सामग्री पर जाएँ

अधिकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारः, पुं, (अधि + कृ + घञ् ।) राजादीनां चामरधूननच्छत्रधारणादिव्यापारः । तत्पर्य्यायः । प्रक्रिया २ । इत्यमरः ॥ प्रकरणं । यथा नैमि- त्तिकोऽयं प्रायश्चित्ताधिकार इति मिताक्षरा ॥ स्वामित्वं । यथा “सर्व्वे स्युरधिकारिणः” इति स्मृतिः ॥ अधिकृतदेशादिः । यथा निजाधिकारः भिन्नाधिकारः इत्यादि बहवः शिष्टप्रयोगाः ॥ (यथा मनुः । -- “तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित्” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकार पुं।

राज्ञां_छत्रचामरादिव्यापारः

समानार्थक:प्रक्रिया,अधिकार

2।8।31।1।2

प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्. नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्.।

अवयव : चामरम्,राजासनम्,छत्रम्,पूर्णघटम्,सुवर्णजलपात्रम्

वैशिष्ट्य : राजा

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकार¦ पु॰ अधि + कृ--घञ। आरम्भे, यथेष्टं क्रयविक्रयादिकर्तृत्वसम्पादके स्वामित्वे,
“अधिकारः फले स्वाम्यमधि-कारी प्रभुर्भवेदिति” मीमांसोक्ते विहितकर्म्मफलस्वामित्वे,विनियोज्यपुरुषस्य सम्बन्धे, यथा याजनादिकर्मणि ब्राह्म-णादेः, राज्ञां प्रजापालनादौ, वैश्यस्य कृष्यादौ, शूद्रस्यद्विजसेवायाम्,
“नैमित्तिकोऽयं प्रायश्चित्ताधिकार” इतिमिताक्षरा। स्वामित्वे--
“सर्व्वे स्युरधिकारण” इति स्मृतिः। तत्र च वैदिकादिकर्मसु कर्त्तव्यताज्ञानाधीनप्रवृत्तिहेतुरधि-कारः। यया याजनादौ ब्राह्मणस्येत्यादि। शूद्रस्य नाध्य-यनादिष्वधिकारः यथोक्तं
“निषेकादिश्मशानान्तो यस्य वेदो-दितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिन्नान्यस्यैव कदाचनेति” मनुना। न केवलम् अध्ययने शूद्राणामधिकारः यागा-दावप्यनधिकारः यथोक्तं जैभिनीयसूत्रभाष्यादौ।
“चातु-र्वर्ण्यमविशेषात्” इत्याशङ्क्य
“निर्द्देशाद्वा त्रयाणां स्याद-ग्न्याधेये ह्यसम्बन्धः क्रतुषु ब्राह्मणश्रुतिरित्यात्रेय” इति।
“वाशब्दः पक्षं व्यावर्त्तयति,
“त्रयाणाम्” अधिकारःस्यात् कुतः? अग्न्याधेये निर्देशात् अग्न्याधेये त्रयाणांनिर्द्देशो भवति,
“वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीष्मेराजन्यः, शरदि वैश्यः” इति शूद्रस्य आधाने श्रुतिर्नास्तिइत्यनग्निः शूद्रः असमर्थोऽग्निहोत्रादि निर्वत्तयितुम्। [Page0127-b+ 38] तस्मात्
“अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्येवमादिषुशूद्रस्य प्राषिका श्रुतिर्नास्ति। ब्राह्मणादीन् एवाधिकृत्यसा प्रवर्त्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयोन शृद्रस्य, अविधानात्, संस्कारशब्दत्वाच्च आहवनीया-दीनाम्। तस्मात् अनधिकृतोऽग्निहोत्रादिषु शूद्रः इत्या-त्रेयः मन्यते स्म” इति भा॰। तथा कर्मप्रतिपादक सर्वशास्त्रविहितकर्मसु मनुष्याणामेवाधिकारः न तिरश्चां न वादेवादीनां यथोक्तं तत्रैव
“फलार्थत्वात् कर्मणः शास्त्रं सर्वा-धिकारं स्यात्” इत्याशङ्क्य
“कर्त्तुर्वा श्रुतिसंयोगाद्विधिःकात्स्न्येर्न गम्यते” इति सू॰
“वाशब्दः पक्षं व्यावर्त्तयति। न चैतदस्ति तिर्यगादीनामपि अधिकारः इति। कस्यतर्हि?। यः समर्थः कृत्स्नं कर्म अभिनिर्वर्त्तयितुम्। नचैते, शक्नवन्ति तिर्यागादयः कृत्स्नं कर्म्माभिनिर्वर्त्तयितुम्,तस्मात् एषां न सुखस्याभ्युपायः कर्म, कथं यो न शक्यतेकर्त्तुम्, सोऽभ्युपायः स्यात्? इति। न देवानां, देवता-न्तराभावात् न हि आत्मानम् उदिश्य त्यागः सम्भवति,त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात्न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषांसामर्थ्यं प्रत्यक्षम्।
“अपि च तिर्य्यञ्चो न कालान्तर-फलेन अर्थिनः, आसन्नं हि कामयन्ते।
“ननु चउक्तं, कालान्तरफलार्थिनः तिरश्चः पश्यामः, शुनःश्येनांश्चतुर्द्दश्याम् अष्टमम्यां च उपवसतःः” इति उच्यतेन जन्मान्तरफलार्थिन उपवसन्ति।
“कथं अवगम्यते?वेदाध्ययनाभावात्, ये वेदमधीयते ते एतद्विदुः,
“इदंकर्म कृत्वा, इदं फलममुत्र प्राप्नोति इति” न चैते वेद-मधीयते, नापि स्मृतिशास्त्राणि, नाप्यन्येभ्यः अवगच्छन्ति,तस्मात् न विदन्ति धर्मम्। अविद्वांसः कथम् अनुति-ष्ठेयुः, तस्मात् न धर्म्माय उपवसन्ति इति। किमर्थश्चतर्ह्येषाम् उपवासः?। उच्यते, रोगात् अरुचिरे-षाम्। कथं पुनर्नियते काले रोगो भवति?। उच्यतेनियतकाला अपि रोगा भवन्ति यथा तृतीयकाश्चातुर्थका-श्चेति। तस्मात् मनुष्याणाम् अधिकारः इति। न चतिरश्चां द्रव्यपरिग्रहः, न हि एते द्रव्यं स्वेच्छया उप-युञ्जना दृश्यन्ते, तस्मात् अनीशाना धनस्य। यत्तु, देव-ग्रामो हस्तिग्रामः इति, उपचारमात्नं तत्। तस्मात्अपि न तिरश्चाम् अधिकारः इति। यानि पुन-र्लिङ्गानि,
“देवा वै सत्रमासत” इत्येवमादीनि, अर्थबादाःते विधिप्ररोचनार्थाः। विद्यते हि विधिरन्यः तेषु सर्वेषु,[Page0128-a+ 38] न च विधेर्विषिनैक्यवाक्यभावो भवति, वचनव्यक्तिभेदात्। स्तुतिस्तु सा, इत्थं नाम सत्राणि आसितव्यानि, यत्कृतकृत्या अपि आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः,अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्या” इति भा॰। ब्रह्मविद्यायान्तु सर्वेषां देवादीनामधिकारइति
“तदुपर्य्यपि वादरायणः सम्भवात्” इति शा॰ सूत्रेणव्यवस्थापितं, व्याख्यातञ्चैतत् शाङ्कराचार्य्येण यथा
“वाढंमनुष्यानधिकारोतु शास्त्रं न तु मनुष्यानेवेतीह ब्रह्मविज्ञानेनियमोऽस्ति तेषां मनुष्याणामुपरिष्टात् ये देवादयस्तान-प्यधिकरोति शास्त्रमिति वादरायण आचार्य्यो मन्यतेकस्मात्? सम्भवात्। सम्भवति हि तेषामप्यर्थितत्वाद्यधि-कारकारणम्। तत्रार्थित्वं तावत् मोक्षविषयं देवादीना-मपि, सम्भवति विकारविषयविभूत्यनित्यतालोचनादिनिमि-त्तम्। तथा सामर्थ्यमपि तेषां सम्भवति मन्त्रार्थवादेति-हासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात्। नच तेषांकश्चित् प्रतिषेधोऽस्ति। नचोपनयनादिशास्त्रेणैषामधिकारोनिवर्त्तितः उपनयनस्य वेदाध्ययनार्थ त्वात् तेषाञ्च स्वयं-प्रतिभातवेदत्वात्। अपि चैषां विद्याग्रहणार्थं ब्रह्म-चर्य्यादि दर्शयति
“एकशतं ह वै वर्षाणि मघवान् प्रजापतौब्रह्मचर्य्यमुवास”
“भृगुर्वै वारुणिर्वरुणं पितरमुपससादअधीहि भगवो! ब्रह्मेत्यादि”। यदपि कर्मस्वनधिकारकारण-मुक्तम्, न देवानां, देवतान्तराभावात्। न ऋषीणामा-र्षेयान्तराभावादिति। न तद्विद्याखस्ति न हीन्द्रादीनांविद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित् कृत्यमस्तिन च भृग्वादीनां भृग्वादिसगोत्रतया। तस्माद्देवादीना-मपि विद्यास्वधिकारः केन वार्य्येत? इति”। ततश्चविद्वत्त्व कर्मफलार्थित्व--तत्तत्कर्मकरणसमर्थत्वापर्य्युदस्तत्वानिअधिकारप्रयोजकानीति सिद्धम् तत्रापि विधानेन सर्व-कर्मत्यागरूपे सन्न्यासे विप्रस्यैवाधिकार इति सर्ववादि-सम्मतम् द्विजमात्राणामधिकार इति केषाञ्चिन्मतम्। अधिकमाकरे दृश्यम्। क्वचिच्चाधिकृतस्याधिकारः। यथा दर्शाद्यधिकृतस्य प्रयाजादिष्वधिकारः
“प्रधा-नाधिकारो अङ्गाधिकारी भवतीति” न्यायात्।
“ताम्बू-लाधिकारो दत्त इति” हितो॰।
“हृताधिकारांमलिनामिति” स्मृतिः। कर्मणि घञ्।
“कर्त्तव्ये
“स्वाधिकारे प्रमत्त” इति मेघ॰। प्रकरणे, व्याकरण-शास्त्रे पूर्बसूत्रोपात्तपदादेरुत्तरत्र सूत्रेषु अनुवर्त्तने।
“अधिकारोऽयम् आ पञ्चमाध्यायसमाप्तेरिति” सि॰ कौ॰। [Page0128-b+ 38] तत्राधिकारश्च प्रत्ययादिकर्म्माद्यर्थमुत्तरोत्तरसूत्रेषु पूर्व्व-सूत्रोपात्तशब्दस्यानुवर्त्तनम्। यथा
“प्रत्ययः, परश्च” इति सूत्रोपात्तप्रत्ययपरशब्दयोः आ पञ्चमाध्यायसमाप्तेःसर्व्वत्र सूत्रेषु अनुवर्त्तनम्। स चाधिकारः त्रिविधः
“सिंहावलोकितं चैव मण्डूकप्लुतमेव च। गङ्गाप्रवाहव-च्चापि अधिकारस्त्रिधा मत” इत्युक्तभेदत्रयात्। तदुदाहरणन्तु व्याकरणेऽवगम्यम्। नियोज्यतया विषयी-करणे,
“सर्व्वाधिकारं शास्त्रमिति” जै॰ सू॰। तदभिप्रायेण
“वाढं मनुष्यानधिकारोतु शास्त्र” मिति मनुष्याधिकारत्वाच्छास्त्रस्येति” च श॰ भा॰। सर्वमधिकरोति कर्म्मण्युप-पदे अण् एवमेव मनुष्याधिकारत्वादित्यत्रापि

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकार¦ m. (-रः)
1. Authority.
2. Supremacy.
3. Rule, government.
4. Right, title.
5. Property, ownership.
6. Privilege.
7. Duty, office.
8. A chapter, a section.
9. The use of royal insignia.
10. (In grammar; Government, the dependance of a form on a previous one. E. अधि over, and कार what makes, from कृ with घञ् affix; what gives or exercises pre-eminence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारः [adhikārḥ], 1 Superintendence, watching over; स्त्रीषु कष्टो$धिकारः V.3.1; यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः Ś.1 superintendence of religious matters.

Duty, office, charge; power, post of authority; authority; मन्त्राधि- कारः Kau. A.1 निर्णयाधिकारे ब्रवीमि M.1. I say this in the capacity of a judge; अविश्रमो$यं लोकतन्त्राधिकारः Ś.5; द्वीपिनस्ताम्बूलाधिकारो दत्तः Pt.1, तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः V.2.1.; अर्थ˚ administration of pecuniary matters स्वाधिकारात् प्रमत्तः Me.1; अधिकारे मम पुत्रको नियुक्तः M.5; यः सर्वाधिकारे नियुक्तः प्रधानमन्त्री स करोतु, अनुजीविना पर˚ चर्चा न कर्तव्या H.2; शिल्पाधिकारे योग्येयं दारिका M.1 fit to be initiated in to the fine arts.

Sovereignty, government or administration, jurisdiction, rule; स्वाधिकार- भूमौ वर्तिष्यते Ś.7 seat of government or jurisdiction, ˚खेदं निरूप्य Ś.5.

Position, dignity, rank; हृताधिकारां मलिनाम् Y.1.7 deprived of the position or rights or privileges of a wife.

(a) Right, authority, privilege, claim, title (as to wealth, property &c.); right of ownership or possession; अधिकारः फले स्वाम्यमथिकारी च तत्प्रभुः S. D.296; वत्से$धिकारः स्थितः Mv.4.38 it now belongs to the child. (b) Qualification or authority to perform certain specified duties, civil, sacrificial, religious &c.; as the अधिकार of a king to rule and protect, of a Brāhmaṇa to sacrifice, of a Vaiśya to till or trade &c.; शूद्रो$धिकारहीनो$पि Y.3.262; with loc.; निषेकादिस्मशा- नान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रे$धिकारो$स्मिन् ज्ञेयो नान्यस्य कस्यचित् Ms.2.16; श्राद्धाधिकारसम्पदस्तु इति भवन्तो ब्रुवन्तु (repeated in Śrāddha ceremonies).

Prerogative of a king.

Effort, exertion; कर्मण्येवाधिकारस्ते मा फलेषु कदाचन Bg.2.47 your business is with action alone &c.

Relation, reference; स राघवस्तत्र तदा प्रलापाञ् शुश्राव लोकस्य समागतस्य । आत्माधिकारा विविधाश्च वाचः Rām.2.17.43. कथा विचित्राः पृतनाधिकाराः Mb.

Place = अधिकरण; महत्खलु पुरुषाधिकारं ज्योतिः M.1.

A topic, paragraph or section; प्रायश्चित्त˚ Mit.; See अधिकरण.

Counting, enumeration, occasion for counting; संसत्सु जाते पुरुषाधिकारे Ki. 3.51 (गणनाप्रस्तावे).

(In gram.) A head or governing rule, which exerts a directing or governing influence over other rules; e. g. सर्वस्य द्वे P.VIII.1.1; समर्थानां प्रथमाद्वा; प्राग्दीव्यतो$ण् IV.1.82-3; तत्पुरुषः II. 1.22; अधिकारो$यं Sk. (This अधिकार is of three kinds; सिंहावलोकितं चैव मण्डूकप्लुतमेव च । गङ्गाप्रवाहवच्चापि अधिकारस्त्रिधा मतः ॥.) अधिकार also means a word or sūtra extending over in the following सूत्रs up to a particular limit.-Comp. -विधिः determination or statement of qualifications to do particular acts; as राजा राजसूयेन यजेत. -स्थ -आढ्य a. possessed of authority, invested with office.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकार/ अधि-कार m. authority

अधिकार/ अधि-कार m. government , rule , administration , jurisdiction

अधिकार/ अधि-कार m. royalty , prerogative

अधिकार/ अधि-कार m. title

अधिकार/ अधि-कार m. rank

अधिकार/ अधि-कार m. office

अधिकार/ अधि-कार m. claim , right , especially to perform sacrifices with benefit

अधिकार/ अधि-कार m. privilege , ownership

अधिकार/ अधि-कार m. property

अधिकार/ अधि-कार m. reference , relation

अधिकार/ अधि-कार m. a topic , subject

अधिकार/ अधि-कार m. a paragraph or minor section

अधिकार/ अधि-कार m. (in Gr. )government , a governing-rule (the influence of which over any number of succeeding rules is called अनु-वृत्तिSee. )

"https://sa.wiktionary.org/w/index.php?title=अधिकार&oldid=485283" इत्यस्माद् प्रतिप्राप्तम्