अधिकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकरणम्, क्ली, (अधि + कृ + अधिकरणे ल्युट् ।) एकन्यायोपपादनं । इति हेमचन्द्रः ॥ अधि- क्रियते अत्र । विषयादिपञ्चावयवविवेचनोपेत- ग्रन्थः । यथा, -- कुशलः ॥ व्याप्तिः ४ यथा तिलेषु तैलं । सकले स्थितः ॥ * ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकरण¦ न॰ अधि + कृ--ल्युट्। आधारे, व्याकरणशास्त्रे
“कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम्। उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिरणं स्मृतमिति” हरिपरिभाषितेअधिकरणसंज्ञके कर्तृकर्म्मद्वारा क्रियाश्रये कारके, यथागेहेस्थाल्यामन्नं पचतीत्यादौ गृहस्य कर्तृद्वारा, स्थाल्याश्चकर्म्मद्वारा, परम्परया पाकक्रियाश्रयत्वात्, गृहादेः।
“आधारोऽधिकरणमिति”
“सप्तम्यधिकरणे इति” पा॰। [Page0126-a+ 38] अधिकरणं च यस्य गुणादेया धर्म्मी स एव। यथा गुणकर्म-जातीनां द्रव्यम्, द्रव्यस्य च संयोगादिसम्बन्धेन द्रव्यान्तरं,तत्राधिकस्यैवाधिकरणत्वं यथा कुण्डादेर्वदरादीनामधि-करणत्वम् गृहादेर्घटादीनां, न तु वैपरीत्ये। द्रव्यादिषुगुणादेरेव, समवायेन तादात्म्येन वा मतभेदेन अधिकर-णत्वं नतु गुणादीनां द्रव्याधिकरणत्वमित्येव मन्तव्यम्। क्रियते निर्णयार्थं विचारोऽस्मिन्। पूर्ब्बोत्तरमीमांसाशास्त्र-प्रसिद्धे एकार्थप्रतिपादके विषयसंशयपूर्ब्बपक्षसिद्धान्तनिर्णयात्मकपञ्चाङ्गबोधकवाक्यसमुदाये न्याये। तथा हि
“विषयोविशयश्चैव पूर्ब्बपक्षस्तथोत्तरं निर्णयश्चेति” सिद्धान्तःशास्त्रेऽधिकरणं स्मृतमिति” मीमांसा। तत्र विचा-रार्हं वाक्यं विषयः, तस्यार्थविषये विशयः इदमित्थंन वेति विकल्पः। तत्र सन्दिह्यमानयोः पक्षयोः असत्पक्षेयुक्तिप्रदर्शनवाक्यं पूर्ब्बपक्षवाक्यं, पूर्बपक्षोक्तां युक्तिं खण्डयित्वा सत्पक्षे युक्तिप्रदर्शनवाक्यम् सिद्धान्तः। ततश्चेत्याद्यभि-लापेन सिद्धान्तसिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्यमितियथा
“स्वाध्यायोऽध्येतव्य” इत्यादिवाक्यं विचारार्थत्वेनविषयः। अत्राध्ययनमक्षरग्रहणमात्रम्? अर्थग्रहणपर्य्यन्ता-ध्ययनं? वेति संशयः। तत्र अक्षरग्रहणमात्रमध्ययनमितिपूर्ब्बपक्षः। अर्थज्ञानसहिताक्षरग्रहणमिति सिद्धान्तः। तेनविधिवाक्यस्य सार्थवेदाध्ययनमेव फलितोऽर्थ इति{??}र्णयइत्थं तत् प्रतिपादकावयवपञ्चात्मकीन्यायोऽत्रावसीयते। एव-मन्यदप्युदाहार्य्यम्। उत्तरमीमांसायामपि एतानि यथा-यथं योज्यानि विशेषस्त्वयं वेदान्ते पञ्चावयवा अन्वविधायथोक्तं माधवाचार्य्येण।
“तत्रैकैकमधिकरणं पञ्चावयवंविषयः सन्देहः सङ्गतिः पूर्ब्बपक्षः सिद्धान्तश्चेति पञ्चावयवाइति” सङ्गतिश्च
“शास्त्रेऽध्याये तथा पादे न्यायसङ्गतय-स्त्रिधा। शस्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यता” सित्यनेनसङ्गतित्रैविध्यं तेनैव दर्शितं तद्विवरणं सङतिशब्देवक्ष्यते। तत्र वेदान्ताधिकरणं यथा
“अथातो ब्रह्मजि{??}-सेति प्रथमाधिकरणम्
“अविचार्य्यं विचार्य्यं वा ब्रह्मा-ध्यासानिरूपणात्। असन्देहाफलत्वाभ्यां न विचारं तद-र्हति। अध्यासोऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम्सन्देहान्मुक्तभावाच्च विचार्य्यं ब्रह्म वेदत” इति माधवः। व्याख्यातञ्चैतत् स्वेनैव यथा
“आत्मा वा अरे द्रष्टव्यःश्रोतव्य” इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनत्वेनश्रवणं विधीयते। श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणितात्पर्य्यं निर्णेतुमनुकूलोन्यायविचारः तदेतद्विचारविधायकं[Page0126-b+ 38] वाक्य विषयः। न चाय विषयः श्लोकयोर्न संगृहीतः,सन्देहसंग्रहेणैवार्थात् तत् संग्रहप्रतीतेः ब्रह्मविचारात्मक-न्यायनिर्णयात्मकशास्त्रमनारम्भणीयमारम्भणीयं वेति स-न्देहः। पूर्बोत्तरपक्षयुक्तिद्वय सर्वत्र सन्देहवीजमुन्नेयम्। तत्रानारभ्यमिति तावत्प्राप्तं विषयप्रयोजनयोरभावात्। संदिग्धं हि विचारविषयोभवति ब्रह्मा त्वसन्दिग्धं तथा हितत् किं ब्रह्माकारेण सन्दिह्येत? आत्माकारेण? वा, नाद्यः
“सत्यं ज्ञानमनन्तंब्रह्मेति” वाक्येन ब्रह्माकारस्य निश्चयात्। न द्वितीयः अहंप्रत्ययेनात्माकारस्य निश्चयात्। अध्यासात्म-विषयत्वेन म्रान्तोऽयं प्रत्यय इति चेत् न अध्यासानिरूपणात् तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोःशुक्तिरजतवदन्योन्यतादात्म्याध्यासोन निरूपयितुं शक्यते। तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदिग्धत्वान्नविचारस्य विषयोऽस्ति। नापि प्रयोजनं पश्यामः। उक्तप्रकारेण ब्रह्मात्मनिश्चयेऽपि मुक्त्यदर्शनात् तस्माद्ब्रह्म नविचारमर्हति अतः शास्त्रमनारम्भणीयमिति पूर्बपक्षः। अत्रोच्यते। शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात्श्रुत्यहंप्रत्यययोः सन्दिग्धं ब्रह्मात्मवस्तु।
“अयमात्मा ब्रह्मेति” श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति। अहंमनुष्यैत्याद्यहबुद्धिर्देहादितादात्म्याध्यासेनात्मानं गृह्णाति, अध्यासस्य-दुर्निरूपत्वमलङ्काराय, तस्मात् संदिग्धं वस्तु विषयः तन्नि-श्चयेन मुक्तिलक्षणं प्रयोजनं श्रुत्या, विद्वदनुभवेन च सिद्धम्। तस्माद्वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्र-मारम्भणीयमिति सिद्धम् इति”। अभेदान्वयिपदार्थबोधक-तुल्यविभक्तिकशब्दे ध।
“समानाधिकरणस्तत्पुरुषः कर्म-धारय” इति पा॰। समानाधिकरणः अभेदान्वयिपदार्थ-बोधकतुल्यविभक्तिकपदघटितस्तत्पुरुषः कर्मधारय इत्यर्थः
“तादृशपदघटितत्वेनान्यपदार्थत्वे समानाधिकरणबहुव्रीहिःपीतमम्बरं यस्येति वाक्ये पीताम्बर इत्यादि। अभेदान्वयि-पदार्थबोधकभिन्नपदघटितत्वे व्यधिकरणबहुव्रीहिरिति यथापद्मं नाभौ यस्येति वाक्ये पद्मनाभः। सुश्रुतोक्तेषु द्वात्रिंश-त्तन्त्रयुक्तिषु तत्त्रयुक्तिभेदे च तन्त्रयुक्तिशब्दे तद्विवरणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकरण¦ n. (-णं)
1. Superiority, supremacy.
2. Title, right.
3. In the Mimansa philosophy, a case or topic, comprehending five members, the subject, the doubt, the first side or prima facie argument, the answer or conclusion, the application.
4. (In the Veda4nta.) A case or question.
5. (In grammar) Location, the sense of the seventh or locative case, defined to imply four kinds.
1. Proximity, as, ‘a village on the Ganges.’
2. Inclusion, as, ‘the gods in heaven.’
3. End or object, as, ‘versed in the Sa4stras; and
4. Integral existence, as, ‘the spirit is in all.’ E. अधि over, कृ to do; and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकरणम् [adhikaraṇam], [कृ-ल्युदट्]

Placing at the head of, appointing &c.

Relation, reference, connection; रामाधिकरणाः कथाः Rām. referring to.

(In gram.) Agreement, concord, government or grammatical relation (as of subject and predicate &c.); तत्पुरुषः समानाधिकरणः कर्मधारयः P.1.2.42 having the members (of the compound) in the same relation or apposition; समानाधिकरणो or व्यधिकरणो बहुर्व्रीहिः; पीताम्बरः, चक्रपाणिः &c.

A receptacle or subject, technically substratum ज्ञानाधिकरणम् आत्मा T. S. the soul is the substratum of knowledge.

Location, place, the sense of the locative case; आधारोधिकरणम् P.1.4.45; कर्तृकर्म- व्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेधिकरणं स्मृतम् ॥ Hari; as गेहे स्थाल्यामन्नं पचति.

A topic, subject; section, article or paragraph; a complete argument treating of one subject; A chapter in Kauṭilīya Arthaśāstra. e. g. प्रथमाधिकरणम् the Sūtras of Vyāsa and Jaimini are divided into Adhyāyas, the Adhyāyas into Pādas and the Pādas into Adhikara- ṇas or sections. (According to the Mīmāṁsakas a complete Adhikaraṇa consists of five members: विषय the subject or matter to be explained, विशय or संशय the doubt or question arising upon that matter, पूर्वपक्ष the first side or prima facie argument concerning it, उत्तर or उत्तरपक्ष or सिद्धान्त the answer or demonstrated conclusion, and संगति pertinency or relevancy, or (according to others निर्णय the final conclusion); विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चैति सिद्धान्तः शास्त्रे$धिकरणं स्मृतम् ॥ The Vedāntins put संगति in th 3 rd place, and सिद्धान्त last; तत्र एकैकमधिकरणं पञ्चावयवम्, विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्तश्च. Generally speaking, the five members may be विषय, संशय, पूर्वपक्ष, उत्तरपक्ष and सिद्धान्त or राद्धान्त).

Court of justice, court, tribunal; स्वान्दोषान् कथयन्ति नाधिकरणे Mk.9.3; ˚रणे च साधनम् Dk.4.

Stuff, material; विप्रतिषिद्धं चानधिकरणवाचि P.II.4.13 (अद्रव्यवाचि); अधिकरणै ˚एतावत्त्वे च P.II.4.15 fixed number of things, as दश तन्तोष्ठः Sk.

A claim, Bhāg, 5.1.16.

Supremacy.

A government department; सर्वाधिकरणरक्षणम् Kau. A.4.

A gathering place प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ । वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ Mb.12.59.68.

A department; अश्वागारान् गजागारान् बलाधिकरणानि च Mb.12. 69.54. -णी One who superintends. -Comp. -भोजकः a court-dignitary, a judge, भीतभीता अधिकरणभोजकाः Mk.9.-मण्डपः court or hall of justice. अधिकरणमण्डपस्य मार्गमादेशय Mk.9. -लेखकः a. official recorder or scribe, who drew up sale-deeds and other documents after getting the land measured in his presence; RT.VI.38. -विचालः [अधिकरणस्य विचालः अन्यथाकरणम्] changing the quantity of any thing, increasing or decreasing it so many times; ˚विचाले च P.V.3.43; द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात्; एकं राशिं पञ्चधा कुरु Sk. -सिद्धान्तः a conclusion which involves others.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकरण/ अधि-करण n. the act of placing at the head or of subordinating government , supremacy , magistracy , court of justice

अधिकरण/ अधि-करण n. a receptacle , support

अधिकरण/ अधि-करण n. a claim

अधिकरण/ अधि-करण n. a topic , subject

अधिकरण/ अधि-करण n. (in philosophy) a substratum

अधिकरण/ अधि-करण n. a subject( e.g. आत्मन्is the अधि-करणof knowledge)

अधिकरण/ अधि-करण n. a category

अधिकरण/ अधि-करण n. a relation

अधिकरण/ अधि-करण n. (in Gr. )government

अधिकरण/ अधि-करण n. location , the sense of the locative case

अधिकरण/ अधि-करण n. relationship of words in a sentence (which agree together , either as adjective and substantive , or as subject and predicate , or as two substantives in apposition)

अधिकरण/ अधि-करण n. (in rhetoric) a topic

अधिकरण/ अधि-करण n. a paragraph or minor section

अधिकरण/ अधि-करण mfn. having to superintend.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकरण न.
उन दर्भ-पत्तियों की पारिभाषिक संज्ञा जिन्हें इध्म के बन्धन रज्जु ‘इध्म-सन्नहन’ को तैयार करते समय एक रस्सी में बरने (वलयित करने के) के लिए प्रथमतया लिया जाता है, बौ.श्रौ.सू. 1.2-3; श्रौ.को. (अं.) 2 (1)

"https://sa.wiktionary.org/w/index.php?title=अधिकरण&oldid=485269" इत्यस्माद् प्रतिप्राप्तम्