अदृष्ट

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टम्, क्ली, (न दृष्टं नञ्समासः ।) अग्निजलादि- द्वारा जातं भयं । इत्यमरः ॥ जन्मान्तरीय- संस्कारः । भाग्यं । यथा । “अदृष्टमप्यर्थमदृष्ट- वैभवात् करोति सुप्तिर्जनदर्शनातिथिं ॥ इति श्रीहर्षः ॥ तत्तु आत्मनोऽतीन्द्रियगुणः । इदं वासनाजन्यं । तत्त्वज्ञाननाश्यं । भोगनाश्यञ्च । धर्म्माधर्म्मभेदेन तत् द्विविधं । धर्म्मस्तु स्वर्गादि- कारणं । गङ्गास्नानयागादिजन्यः । कर्म्मनाशाज- लादिस्पर्शनाश्यश्च । अधर्म्मस्तु नरकादिकारणं । प्रायश्चित्तादिनाश्यश्च । इति भाषापरिच्छेदः ॥

अदृष्टः, त्रि, (न दृष्टः ।) अकृतदर्शनः । अवीक्षितः । “अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता” । इति रसतरङ्गिण्यां भानुदत्तः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्ट नपुं।

अग्न्यादिकृतभयम्

समानार्थक:अदृष्ट

2।8।30।1।1

अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्. महीभुजामहिभयं स्वपक्षप्रभवं भयम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्ट¦ न॰ दृश--क्त न॰ त॰। पुण्या{??}ण्यरूपे भाग्ये[Page0116-a+ 38] इन्द्रियायोग्यत्वात् तस्यादृष्टत्वम्। अदृष्टसत्त्वे प्रमा-णञ्च।
“सापेक्षत्वादनादित्वात् वैचित्र्यात् विश्व-वृत्तितः। प्रत्यात्मनियमात् भुक्तेरस्ति हेतुरलौकिक” इति
“चिरध्वस्तं फलायालं न कर्म्मातिशय विनेति” चेतिकुसु॰। अस्याभिप्रायः। इह हि जगति उच्चावचविचित्राः सुखदुःखानुभवरूपा भोगाः प्रत्यात्मवेदनीयाः, तेच न नित्या उत्पत्तिविनाशशालित्वात् अतएव न सदातनाःकिन्तु कादाचित्का एव, सति च तेषां कादाचित्कत्वेहेतुसापेक्षत्वमेव तथा हि विमता भोगव्यक्तयः हेतुसापेक्षाःकादाचित्कत्वात् घटवत्। यद्यत् कादाचित्कं तत्तत् हेतु-सापेक्षं यथा घटः भवन्ति च भोगव्यक्तयः कादाचित्काःतस्मात् हेतुसापेक्षा इति पञ्चावयवन्यायेन भोगानां हेतु-सापेक्षत्वसिद्धिः स च हेतुः न लौकिकप्रत्यक्षादिविषयःकश्चित् सम्भवति तदन्वयव्यतिरेकाभावात् न च कालस्यैवतद्धेतुत्वेनार्थान्तरापातः। कालस्य साधारणकारणतयाचिवित्रभोगं प्रत्यनियामकत्वात् अन्यथा कालस्यैकरूपतयासर्बदा सर्वभोगप्रसङ्गः। एतेन तत्तत्कालत्वेन कारणता-कल्पनेऽपि न निस्तारः तत्तत्कालव्यक्तीनां पुरुषमात्रसा-धारण्येन प्रत्यात्मविचित्रभोगोपपादकत्वानुपपत्तेः। अतोविचित्रभोगान्यथानुपपत्त्या तदाधायकमलौकिकं कारणं यत्कल्पनीयं, तदेवादृष्टम्। एवमनुमानेन आगमप्रामाण्या-नभ्युपगन्तॄन् प्रति अलौकिकादृष्टसाधनम्। आगमेन तुतत्सिद्धिरेवमभियुक्तैरभ्युपेता
“स्वर्गकामो यजेतेति” वाक्ये समभिव्याहृतस्वर्गसाधनत्वं यागे विधिप्रत्ययेनबोध्यते तच्च न सम्भवति, स्वर्गादेः कालान्तरभावितयाआशुविनाशिनो यागादेस्तदानीमसत्त्वेन कारणत्वासम्भवात्अतो विधिबोधितं यागादेरिष्टसाधनत्व फलकालपर्य्यन्त-स्थायिस्वजन्यव्यापारं विनानुपपन्नमित्यनुपपत्तिज्ञानेन द्वारी-भूतमपूर्ब्बं कल्प्यते। तदमिप्रायेणैव चिरध्वस्तमित्याद्युक्तम्। अतएव
“पौरुषं दैवसम्पत्त्या काले फलति पार्थिव!। त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहमिति” शास्त्रान्तरे कार्य्यजननसामग्र्यां दैवपदाभिधेयापूर्ब्बस्यकीर्त्तनम्। तच्चादृष्टं द्विविधं पुण्यं पापञ्च विहिता-नुष्ठानजन्यं पुण्यं, निषिद्धानुष्ठानजन्य पापम्, तदु-भयमपि त्रिविधं, प्रारब्धं फलदानोन्मुखं सञ्चित ञ्चेति। देहाद्यारम्भकमदृष्टं प्रारब्धं, बहूनामदृष्टानां चिरसञ्चितानांमध्ये फलविपाकाय उन्मुखं फलदानोन्मुखं, तद्भिन्नं सञ्चि-तम्। तत्र
“ये समर्था जगत्यस्मिन् सृष्टिसंहारकारकाः। [Page0116-b+ 38] तेऽपि कालेन लीयन्ते इति” शास्त्रात्
“कलनात् सर्वभूतानांकाल इत्यभिधीयते” इत्युक्तेश्च कालस्य सर्वनाशकत्वेऽपिनादृष्टनाशकत्वम्
“नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपीति” शास्त्रान्तरात् किन्तु भोगादेव क्षयः। तथा पुण्यस्य कर्म्म-नाशाजलस्पर्शादितोऽपि नाशः, पापस्य प्रायश्चित्ता-दिना नाशः। प्रारब्धातिरिक्तपुण्यापुण्यकर्म्मणां तत्त्वज्ञानात्नाशः।
“ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्जुनेति” गीतादिशास्त्रात्। इदमदृष्टं वेदान्तिभिर्न्नानुमन्यते तैर्हिकर्म्मणः सूक्ष्मावस्थापन्नसंस्कारविशेष एवादृष्टस्थानीयत-याङ्गीक्रियते इति भेदः। तच्चानुशयशब्दे विस्तरतो वाच्यम्। तच्चादृष्टमात्मधर्म्म इति नैयायिका वैशेषिकादयश्चाभ्युप-गच्छन्ति। वेदान्तिसाङ्ख्यपातञ्चलास्तु बुद्धिधर्म इति भेदः। तेषां मते हि कर्त्तृत्वस्य बुद्धिधर्म्मतया
“शास्त्रदेशितं फल-मनुष्ठातरोति” न्यायांत् तत्रैवादृष्टोत्पत्तेरुचितत्वम् अन्य-कृतकर्म्मणा अन्यस्यादृष्टोत्पत्तौ अतिप्रसङ्गात्
“कृतहाना-कृताभ्यागमप्रसङ्गश्चेति” सूत्रेण च तथैव प्रतिपादितत्वादधिक-माकरे द्रष्टव्यम्। अस्य च अदृष्टशब्दवाच्यत्वे
“प्रत्यक्ष-मनिमित्तं विद्यमानोपलम्भनत्वादिति” जैमिनिसृत्रंमानम्। तस्यायमभिप्रायः
“नोदनालक्षणोऽर्थोधर्म्म” इति धर्म्मे वेदैकसमधिगम्यत्वमुपक्षिप्तं तस्य द्रढीकर-णार्थमिदं सूत्रं प्रवृत्तम्।
“अनुष्ठानादूर्द्ध्वमुत्पद्यमानस्यधर्म्मस्य पूर्ब्बमविद्यमानत्वात् न प्रत्यक्षयोग्यतास्ति उत्तर-कालेऽपि रूपादिराहित्यान्नेन्द्रियैरवगम्यता। अतएवा-दृष्टमिति सर्वैरभिधीयते” इति ऋ॰ भाष्यम्। सूत्रार्थस्तुप्रत्यक्षं चक्षुरादि न तद्ग्रहणे निमित्तं तेषां विद्यमानो-पलम्भहेतुत्वात् धर्म्मस्य च प्राक् अविद्यमानत्वात्। लिङ्ग-राहित्याच्च नानुमानविषयत्वमप्यस्ति। सुखदुःखयोस्तद्गमक-त्वेन लिङ्गत्वसम्भवेऽपि तयोर्लिङ्गत्वज्ञानमपि वेदैकगम्यं,
“कस्य कर्म्मणः? किं फल? मित्यध्यवसायस्य वेदैकसमधि-गम्यत्वात् सुखदुःखाभ्यां सामान्येन धर्म्माधर्म्ममात्रानुमाने-ऽपि तद्विशेषप्रतिपत्तौ वेदस्यैव साधनत्वादिति प्रतिज्ञातंधर्म्मस्य नोदनामातप्रमाप्रकत्वं सुस्थितमिति। दृष्टभिन्नेत्रि॰
“सर्वमदृष्टं शुचीति” स्मृत्यन्तरम्।
“अदृष्टमप्यर्थ-मदृष्टवैभवात् करोति सुप्तिर्जनदर्शनातिथिमिति” नैष॰। अज्ञातमात्रे त्रि॰।
“अदृष्टविरहव्यथमिति”। हितो॰।
“अदृष्टमद्भिर्निर्णिक्तमिति” स्मृतिः
“अदृष्टमुपघातशङ्काभि-रज्ञातमिति” रघु॰। अदृष्टहेतुके भयादौ च। दैवि-काग्निभयादेरदृष्टसाध्यत्वाददृष्टत्वम्। [Page0117-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्ट¦ n. (-ष्टं)
1. Casual and unseen danger, (as from conflagration, inundation, &c.)
2. Fortune, destiny, fate.
3. (In logic) Virtue or vice, as the eventual cause of pleasure or pain. mfn. (-ष्टः-ष्टा-ष्टं)
1. Unseen, unforeseen.
2. Unknown, unfelt. not experienced. E. अ neg. and दृष्ट seen.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्ट [adṛṣṭa], a.

Invisible, not seen; ˚पूर्व not seen before.

Not known or experienced, not felt; ˚विरहव्यथम् H.1.125.

Unforeseen, not observed or thought of; unknown, unobserved. तस्माददृष्टं त्वां भयमागमिष्यति Mb. 1.3.9.

Not-permitted or sanctioned, illegal; न चादृष्टां (वृद्धिं) पुनर्हरेत् Ms.8.153. -ष्टः N. of some venomous substance or vermin.

ष्टम् The invisible one.

Destiny, fate, luck (good or bad); दैवमिति यदपि कथयसि पुरुषगुणः सो$यदृष्टाख्यः Pt.5.3.

Virtue or vice as the eventual cause of pleasure or pain. (Fate is supposed to be the result of good or bad actions done in one state of existence and experienced in another, the performance of good deeds being rewarded with residence in Heaven, and of bad deeds, visited with condemnation to Hell; धर्माधर्मावदृष्टं स्यात् धर्मः स्वर्गादि- साधन...अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः Bhāṣā P.161-2. The Vedāntins do not recognize अदृष्ट or luck; तैर्हि कर्मणः सूक्ष्मावस्थापन्नसंस्कारविशेष एव अदृष्टस्थानीयत्वेनाङ्गीक्रियते; अदृष्टम् आत्मदर्म इति नैयायिका वैशेषिकादयश्च, सांख्यपातञ्जलास्तु बुद्धिधर्म इत्यम्युपगच्छन्ति Tv.)

An unforeseen calamity or danger (such as from fire, water &c.) -Comp. -अर्थ a. [ब.] having a metaphysical or occult meaning, metaphysical; having an object not evident to the senses. -कर्मन् a. one who has had no practice or practical experience, not practical, inexperienced; कर्म- स्वदृष्टकर्मा यः शास्त्रज्ञो$पि विमुह्यति H.3.54. -कल्पना Supposition of an invisible object or idea. दृष्टे सत्यदृष्टकल्पना$- न्याय्या -नरः, -पुरुषः one of the 2 ways of peace-making, in which no third person is seen, said of a treaty concluded by the parties themselves without a mediator यत्र शत्रुः पणं कुर्यात्सो$दृष्टपुरुषः स्मृतः H.4.119. -फल a. [ब.] that of which the consequences are not yet visible. (लम्) the (future) result of good or bad actions; the result or consequence hidden in the future. -हन् a. destroying poisonous vermin (?).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्ट/ अ-दृष्ट mfn. or अ-दृष्ट[ S3Br. ]unseen , unforeseen , invisible , not experienced , unobserved , unknown , unsanctioned

अदृष्ट/ अ-दृष्ट m. N. of a particular venomous substance or of a species of vermin AV.

अदृष्ट/ अ-दृष्ट n. unforeseen danger or calamity , that which is beyond the reach of observation or consciousness , (especially the merit or demerit attaching to a man's conduct in one state of existence and the corresponding reward or punishment with which he is visited in another)

अदृष्ट/ अ-दृष्ट n. destiny , fate: luck , bad luck.

"https://sa.wiktionary.org/w/index.php?title=अदृष्ट&oldid=197040" इत्यस्माद् पुनः प्राप्तिः