभम्। तद्दिनेतत् फलं तस्य सर्वकार्य्येषु सर्वदा”।

३३ कुन्तचक्रम्--
“कुन्ताकारं लिखेच्चक्र तीक्ष्णदण्डसम-न्वितम्। दिनभादि समारभ्य कर्त्तव्यं नवकत्रयम्। राजभं नथके यत्र तत्र वक्ष्ये शुभाशुभम्। तीक्ष्णे मृत्युर्ज्जयोदण्डे शेषधिष्ण्ये समं रणम्”।

३४ खङ्गचक्रम्--
“खड्गचक्रं समालिख्य नवभेद समन्वि-तम्। योधधिष्ण्यात् समारभ्य त्रीणि त्रीणि लिखे-द्बुधः। यवं वज्रं तथा मुष्टिं पालिकां वन्धधारिके। [Page2829-b+ 38] स्वड्गं तीक्ष्णं विजानीयान् नवाङ्गानि विधानतः। यवादौ यत्र बन्धान्ते जायन्ते क्रूरखेचराः। मृत्यु-र्भङ्गो भवेदुद्धं सोम्यैर्लाभो जयस्तथा। खड्गेधाराद्वये तीक्ष्णे क्रूरैर्जयति सङ्गरे। सौम्यैस्तथाभवेद्भङ्गो मिश्रैर्मिश्रफलं मतम्”।

३५ छुरिकाचक्रम्।
“यथा खङ्गं तथा विद्याच्छुरिकाचक्रनिर्णयम्। क्रूरसौम्यविभागेन योधधिष्ण्यादिविन्यसेत्”।

३६ चापचक्रम्--
“चापचक्रं समालेख्य गुणवाणसमन्वितम्। शशिनक्षत्रतोभानि त्रीणि त्रीणि समालिखेत्। त्रीणि-वाणस्य मूले तु मध्ये मूर्द्ध्निक्रमात्तथा। चापमूलस्यमध्योर्द्धे त्रीणि त्रीणि तथा पुनः। गुणे तु त्रीणित्रीण्येव योधनक्षत्रतः फलम्। शरमूले भवेन्मृत्युर्मध्येव्याधिः फले जयः। गुणमध्ये भवेद् भङ्गश्चापमध्येधनक्षयः। चापोर्द्धे विजयोज्ञेयो, गुणोर्द्धे लाभसंयु-तः। चापाधो विग्रहो मृत्युर्गुणाधोऽपि तथा फलम्। पापग्रहयुते नेष्टं विशेषेण तु नान्यथा। सौम्ययोगेजयोलाभश्चापचक्रे समादिशेत्। शुभपापसमायोगेबलाधिक्ये बलं स्फुटम्”।

३७ शनिचक्रम्--
“शनिचक्रं नराकारं लिखित्वा सौरिभा-दितः। नामधिष्ण्यं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम्। मुखैकन्दक्षदोस्तुर्य्यं षट्पादे तुर्य्यं वामके। हृदि पञ्चत्रयं शीर्षे नेत्रगुह्ये द्विकद्विकम्। हान्यास्ये दक्षदोर्लाभःभ्रमोऽङ्थ्रौ वामदोरुजम्। हृदि श्रीर्मस्तके राज्यं नेत्रेसौख्यं मृतिर्गुदे। जन्माष्टद्वादशे तुर्य्ये यदा विघ्न-करः शनिः। तदा सौख्यं यपुस्थ चेत् हृत्शीर्ष नेत्रद-क्षदोः। तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः। तदा विघ्नं शरीरं चेत् वक्त्राङ्घ्रिगुह्यवाभदोः। यस्यपीडाकरः सौरिस्तस्य चक्रमिदं स्फुटम्। लिखित्वाकृष्णवर्णेन तैलमध्ये क्षिपेद्बुधः। निःक्षिप्य भूमिमध्यस्थंकृष्णपुष्पैः प्रपूजयेत्। तुष्टिं याति न सन्देहः पीडांमुक्त्वा शनैश्चरः”।

३८ सेवाचक्रम्--
“सेवाचक्रं शीरे सप्त पृष्ठे सप्त तथोदरे। पादयोः सप्त ऋक्षाणि साभिजिन्त्यत्र विन्यसेत्। स्वामि-भाद्भृथभं गुण्यं, भृत्यभात् स्वामिभं तथा। निम्फलंपादपृष्ठस्थे फलदं मस्तकोदरे”।

३९ नरचक्रम्--
“नरचक्रं समालिख्य अष्टावयवसंयुतम्। येन विज्ञातमात्रेण क्रियते क्षातनिर्णयः। मुखैकं मस्तके[Page2830-a+ 38] त्रीणि हस्ते पादे चतुश्चतुः। हृदि पञ्च त्रिकं कण्ठेसाभिजित् तत्र विन्यसेत्। कृत्वा योधभमादौ तु मुख-मस्तकवामके। हस्तपादोदरे कण्ठे दक्षहस्ताङ्घ्रिगण्यते। यत्राङ्गे भानुभौमार्किराहवोधिष्ण्यसंस्थिताः। तत्र घातं विजानीयात् चन्द्रयोगे विशेषतः। ग्रह-भुक्तिप्रमाणेन नवांशकक्रमेण च। प्रहारोजायते तत्रवक्रे द्विगुणसंख्यया। निजभे चार्द्धघातं च पादोनंमित्रभे ग्रहे। उदासीने भवेत् सर्वं द्विगुणं शत्रूक्षेत्रगे। एकोऽप्यनेकघातं च करोति भूबलोज्झितः। भूबलेच यदा खेटाः स्थिताघातं न कुर्वते। यत्र यत्र स्थितेघातो यत्रयत्रस्थितेन हि। तत्फलं कथयिष्यामिग्रहभूमिवशात्पुनः। क्रूराथातं न कुर्वन्ति पृष्ठदक्षिणगारणे। सम्मुखाबामगा ह्येते योधाङ्गे घातकारकाः। दक्षिणाङ्गे गताः क्रूराः सौम्यावामाङ्गसंस्थिताः। शिर-श्छेदे समुत्पन्ने भटं धावति सम्मुखम्। यस्यवामाङ्गगाः क्रूराः सौम्या यस्य च दक्षिणे। तस्य मङ्गेरणे नूनं यदि शूरो महाभटः”।

४० डिम्भचक्रम्--
“डिम्भचक्रे न्यसेद्भानि भानुभात् त्रीणिमस्तके। मुखे त्रीणि द्वयं स्कन्धे एकैकं बाहुहस्तयोः। पञ्चहृन्नाभिगुह्यैकं षट्जान्वैकैकपादयोः। विलेख्यं-स्नर्य्यनक्षत्रात् जन्मभं तत्र चित्तयेत्। शीर्षस्थे छत्रला-भश्च वक्त्रे मिष्टान्नभोजनम्। स्कन्धेऽवनी च, बाहुभ्यांस्थानभ्रष्टोमवेन्नरः पाणिभ्यां तस्करोलक्ष्मी र्हृद्यल्पायुश्चनाभिभे। गुह्ये कामी, भ्रमो, जानौ, स्तोकजीवी चपादयोः”।

४१ पक्षिचक्रम्ं--
“चञ्चुमस्तकूकण्ठे च हृद्युदराङ्घ्रिपक्षयोः। त्रीणि त्रीणि क्रमेणैव शशिभाद्विन्यसेद्बुधः। चञ्चुस्थेनामभे मृत्युः, शीर्षे कण्ठोदरे हृदि। विजयः क्षेमलाभश्च च भङ्गदं पादपक्षयोः”।

४२ वग्र्गचक्रम्--
“अगरुडःक मार्जारश्चः सिंहः टः शुनी-सुतः। तःसर्पः प आखुश्च य गजः शअजासुतः। वसु-वाणाङ्गवेदास्तु चन्द्राग्निनेत्रवह्नयः। वर्गाङ्काः क्रमशो-ज्ञेया वैनतेयाद्यजात्तकाः। पूर्वादिक्रमशो ज्ञेयं वर्गो-परिदिगष्टकम्। नाम्नि मात्राक्षराः ग्राह्या वर्गाङ्कोपेतसंख्यया। प्रत्येकं स्थापयेत्तत्र पिण्डं कृत्वाष्टभिर्भजेत्। शेषसंख्यो ध्वजो

१ धूम्रः

२ सिंहः

३ श्वा

४ वृष

५ रासभौ

६ । गजो

७ धाङ्क्षः

८ क्रमेणैवमायाह्यष्टौ भवन्ति च। धाङ्क्षश्वरासंभोक्षाणो गजः सिंहोध्वजोऽनलः। यथो-[Page2830-b+ 38] त्तरवलाः सर्वे ज्ञातव्याः स्वरवेदिभिः। प्रभौ योधेपुरे देशे मित्रनारोगृहेषु च। बलिन्याये भवेल्लाभोनलाभोबलवर्ज्जिते”।

४३ आयचक्रम्--
“ध्वजोधूर्म्रोऽथ सिंहःश्वा सौरभेयः ख-रोगजः। ध्वाङ्क्षश्चेति क्रमेणैव आयाष्टकदिशाष्टके। प्रतिपदाद्वितीयादौ तिथिभुक्तिप्रमाणतः। अहो-रात्रे ततः सर्वेयामभुक्त्या भ्रमन्ति च। इन्दस्थाने महा-लाभ आग्नेय्यां मरणं ध्रुवम्। दक्षिणे विजयःसौख्यं, नैरृत्यां बन्धनं मृतिः। वारुण्यां सर्वलाभश्चवायव्यां हानिकारकम्। उत्तरे धनधान्यं चत्वैशान्यां निःफलं मतम्। अतीतं गोहारधाङ्क्षैर्वर्त्तमानं ध्वजेऽनले। अनागतं परं विद्यात् धूम्रकुक्कुट हस्तिभिः। वृषे ध्वजे समीपस्थं, दूरस्थः गजसिं-हयोः। श्वाने खरे च मार्गस्थो निःफलं धूम्रधाङ्क्षयोः। ऐन्द्राग्नेय्यो र्मूलचिन्ता धातोर्द्दक्षिणनैरृतौ। वारु-ण्यां धातुचिन्ता च जीवचिन्तोत्तरे शिवे”। आया-वर्गाष्टके ज्ञेया दिगष्टकक्रमेण च। स्वोदये मृत्युदं ज्ञेयंसर्वकार्य्येषु सवर्दा”।

४४ विरिञ्चिचक्रम्--
“अथातः संप्रवक्ष्यामि सद्यःप्रत्ययका-रकम्। चक्रं विरिञ्चिविख्यातं यत्सूरैरपि दुर्गमम्। कृत्तिका चोत्तरा फाल्गुन्युत्तराषाढभादितः। पङ्क्तियुक्त्या न्यसेद्भानि क्रमेण नवकत्रयम्। वेधोऽबि तिर्य्य-गस्तत्र कर्त्तव्यो नवकत्रये। क्रूरसौम्यैर्ग्रहैर्विद्धं ज्ञेयं तत्रशुभाशुभम्। जन्मसम्पद्विपत्क्षेमं प्रत्यरिः साधकोबधः। मित्रातिमित्रगास्तारानव भेदा भवन्ति च। जन्मत्रयस्य वेधेन मृत्युः क्रूरग्रहैर्यवेत्। जयो-लाभः शुभैस्तत्र मिश्रैर्मिश्रफलं मतम्। सौम्योयःशुभतारास्थस्तत्ताराभावपोषकः। दुष्टास्थो दुष्टमाध्रत्तेक्रूरे तस्माद्विपर्ययः। जन्मत्रये स्थितः सौरिः क्षेमाये-राहुभूमिजौ। मित्रातिमित्रगे सूर्ये जायते बधयन्धनम्। जन्मत्रये यदा मन्त्री क्षेमाये बुधभार्गवौ। मित्रातिमित्रगे चन्द्रे जयलाभसुखानिच। त्रिपञ्चसप्तनासु रोगोत्पत्तिर्यदा तदा। चिरं रोगे मृतिस्तासु क्रूरविद्धासुजायते”।

४५ सप्तशलाकचक्रम्--
“तिर्यगूर्द्धं गतारेखा सप्तसप्त न्यसे-द्बुधः। कृत्तिकादीनि भान्यत्र साभिजिन्ति कमेण च। भुक्तं भोग्यं तथाक्रान्तंविद्धं पापग्रहेण भम्। शुभा-शुभेषु कार्येषु वर्ज्जनीयं प्रयत्नतः। यस्याभिधान[Page2831-a+ 38] नक्षत्रं विद्धं क्रूरग्रहेण च। देशग्रामं पुरं सैन्यं नरो-नारी विनश्यति”। अधिकमुपयमशब्दे

१२

६३ पृ॰ दृश्यम्।

४६ पञ्चशलाकचक्रम्--
“तिर्यगूर्द्धगताः पञ्च द्वे द्वे रेखे चकोणयोः। ईशकोणाग्ररेखायां कृत्तिकां विलिखेद्बुधः। विशाखाकृत्तिकावेधो भरण्याश्चानुराधया। धनिष्ठासार्पयोवेधो मधाश्रवणयोस्तथा। शुभाशुभैर्ग्रहैर्विद्धंविवाहे परिबर्जयेत्। यदि विद्धं महादुष्टं क्रूरवेधे-महद्भयम्”। अधिकमुपयमशब्दे

१२

६३ पृ॰ दृश्यम्।

४७ चन्द्रचक्रम्--वक्रेन्दुसदृशं चक्रं त्रित्रिशूलसम-न्बितम्। मध्ये द्वादश भान्यत्र षट् पृष्ठे नव शूलके। मध्ये शूलस्य मध्यस्थं शशभृदृक्षमादितः। सव्येनमण्यते चक्रं यावद्योधस्य नामभम्। शृङ्गे मृत्युर्भयंमध्ये, पृष्ठे भङ्गो महाहवे। चतुरङ्गे कवौ कोटे द्वन्द्वेयुद्धे विशेषतः”।

४८ भास्करचक्रम्--
“रेखात्रयं त्रिशूलाग्रं तिर्य्यग्रेखा-षडन्वितम्। एकैकाः कोणगास्तत्र मध्याधोभानुभादितः। अधस्त्रये भवेन्मृत्युश्चतुर्भिः कोणगैः शुभम्। द्वादशसध्ये संप्रोक्ता नवर्क्षाश्चैव दाहकाः। ”

४९ प्रथममातृकाचक्रम्--
“षोडशोर्द्धगतारेखाः पञ्च रेखाश्चतिर्य्यनाः। कोष्ठकानां भवेद् षष्टिर्मात्राङ्कस्वरयोजना। पूर्णिमादिविलोमर्क्षान् लिखेत् प्रतिपदादिकान्। तदधोमातृकालेख्या ङञणान्त्यस्वरोज्झितान्। संगृह्यनामवर्णाङ्कान् मात्राभेदेन संयुतान्। मुनिभि(

७ )स्तुहरेद्भागं पश्चात् ज्ञेयं शुभाशुम्। मात्राधिके भवेल्लाभोमात्राहीने पराजयः। मातृकायाः प्रभेदोऽयं तस्मात्ज्ञेयः प्रयत्नतः”।

५० द्वितीयमावृकाचक्रम्--
“द्वादशोर्द्धगता रेखाः पञ्च-रेखाश्च तिर्य्यगाः। मातृकाप्रस्तरे तत्र षण्डान्त्यस्वर-वर्ज्जितान्। कोष्ठकाधोलिखेदङ्कान् पञ्च युग्मं त्रिकंत्रयम्। षड्द्वयमष्टकं त्रीणि नवकैकं तथैव च। नामवर्णस्य या संख्या मात्रासंख्या तथैव च। पिण्डितानवमिर्भक्ता जयोमात्राधिके रणे। ”

५१ तृतीयमातृकाचक्रम्--
“भानुमार्त्तण्डदोर्वाणतिथ्यद्रिरस-दिग्गजाः। नवाङ्कास्तदधः स्थाप्याः पञ्चस्वरकखा-दितः। ङञणोना हकारान्ता नबधा कोष्ठकक्रमैः। नाममात्राक्षराङ्कैक्यसप्तशेषेऽधिके जयः”।
“भूवाणादित्यदोर्वाणतिथिवेदाश्वदिग्रसान्। वसुनन्दान्त-लान् लिख्य षण्डकोज्झितमातृकाम्। पुन्नामवर्णमात्राणा[Page2831-b+ 38] मङ्कयोगेऽष्टशेषके। मात्राधिके जयो युद्धे मात्राहीनेपराजयः” पाठान्तरम्।

५२ विजयचक्रम्--
“अथ सारतरं वक्ष्येलम्पटाचार्य्यभाषि-तम्। जयपराजयौ येन नामोच्चारणतः स्फुटम्। लग्नालग्नप्रभेदेन घोषाघोषक्रमेण च। प्रवेशनिर्ग-माभ्यां च चक्रं जयपराजयम्। ”

५३ श्येनचक्रम्--
“श्येनचक्रं समालिख्य पक्षिरूपंसुशोभनम्। चञ्च्वग्रे भानुभं कृत्वा अष्टाविंशतिभंलिखेत्। ऋक्षैकं चञ्चुकोटिस्थं शीर्षे नेत्रे त्रिकं त्रिकम्। पादे पृष्ठे चतुष्कं च उदरे नव भानि च। नाम ऋक्षंस्थितं यत्र फलं तस्य वदाम्यहम्। चञ्च्वग्रे बधब-न्धाय नामर्क्षं च यदा भवेत्। लाभः शीर्षोदरे नेत्रे-ऽशुमं स्यात् पादपृष्ठयोः। ”

५४ तोरणचक्रम्--
“नाडीचतुष्टयं चक्रं लिखित्वा तो-रणाकृतिं। नृपभाद्विन्यसेत् भानि प्रवेशे निर्गमे तथा। स्तम्भमूले स्थितान्यष्टौ सिंहद्वारे तथाष्टकम्। मालाया-मष्टकं चैव चतुर्धिष्ण्यानि तोरणे। निर्गमे चन्द्रमायत्र प्रवेशे यत्र भास्करः। तत्र काले शुभा यात्राविपरीता च हानिदा। चन्द्रःप्रवेशऋक्षस्थो नि-र्गमस्थो दिवाकरः। बधबन्धनदा यात्रा प्रवेशे तत्रशोभना। चन्द्रादित्यौ प्रवेशर्क्षे अथ वा निर्गमे स्थितौ। मिश्रं फलं भवेत्तत्र प्रवेशे वाऽथ निर्गमे। क्रूरग्रहयुतश्चन्द्रः प्रवेशे वाऽथ निर्गमे। तद्दिने भूभुजां चैवनिषिद्धा राजपट्टिका। शुभग्रहयुते चन्द्रे

३ सिंहद्वार-भसंस्थिते। प्रवेशः पट्टवन्धश्च भूभुजां शोभनः स्मृतः। स्तम्भे सौरिर्नृपं हन्ति सिंहे स्वचक्रविग्रहः। माला-स्थिते बलं राज्यं तोरणे सर्वसिद्धिदः”।

५५ अहिचक्रम्--
“अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम्। द्रव्यं शल्यं तथा शून्यं येन जानन्ति सा-धकाः। निधिर्न्निबर्त्तनैकस्थः सम्भ्रान्तो यत्र भूतले। तत्रचक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम्। ऊर्द्ध्वरेखा-ष्टकं लेख्यं तिर्य्यक् पञ्च तथैव च। अहिचक्रं भवत्येवमष्टाविंशतिकोष्ठकम्। अहिगत्या च नक्षत्रे तत्-काले यत्र चन्द्रमाः। द्रव्यं शल्यं भवेत्तत्र चन्द्रभास्करसंक्रमे। तत्र पौष्णाश्वियाम्यर्क्षकृत्तिकामघ-भाग्यकम्। उत्तराफालगुनी लेख्यं पूर्ब्बपङ्क्त्यां भसं-ज्ञकम्। अहिर्बुध्नाजपादर्क्षे शतभं ब्राह्मसर्पभम्। पुष्पं हस्तं समालेख्यं द्वितीयपङ्क्तिसंस्थितम्। विघिं[Page2832-a+ 38] विष्णुं धनिष्ठाख्यं सौम्यं रौद्रं पुनर्वसुम्। चित्रभंच तृतीयायां पङ्क्तौ वै धिष्ण्यसप्तकम्। विश्वभंतोयभं मूलं ज्येष्ठां चैत्रविशाखके। स्वातीं पङ्क्त्यांचतुर्थ्यां च कृत्वाथ प्रविलोकयेत्। एवं प्रजायते चक्रेप्रस्तारः पन्नगाकृतिः। द्वारस्तम्भे मघायाम्ये द्वारस्थाकृत्तिका ततः। अश्विन्यादित्रिऋक्षञ्च आर्द्रादिपञ्चकंतथा। रेवती पूर्वभाद्रेन्दोः पूर्वाषाढचतुष्टयम्। शेषाणिभानुभान्यत्र प्रोक्तानि सर्वसंख्यया। शशाङ्के चन्द्र-भे द्रव्यं शल्यं भवति सूर्य्यभे। उदयादिगताबाड्योभ

२७ घ्नाःषष्ट्याप्तशेषके। दिनेन्दुभुक्तयुक्तोऽसौ भवेत्तत्कालचन्द्रमाः। ग्रहैर्भुक्तानि धिष्ण्यानि खखभैर्गुणयेत्ततः। भुक्तपादकलायोज्याः षष्ट्या भागं ततो-हरेत्। लब्धस्य त्रिंशता भागो ग्रहाःस्युः शशिपूर्वकाः। अश्विन्यादीन्दुभुक्तानि भानि षष्टिहतानि च। स्वभुक्तनाडीसंयुक्तं द्विव्नं नन्द

९ हृतं त्रिधा। दिनेन्दुभुक्तमा-गादि जायन्ते चेष्ठकालिकाः। चन्द्रवत् साधयेत्-सूर्य्यमृक्षस्थं चेष्टकालिकम्। पश्चात् विलोकयेत् तौच स्वऋक्षे चात्यभे स्थितौ। चन्द्रर्क्षे च यदाऽ-र्केन्दू तदास्ति निश्चितं निधिः। भानुऋक्षे-गतौ द्वौ च तदा शल्यं न संशयः। स्वस्व भेद्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्य्यये। स्थितं न लध्यतेद्रव्यं चन्द्रे क्रूरग्रहान्विते। पुष्टे चन्द्रे भवेत्पुष्टःक्षीणे चन्द्रेऽल्पको निधिः। ग्रहदृष्टिवशात् सोऽपि वि-ज्ञेयो नवधा बुधैः। नवांशकानुमानेन भूमानंतस्य कल्पयेत्। कालमानेन तत्संख्या धातुज्ञानंनिरीक्षणैः। हैमं तारं च ताभ्रं च रत्नं कांस्याय-सं त्रपु। चन्द्रे नागंविजानीयाद् भास्करादिग्रहेक्षिते। भिश्रैर्मिश्रं भवेद्द्रव्यं शून्यं दृष्टिविवर्जिते। सर्वग्रहेक्षिते चन्द्रे निर्दिष्टोऽसौ महानिधिः। हैमंतारञ्च ताम्रारं पाषाणं मृण्मयायसम्। सूर्यादिगृह-गे चन्द्रे द्रव्यभाण्डं प्रजायते। भुक्तराश्यंशमा-नेन भूमानं कायिकैः करैः। नीचे निम्नः, परे नीचे-जलस्थोऽसौ महानिर्धिः। स्वोच्चस्थे ऊर्द्ध्वगं द्रव्यं न-वांशकक्रमेण च। कोष्ठद्वयं परित्यज्य लेख्या मे-षादयः क्रमात्। प्रश्नलग्नाधिपोयत्र तत्र द्रव्यंविनिर्दिशेत्। परमोच्चे परे तुङ्गे भित्तिस्थमृक्षसंक्रमे। चन्द्रांशभुक्तिमानेन द्रव्यसंख्याभिधीयते। तस्वद्दशगुणा वृद्धिः षड्वर्गे तु वलक्रमात्। अघिष्ठितं[Page2832-b+ 38] भवेत् द्रव्यं यत्र चन्द्रो ग्रहान्वितः। तदधिष्ठायको-ज्ञेयो भास्करादिग्रहक्रमात्। ग्रहं मुख्यग्रहं चैवक्षेत्रपालं च मातृकाम्। दीपेशं भीषणं रुद्रं यक्षं नागंविदुः क्रमात्। ग्रहे होमः प्रकर्त्तव्यो मुख्ये नायराणोबलिः। क्षेत्रपाले सुरामांसं मातृकायां महाबलिः। दीपेशे दीपिकापूजा भीषणे भीषणार्चनम्। रुद्रेच रुद्रियोजाप्योयक्षे यक्षादिशान्तयः। नागे नामग्रहाःपूज्या गणनाथेन संयुताः। लक्ष्मीधरादितत्त्वानिसर्वकाय्येषु पूजयेत्। निर्वर्त्तनैकमध्ये च सम्भ्रान्तोयत्र भूतले। तत्र चक्र लिखेद्धीमान् द्रव्यशल्यस्यनिर्णयम्। एवं कृतविधाने तु असाध्यो निधिराप्यते। निधिं प्राप्य नरा लोके वन्दनीया न संशयः”।

५६ चन्द्रशृङ्गोन्नतिचक्रम्--
“मीनमेषोदयश्चन्द्रः सततंदक्षिणोत्तरा। उत्तरोत्तरशेषेषु समत्वं वृषकुम्भयोः। विट्वरं स्यात् समे चन्द्रे दुर्भिक्षं दक्षिणोन्नते। इतिरोगं भयं शूले सुभिक्षं तूत्तरोन्नते”।

५७ जीवचक्रम्--
“शीर्षे राज्यं चतुर्भिर्भवति खलु करेदक्षिणे श्रीश्चतुर्भिः पीडां षड्भिः पदस्थैर्मृतिरपिच भवेद्वामहस्ते चतुर्भिः। कण्ठेचैकेन भूतिर्मदन-शरमितैर्वक्षसि प्रीतिलाभः स्यान्नेत्रस्थैस्त्रिभिर्मैरपिवशमसुखं वाक्पतेश्चक्रमेतत्”।

५८ लाङ्गलचक्रम्--
“लाङ्गलं दण्डिकायूकं योत्रद्वयसम-न्वितम्। दण्डिकादि लिखेद्भानि दिनेशाक्रान्तभादितः। दण्डिकाहलयूकानां द्विद्विस्थाने त्रिकं त्रिकम्। योत्रयोःपञ्चकं सव्यगणना चक्रलाङ्गले। दण्डस्थे च गवांहानिर्युगस्थे स्वामिनो भयम्। लक्ष्मीर्लाङ्गलयोत्रस्थेक्षेत्रारम्भो दिनर्क्षगे”।
“त्रिकं त्रिकं त्रिकं पञ्च त्रिकंपञ्च द्विकं द्विकम्। अशुभानि शुभानि स्युश्चक्रे लाङ्गलसंज्ञके” क्वचिदधिकः पाठः।

५९ वीजोप्तिचक्रम्--
“सूर्य्यभादुरगं स्थाप्यंत्रिमाड्येकान्तन्तरं क्रमात्। मुखे त्रीणि गले त्रीणि भानि द्वादशचोदरे। पुच्छे तुर्य्यं बहिः पञ्च दिनभाच्च फलं वदेत्। वदने पुलाकं विद्याद्गलकेऽङ्गारकस्तथा। उदरे धान्य-वृद्धिश्च पुच्छे धान्यक्षयोभवेत्। ईतिरोगभयं बाह्ये चक्रेवीजोप्तिसम्भवे”।

६० वृषचक्रम्--
“वृषचक्रं वृषाकारं सर्वावयवसंयुतम्। लिखित्वा विन्यसेद्भानि वृषनामर्क्षपर्वकम्। मुखाक्षि-कर्णशीर्षेषु शृङ्गस्कन्धे द्विकं द्विकम्। त्रीणि पुष्ठे द्विद्धं[Page2833-a+ 38] पुच्छे र्द्विर्द्विः पादोदरे न्यसेत्। हलप्रवाहवीजोप्तिप्रार-म्भादिदिनर्क्षकम्। यत्राङ्गे संस्थितश्चन्द्रस्तस्य वक्ष्ये शुभा-शुभम्। हान्यास्ये च सुखानि लोचनगते कर्णे चभिक्षाटनम्, शीर्षे स्यात् मृतिरत्र शृङ्गकयुगे स्कन्धे स्थितेशोभनम्। पृष्ठे राजभयं च पुच्छभगते पादे भ्रमं हृत्-सुखमेवं चन्द्रभजं फलं प्रकटितं चक्रे वृषाख्ये नृणाम्”।

६१ सप्तनाडीचक्रम्--
“अथातः संप्रवक्ष्यामि यच्चक्रंसप्तनाडिकम्। येन विज्ञातमात्रेण वृष्टिं जानन्तिसांधकाः। कृत्तिकादि लिखेद्भानि साभिजिन्ति क्रमे-ण च। सप्तनाडीव्यधस्तत्र कर्त्तव्यः पन्नगाकृतिः। ताराचतुष्कवेधेन नाड्येकैका प्रजायते। तासां ना-मान्यहं वक्ष्ये तथा चैव फलानि च। कृत्तिका चविशाखा च मैत्राख्यं भरणी तथा। ऊर्द्धाख्या शनिनाडी स्याच्चण्डनाड्यभिधा मता। रोहिणी स्वातिज्येष्ठाश्वि द्वितीया नाडिका मता। आदित्यप्रभवा नाडीनायुनाडी तथैव च। सौम्यं चित्रा तथा मूलं पौष्णर्क्षंच चतुर्थकम्। तृतीयाऽङ्गारका नाडी दहनाख्या तथै-व च। रौद्रं हस्तं तथा पूर्वाषाढभाद्रोत्तरा तथा। चतुर्थी जीवनाडी स्यात् सौम्या नाडी प्रकीर्त्तिता। पुनर्वसूत्तराफाल्गुन्युत्तराषाढतारका। पूर्वभाद्रश्च शुक्रा-ख्या पञ्चषी नीरनाडिका। पुष्यर्क्षं फालगुनीपूर्वा सामिजिच्छततारका। षष्ठी नाडी च विज्ञेयावुधाख्या जलनाडिका। अश्लेषर्क्षं मघा कर्णो धनि-ष्ठाभं तथैव च। अमृताख्या हि चन्द्रस्य सप्त नाड्यःप्रकीर्त्तिताः। मध्यमार्गे स्थिताः सौम्या नाडी तस्याग्रपृष्ठतः। सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकंत्रिकम्। क्रूरा याम्यगता नाड्यः सौम्याः सौम्यदि-गाश्रिताः। मध्यनाडी च मध्यस्था ग्रहरूपफलप्रदा। एकनाडीगता द्व्याद्या ग्रहाःक्रूराः शुभायदि। ततोनाडीफलं वाच्यं शुभं वा यदिवाऽशुभम्। ग्रहाः-कुर्य्युर्म्महावातं गताश्चण्डाख्यनाडिकाम्। वायुनाडींनतावायुं दहन्यासपि दाहकाः। सौम्यनाडीगता-मध्या नीरस्था मेघवाहकाः। जलायां वृष्टिदा चन्द्रनाडिकाऽप्यतिवृष्टदा। एकोऽप्येतत्फलं दत्ते स्वनाडीसंस्थितो ग्रहः। भूसुतः सर्वनाडीषु धत्ते नाडीभवंफलम्। प्रावृट्काले समायाते रौद्रऋक्षगते रवौ। नाडीबेधसमायोगे जलयोगं बदाम्यहम्। यत्र नाडीस्थितश्चन्द्रस्तत्रस्थाः खेचरा यदि। क्रूरसौम्यैर्वि-[Page2833-b+ 38] मिश्रैश्च तद्दिने वृष्टिरुत्तमा। एवमृक्षांशसंयोगोजायते यदि खेचरैः। तत्र काले महावृष्टिर्य्यावत्तस्यांशके शशी। केवलैः सौम्यपापैर्वा ग्रहैर्विद्धो यदाशशी। तदा तु तुच्छपानीयं दुर्द्दिनं तु भवेद्ध्रुवम्। यस्य ग्रहस्य नाडीस्थश्चन्द्रमास्तद्ग्रहेण च। दृष्टोयुक्तः कंरोत्यम्भो यदि क्षीणोन जायते। पीयूषनाडीगश्चन्द्रस्तत्र खेटाः शुभाशुभाः। त्रिचतुःपञ्चपानीयंदिनान्येकत्रिसप्तकम्। एवं जलाख्यनाडीस्थे चन्द्रेमिश्रग्रहान्विते। दिनार्द्धं दिवसं पञ्च दिनानि जायतेजलम्। नीरनाडीस्थिते चन्द्रे तत्रस्थैः पूर्ववद्-ग्रहैः। यामं दिनार्द्धकं त्रीणि दिनानि जायते जलम्। अमृतादित्रये यत्र भवन्ति सर्वखेचराः। तत्र वृष्टिःक्रमाज्ज्ञेया धृत्यर्करसवासरान्। सौम्यनाडीगताःसर्वे वृष्टिदास्ते दिनत्रयम्। शेषनाड्यां महावातदुष्टवृष्टिप्रदा ग्रहाः। निर्जला जलदानाडी भवेद्योगेशुभाधिके। क्रूराधिक्रसमायोगे जलदा ऽप्यम्बुवाहिका। एकनाडीसमारूढौ चन्द्रमोधरणीसुतौ। यदि तत्रभवेज्जीवस्तदा वारिमयी मही। याम्यनाडीगताःक्रूरा अनावृष्टिप्रसूचकाः। शुभयुक्ता जलाख्यास्था-स्तेऽतिवृष्टिप्रदायकाः। बुधशुक्रौ यदैकत्र गुरुणा चसमन्वितौ। चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा। जलयोगसमायाते यदा चन्द्रसितौ ग्रहौ। क्रुरैर्दृष्टौ युतौ वापि तदा मेघोऽल्पवृष्टिदः। उदयास्तमिते मार्गे चक्रे युक्ते च संक्रमे। जलनाडीगताः स्वेटामहावृष्टिप्रदामताः”।
“प्रावृषि शीतकरो भृगुपुत्रात्सप्तमराशिगतः शुभदृष्टः। सूर्य्यसुतान्नवपञ्चमगोवा सप्त-मगश्च जलागमनाय”। क्वचित् पाठान्तरम्।

६२ संवत्सरचक्रम्--
“चक्रं सांवत्सरं वक्ष्ये यदुक्तं कौ-शलागमे। येन विज्ञायते सम्यग्वर्षे वर्षे शुभाशुभम्। द्वादशारं लिखेच्चक्रं तत्र मेषादिराशयः। संस्थाप्याःक्रमयोगेण मीनान्ताः सव्यमार्गगाः। तत्र चक्रे स-मालेख्या मेषादिराशिमार्गगाः। प्रभवाद्यव्दमेकैकंषष्टिपञ्चप्रवर्त्तनैः। एकराशौ स्थितो यत्र वत्सरो-वर्त्तमानकः। तद्राशिस्थं फलं वीक्ष्य यत्किञ्चित् वार्षिकंमतम्। चैत्रे या प्रतिपच्छुक्ला तस्याः काले प्रवेशयेत्। एतद्विलोकयेच्चक्रं कालज्ञानविनिश्चिये। तत्र सप्त ग्रहा-णस्य राशौ यो यत्र संस्थितः। वर्षे राशौ विचिन्त्या-स्ते रेखास्थानगता ग्रहाः। उपचयेषुगता, क्रूराः सौम्या[Page2834-a+ 38] श्छिद्रान्त्यवर्ज्जिताः। ग्रहरेखाप्रदाज्ञेया मित्र-मध्यस्थिता ग्रहाः। स्वर्क्षे द्विघ्नं फलं दत्ते स्वोच्चे त्रिघ्नंतथैव च। फलार्द्धं शत्रुगेहस्थो नीचस्थो निष्फलो-ग्रहः। एवं रेखाप्रमाणेन वर्षविंशोपका मताः। ज्ञातव्या-दिशि केन्द्रेण वर्षे वर्षे प्रयत्नतः। एवं वर्षफलं प्रोक्तं चैत्र-मासाद्यवासरात्। आषाडे कार्त्तिकेऽप्येवं जलं धान्यंविचिन्तयेत्। ननु देशे पुरे ग्रामे फलं भिन्नं प्रदृश्यते। तस्मात् तत्कारणं वाच्यं येन जानन्ति साधकाः। दे-शादिराशिनाथस्य यो रेखादायको ग्रहः। मित्रोदासीनशत्रुत्वे फलं भिन्नं करोति सः। मित्रं द्विघ्नं फलंदत्ते समः साम्यं करीति च। शम्रुः सर्व्वहरोज्ञेयःसर्वदा कालचिन्तकैः। एवं विचार्य्य कर्त्तव्या कालविंशोपकाबुधैः। तथा पानीयधान्यानां स्वकाले चविचिन्तयेत्”।

६३ स्थानचक्रम्--
“स्थानचक्र प्रवक्ष्यामि यदुक्त लम्पटा-गमे। येन विज्ञायते सम्यक् स्थाने स्थाने शुभाशुभम्। स्थानपोडाप्रभावेण राज्ञां पीडा प्रजायते। तस्मादपी-डिते स्थाने स्थातव्यं सर्व्वदा बुधैः। स्थाननामोद्भवंराशिं कृत्वादौ द्वादशारके। राशिमण्डलकं न्यस्य वाम-मार्गेण संस्थितम्। तत्र नव ग्रहा स्थाप्याः मासचन्द्रःस्वराशिभे। तेषां विलोकनं वीक्ष्य स्थानराशिगतायथा। तृतीयैकादशे पादं द्विपादं व्योमबन्धुगे

१० ।

४ । त्रिकोणे

५ ।

९ । त्र्यङ्घ्रिमूर्त्त्यस्ते

१ ।

७ । पूर्णं पश्यन्ति खेचराः। शन्यर्क्कराहुकेत्वाराः पञ्च क्रूरा ग्रहा मताः। शेषं चतुष्टयंसौम्यं मासेन्दुश्चापि पञ्चमः। एवं पञ्च ग्रहाः क्रूराःपञ्च सौम्यास्तथैव च। तेषां शुभाशुभाम् दृष्टिं ज्ञात्वास्थानवलं वदेत्। एकैकग्रहजा दृष्टिः पूर्णपादचतुष्ट-यम्। पञ्चमे लापकैस्तेषां पादानां विंशतिर्भवेत्। तत्र विंशोपकाज्ञेया सौम्यक्रूरहोद्भवाः। एवं प्र-साधयेद्दृष्टिं युग्मं मानं शुभाशुभम्। बह्वी स्तोकोनिताशेषा जायते दृक्शृभाशुभा। ते च विंशोपकास्तस्यस्थानस्य बलनिर्णये। एवं देशेपुरे ग्रामे बलं यत्र शुभा-धिकम्। तत्र स्थाने स्थितोराजा दुष्टारिष्टैर्न्न पीड्यते। स्थानबलप्रभावेण स्वबलस्य बलोदयः। शत्नुसैन्यं क्षयंयाति यावत्स्थाने शुभे स्थितः। एतानि सर्व्वचक्राणिज्ञात्वा युद्धं समारभेत्। जयेदिह न सन्देहः शक्र-तुल्योऽपि भूभुजि”। ऐतेषां त्रिषष्टिसंख्याकत्वेऽपि अवा-न्तरचक्रसंख्याभेदेन चतुरशीतिसंख्यापूरणम्। [Page2834-b+ 38] अङ्गशब्दे

७३ पृ॰ दर्शितानि
“तथाचान्तरचक्रं च मृन-चक्रं तथैव च। श्वचक्रं वातचक्रञ्च चक्राङ्गेषुचतुष्टयम्” गर्गोक्तानि च चत्वारि चतुषष्ट्यङ्गज्योतिष-मध्ये अन्तरादिचक्राणि यान्ति तत्र चान्तरचक्रं वृ॰ सं॰

८७ अ॰ उक्तं यथा
“ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति। शकुनिः पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम्। तदनन्तर-दिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च। आयुधधनपूगफलागमस्तृतीये भवेद्भागे। स्निग्धद्विजस्य सन्दर्शनंचतुर्थे तथाहिताग्नेश्च। कोणेऽनुजीविभिक्षुप्रद-र्शनं कनकलोहाप्तिः। याम्ये त्वाद्ये नृपपुत्रदर्शनं सि-द्धिरभिमतस्याप्तिः। परतः स्त्रीधर्म्माप्तिः सर्षपयवलब्धिर-प्युक्ता। कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य। यद्वातद्वा फलमपि यात्रायां प्राप्तुयाद्याता। यात्रासिद्धिःप्रथमदक्षिणेन शिखिमहिषकुक्कटाप्तिश्च। याम्याद्वितीय-भागे चारणसङ्गः शुभं प्रीतिः। ऊर्ध्वं सिद्धिः कैवर्त्त-सङ्गभो मीनतित्तिराद्याप्तिः। प्रव्रजितदर्शनं तत्परे चपक्वान्नफललब्धिः। नैरृत्यां स्त्रीलाभस्तुरगालङ्कारदूतलेखाप्तिः। परतोऽस्य चर्मतच्छिल्पिदर्शनं चर्म्ममयलब्धिः। वानरभिक्षुश्रमणावलोकनं नैरृतीतृतोयांशे। फलकुसुम-दन्तघटितागमश्च कोणाच्चतुर्थांशे। वारुण्यामर्णवजात-रत्नवैदूर्य्यमणिमयप्राप्तिः। परतोऽतः शवरव्याधचौर-सङ्गः पिशितलब्धिः। परतो ऽपि दर्शनं वातरोगिणांचन्दनागुरुप्राप्तिः। आयुधपुस्तकलब्धिस्तद्वृत्तिसमागम-श्चोर्ध्वम्। वायव्ये फेनकचामरौर्णिकाप्तिः समेति का-यस्यः। मृण्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डा-नाम्। वायव्याद्यतृतीये मित्रेण समागमो धनप्राप्तिः। वस्त्राश्वाप्तिरतः परमिष्टसुहृत्सम्प्रयोगश्च। दधितण्डल-लाजानां लब्धिरुदग्दर्शनं च विप्रस्य। अर्थावाप्तिरन-न्तरमुपगच्छति सार्थवाहश्च। वेश्यावटुदाससमागर्मः परेशुष्कपुष्पफललब्धिः। अतः परं चित्रकरस्य दर्शेनंवस्त्रसम्प्राप्तिः। ऐशान्यां देवलफोपसङ्गमो धान्यरत्न-पशुलब्धिः। प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि ब-न्धक्या। रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः। हस्त्युपजीविसमाजश्चास्माद्धनहस्तिलब्धिश्च। द्वात्रिंशत् प्रविभक्तं दिक्चक्रं वास्तुबन्धनेऽप्युक्तम्। अरनाभिस्थैरन्तः फलानि नवधा विकल्प्यानि। ना-भिस्थे बन्धुसुहृत्ससागमस्तुष्टिरुत्तमा भवति। प्रागूक्त[Page2835-a+ 38] पट्टवस्त्रागमस्त्वरे नृपतिसंयोगः। आग्नेये कौलिक-तक्षपारिकर्माश्वसूतसंयोगः। लब्धिश्च तत्कृतानां द्रव्या-णामश्वलब्धिर्वा। नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणेयोऽरः। धार्म्मिकजनसंयोगस्तत्र भवेद्धर्मलाभश्च। उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः। वृषभस्यचात्र लब्धिर्माषकुलत्थाद्यमशनं च। अपरस्यां दिशि योऽरस्तत्रासक्तिः कृषीवलैर्मवति। सामुद्रद्रव्यसुसारकाचफल-मद्यलब्धिश्च। भारवहतक्षभिक्षुकसन्दर्शनमपि च वायु-दिक्संस्थे। तिलककुसुमस्य लब्धिः सनागपुन्नागकुसु-मस्य। कौवेर्य्यां दिशि शकुनः शान्तायां वित्तलाभमा-ख्याति। भागवतेन समागममाचष्टे पीतवस्त्रैश्च। ऐशाने व्रतयुक्तवनितासन्दर्शनं समुपयाति। लब्धिश्चपरिज्ञेया कृष्णायोवस्त्रघण्टानाम्। याम्येऽष्टांशे प-श्चाद्द्विषट्त्रिसप्ताष्टमेषु मध्यफला। सौम्येन च द्वितीयेशेषेष्वतिशोभना यात्रा। अभ्यन्तरे तु नाभ्यां शुभफलदाभवति षट्सु चारेषु। वायव्यानैरृतयोरुभयोः क्लेशा-वहा यात्रा। शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि। ऐन्द्र्यां भयं नरेन्द्रात् समागमश्चैवशत्रूणाम्। तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णका-राणाम्। अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च। अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः। कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः। प्रम-दागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च। हैरण्यकका-रुकयोः प्रध्वंसः शस्त्रकोपश्च। अथ पञ्चमे नृपभयंमारीमृतदर्शनं च वक्तव्यम्। षष्ठे तु भयं ज्ञेयं गन्ध-र्वाणां सडोम्बानाम्। धीवरशाकुनिकानां सप्तमभागेभयं भवति दीप्ते। भोजनविघात उक्तो निर्ग्रन्थिभयंच तत्परतः। कलहो नैरृतभागे रक्तस्रावो ऽथ शस्त्र-कोपश्च। अपराद्ये चर्मकृतं विनश्यति चर्मकारसुभयम्। तदनन्तरे परिव्राट्श्रमणभयं तत्परे त्वनशनभयम्। वृष्टिभयं बारुण्यां श्वतस्कराणां भयं परतः। वायुग्र-स्ते विनाशः परे परे शस्त्रपुस्तवार्त्तानाम्। कोणे पुस्तक-नाशः परे विषस्तेन वायुभयम्। परतो वित्तविनाशोमित्रैः सह विग्रहश्च विज्ञेयः। तस्यासन्नेऽश्वबधोभयमपि च पुरोधसः प्रोक्तम्। गोहरणशस्त्रघाता-वुदक् परे सार्थघातधननाशौ। आसन्ने च श्वभयं व्रात्य-द्विजदासगणिकानाम्। ऐशानस्थासन्ने चित्राम्बरचित्र-कृद्भयं प्रोक्तम्। ऐशाने त्वग्मिभयं दूषणमप्युत्तमस्त्री-[Page2835-b+ 38] णाम्। प्रोक्तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च। भयमूध्वं रजकानां विज्ञेयं काच्छिकानां च। हस्त्या-रोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ। अभ्य-न्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे। शस्त्रानलप्रकोपा-वाग्नेये वाजिमरणशिल्पिभयम्। याम्ये धर्मविनाशःपरेऽग्न्यवस्कन्दचोक्षबधाः। अपरे तु कर्मिणां भय-मथ कोणे चानिले खरोष्ट्रबधः। अत्रैव मनुष्याणांविसूचिकाविषभयं भवति। उदगर्थविप्रपीडा दिस्यै-शान्यां तु चित्तसन्तापः। ग्रामोणगोपपीडा तत्र चनान्या तथात्मवधः”।

२ मृगचक्रं वृ॰ स॰

९२ अ॰ यथा
“सीमागता वन्यमृगा रुवन्तः स्थिता व्रजन्तोऽथ समा-पतन्तः। सम्प्रत्यतीतैष्यभयानि दीप्ताः कुर्वन्ति शून्यंपरितो भ्रमन्तः। ते ग्राम्यसत्वैरनुवाश्यमाना भयायरोधाय भवन्ति वन्यैः। द्वाभ्यामपि प्रत्यनुवाशितास्तेवन्दिग्रहायैव मृतौ भवन्ति। वन्ये सत्वे द्वारसंस्थेपुरस्य रोधो वाचः सम्प्रविष्टे विनाशः। सूते मृत्युः,स्याद्भयं संस्थिते च गेहं याते बन्धनं सम्प्रदिष्टम्। ”

३ श्वचक्रं वृ॰ स॰

८९ अ॰
“नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्च यच्छत्रशया-सनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशंयदा श्वावमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रकेगोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे गौडिकामोदकावा-प्तिरेवाथ वा। अथ विषतरुकण्टकीकाष्ठपाषाणशुष्कद्रुमा-स्थिश्मशानानि मूत्र्यावहत्याथवा यायिनो ऽग्रेसरोऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभि-न्नानि वा मूत्रयत् कन्यकादोषकृद् भुज्यमानानि चेद्दुष्टतांतद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणे वर्णजःसङ्करः। गमनमुखमुपानहं सम्प्रगृह्योपतिष्ठेद्यदास्यात्तदा सिद्धये मांसपूर्णाननेऽर्थाप्तिरार्द्रोण चास्थ्नाशुभं साग्न्यलातेन शुष्केण चास्थ्ना गृहीतेन मृत्युःप्रशान्तील्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादि-वक्त्रे भुवो ह्यागमो वस्त्रचौरादिभिर्व्यापदः केचिदाहुःसवस्त्रे शुभम्। प्रविशति तु गृहं सशुष्कास्थिवक्त्रेप्रधानस्य तस्मिन् बधः शृङ्खलाशीर्णवल्लीबरत्रादि वा बन्ध-नं चोपगृह्योपतिष्ठेद्यदा स्यात्तदा बन्धनंलेढि पादौ विधु-न्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोध-स्तथा स्वाङ्गकण्डूयने स्यात् स्वपंश्चोर्ध्वपादः सदा दो-[Page2836-a+ 38] षकृत्। सूर्य्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्येंयदि सारमेयः। एको यदा वा बहवः समेताः शंसन्तिदेशाधिपमन्यमाशु। सूर्योन्मुखः श्वाऽनलदिक्स्थितश्चचौरानलत्रासकरोऽचिरेण। मध्याह्नकाले ऽनलमृत्यु-शंसी सशोणितः स्यात्कलहो ऽपराह्णे। रुवन्दिनेशाभि-मुखो ऽस्तकाले कृषीवलानां भयमाशु धत्ते। प्रदोष-कालेऽनिलदिङ्मुखस्तु धत्ते भयं मारुततस्करोत्थम्। उदङ्मुखश्चापि निशार्धकाले विप्रव्यथां गोहरणं चशास्ति। निशावसाने शिवदिङ्मुखश्च कन्याभिदूषानल-गर्भपातान्। उच्चैःस्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मो-त्तमसंस्थिता वा। वर्षासु वृष्टिं कथयन्ति तीव्रामन्यत्रमृत्युं दहनं रुजश्च। प्रावृट्कालेऽवग्रहे ऽम्भोऽवगाह्यप्रत्यावृत्तै रेचकैश्चाप्यभीक्ष्णम्। आधुन्वन्तो वा पिबन्तश्चतोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात्। द्वारे शिरो न्यस्यबहिः शरीरं रोरूयते श्वा गृहिणीं विलोक्य। रोगप्रदःस्यादथ मन्दिरान्तर्बहिर्मुखः शंसति बन्धकीं ताम्। कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा। गोष्ठमुत्किरति गोग्रहं वदेद्धान्यलब्धिमपि धान्यभूमिषु। एकेनाक्ष्णा साशुणा दीनदृष्टिर्मन्दाहारो दुःखकृत्तद्गृ-हस्य। गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यंचाभिधत्ते मुदं च। वामं जिघ्रेज्जानु वित्तानमायस्त्रीभिः साकं विग्रहो दक्षिणं चेत्। ऊरुं वामं चेन्द्र-यार्थोपभोगाः सव्यं जिघ्रेदिष्टमित्रैर्विरोधः। पादौजिथ्रेद्यायिनश्चेदयात्रां प्राहार्थाप्तिं वाञ्छितां निश्चलस्य। स्थानस्थस्योपानहौ चेद्विजिथ्रेत् क्षिप्रं यात्रां सारमेयःकरोति। उभयोरपि जिघ्रतीह बाह्वोर्बिज्ञेयो रि-पुचौरसम्प्रयोगः। अथ गोपायति भस्मनि स्वभक्षान् मां-सास्थीनि च शीघ्रमग्निकोपः। ग्रामे भषित्वा च बहिःश्मशाने भषन्ति चेदुत्तमपुंविनाशः। यियासतश्चाभि-मुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम्। उकारवर्णेन रुते ऽर्थसिद्धिरोकारवर्णेन च वामपार्श्वे। व्याक्षेपमौकाररुतेन विद्यान् निषेधकृत्सर्वरुतैश्च पश्चात्। स्वङ्खेति चोच्चैश्च मुहुर्मुहुर्ये रुवन्ति दण्डैरिब ताड्य-मानाः। श्चानो ऽभिधावन्ति च मण्डलेषु ते शून्यतांमृत्युभयं च कुर्य्युः। प्रकाश्य दन्तान् यदि लेढि सृक्विणीतदाऽशनं मिष्टमुशन्ति तद्विदः। यदाननं चावलिहेन्नसृकिणी प्रवृत्तभोज्येऽपि तदान्नविघ्रकृत्। ग्रामस्य मध्येयदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये। ते क्लेश-[Page2836-b+ 38] माख्यान्ति तदीश्वरस्य श्वारण्यसंस्थो मृगवद्विचिन्त्यः। वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्यपीडा। वायोर्गृहे शस्यभयं गृहान्तः पीडा पुरस्यैवच गोपुरस्थाः। भय च शय्यासु तदीश्वराणां याने भषन्तोभयदाश्च पश्चात्। अथापसव्या जनसन्निवेशे भयं भषन्तःकथयन्त्यरीणाम्”।

४ अनिलचक्रञ्च अनिलशब्दे

१६

६ पृ॰ दर्शितम्। व्यूहश्चात्रचक्राकारः स च द्रोणेनाभिमन्युबधपर्व्वणि कृतः।
“चक्रव्यूही महाराज! ह्याचार्य्येणाभिकल्पितः” भा॰द्रो॰

३४ अ॰। इत्यादिनोक्तः। यन्त्ररूपचक्राणि यन्त्रशब्देवक्ष्यन्ते। तत्र राष्ट्रे
“स्वचक्रं परचक्रञ्च” इति-कथने एतद्दच्छव्दे अनुपदं दर्शितवाक्ये। समूहे
“भूरेणवो नभसि नङ्धपयोदचक्रम्” माघः।
“दिक्-चक्रमाक्रामति” मृच्छ॰। सुदर्शनाख्ये राष्ट्रे च।
“अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया” माथः।
“न चक्रमस्याक्रमताधिकन्धरम्” माघ। चक्रवाके।
“तव तन्वि! कुचावेतौ नियतं चक्रव-र्त्तिनौ” उद्भटः। कुम्भकारचक्रे चक्रवाके च।
“कलसेनिजहेतुदण्डजः किमु चक्रभ्रमिकारितागुणः। स तदु-च्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्” नैष॰। राशिचक्रे
“त्रिंशत्कृत्यो युगे भानां चक्र प्राक्प्रविल-म्बते” सू॰ सि॰।
“रवेश्चक्रभोगोऽर्कवर्षं प्रदिष्टम्” सि॰शि॰।

२० मण्डलाकारे रेखाविन्यासभेदे
“चक्रेसचक्रनिभचङ्क्रमणच्छलेन”
“वितत्य वात्यामयचक्रचङ्क्रमान्” नैष॰।
“शालग्रामशिलाचक्रम् गोमती-चक्रम्” एकद्वारे चतुश्चक्रं वनमालाविभूषितम्” शाल-ग्रामशब्दे दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=अथार्घं&oldid=196906" इत्यस्माद् प्रतिप्राप्तम्