सामग्री पर जाएँ

अधमर्णिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्णिकः, त्रि, (अधममवश्यदेयत्वेन निन्दितं ऋणं । तदेव दातृत्वेन विद्यते अस्य । अधमर्ण + अत इनिठनाविति ठन् । तस्य इक ।) अधमर्णः । यथा, -- “ग्रहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरं ॥” इति मिताक्षरा ॥ (“यै यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकं” ॥ इति मनुः ।) ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्णिक¦ त्रि॰ अधममृणमवश्यदेयं दातृत्वेनास्त्यस्य ठन्। अधमर्णशब्दार्थे।
“ग्रहीता च क्रमाद्दाप्यो धनिनामधम-र्णिक” इति याज्ञ॰
“यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तम-र्णिकः। तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकमिति” मनुः। अस्त्यर्थे इनि। अधमर्णीत्यप्यत्रैव त्रि॰ स्त्रियां ङीप्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्णिक¦ m. (-कः) A debtor. E. अधम, and ऋण debt, with ठक् added.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधमर्णिक/ अधम--र्णिक ( ऋ) m. one reduced to inferiority by debt , a debtor.

"https://sa.wiktionary.org/w/index.php?title=अधमर्णिक&oldid=197263" इत्यस्माद् प्रतिप्राप्तम्