अधम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमः, त्रि, (अव पालने + अम, वस्य धादेशः ।) न्यूनः । निन्दितः । अपकृष्टः । तत्पर्य्यायः । निकृष्टः २ प्रतिकृष्टः ३ अर्व्वा ४ रेफः ५ याप्यः ६ अवमः ७ कुत्सितः ८ अवद्यः ९ कुपूयः १० खेटः ११ गर्ह्यः १२ अणकः १३ । इत्यमरः ॥ रेपः १४ अरमः १५ अणकः १६ अनकः १७ । इति तट्टीका ॥ (या- च्ञा मोघा वरमधिगुणे नाधमे लब्धकामा । इति मेघदूते) ॥

अधमः, पुं, (अव पालने + अम, वस्य धादेशः ।) उप- पतिभेदः । तस्य लक्षणं । भयदयालज्जाशून्यत्वं । कामक्रीडाविषये कर्त्तव्याकर्त्तव्याविचारकत्वञ्च । इति रसमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधम वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।1।7

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

अधम वि।

न्यूनम्

समानार्थक:अधम

3।3।145।1।3

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ। जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधम¦ त्रि॰ अव--अम--धादेशः। कुत्सिते, हीने च।
“सर्वत्रत्रिविधा भेदा उत्तमाधममध्यमा” इति।
“अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणाना-मिति” ज्योतिषोक्ते नॄणां वित्तज्ञानादिषु अधमत्वसूचकेरविचन्द्रयोः स्थितिविशेषरूपे योगभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधम¦ mfn. (-मः-मा-मं)
1. Inferior, low.
2. Vile, despicable. E. अव to preserve, अम Una4di affix, and व changed to ध।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधम [adhama], a. 'one who does not blow.' cf. अधमः कुत्सिते न्यूने अधःस्थाध्मानयोरपि Nm.

अधम [adhama], a. [अव्-अम; अवतेः अमः, वस्य पक्षे धः Uṇ.5.54.] The lowest, vilest, meanest; very bad, or low, or vile (in quality, worth, position &c.) (opp. उत्तम); अधम- मध्यमोत्तमाः or उत्तमाधममध्यमाः &c.; शस्त्रावपाते गर्भस्य पातने- चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ Y.2.277. oft. at the end of comp.; नर˚, द्विज˚; चाण्डालश्चाधमो नृणाम् Ms.1.12 lowest in position; अधम˚ the vilest of the vile, the meanest wretch.

मः An unblushing sensualist (भयदयालज्जाशून्यः कामक्रीडाविषये कर्तव्याकर्तव्याविचारकः Śabda K.); वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् K. P.1.

A sort of योग or conjunction of planets (नृणां वित्तज्ञानादिषु अधमत्वसूचकः रविचन्द्रयोः स्थितिविशेषरूपो योगभेदः Tv.) -मा A bad mistress (हितकारिप्रियतमे$हितका- रिणी). [cf. L. infimus]. -Comp. -अङ्गम् [कर्म.] the foot (opp. उत्तमाङ्ग). -अर्धम् [कर्म.] the lower half of the body (below navel) -अर्ध्य a. [अधमार्धे भवः] connected with the lower part. -आचार a. [ब] of the vilest conduct. (-रः) (कर्म˚) the meanest conduct. -ऋणः, -ऋणिकः [अधमः अधमावस्थां प्राप्तः ऋणेन, ततः ठन्] a debtor (opp. उत्तमर्णः) (lit. reduced to a low position by his incurring debt). मन्ये$धमर्णप्रतिमेन भर्त्रे प्रत्यर्पितो$भूदशितो धनौघः । Śiva B.23.7. -भृतः, -भृतकः [कर्म.] a porter, groom, a servant of the lowest class, one of the 3 kinds of servants; उत्तमस्त्वायुधीयोत्र मघ्यमस्तु कृषीवलः । अधमो भार- वाही स्यादित्येवं विविधो भृतः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधम mfn. (See. अधर) , lowest , vilest , worst , very low or vile or bad (often ifc. , as in नरा-धम, the vilest or worst of men)

अधम m. an unblushing paramour

"https://sa.wiktionary.org/w/index.php?title=अधम&oldid=485231" इत्यस्माद् प्रतिप्राप्तम्