अधिकारिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिकारी, [न्] त्रि, (अधिकरोति अधि + कृ + नन्द्यादित्वात् णिनि ।) प्रभुः । स्वामी । अधि- पतिः । अधिकारविशिष्टः । स्वत्ववान् । इति स्मृतिः ॥ यथा, -- “इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते । अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके” ॥ इति मलमासतत्त्वं ॥ अपिच । “स्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि” । इत्याह्निकाचारतत्त्वं ॥ वेदान्तमते विधिवदधीत- वेदाङ्गत्वेन आपाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गत- निखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन- चतुष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ * ॥ धनाधिकारिणो दायभागशब्दे द्रष्टव्याः ॥ * ॥ श्रीमूर्त्त्यादीनां वेशकर्त्ता । इति लोकप्रसिद्धं ॥
अधिकारी, [न्] पुं, (अधिकरोति अधि + कृ + नन्द्यादित्वात् णिनि ।) वेदान्तशास्त्रवेत्ता । अधि- गताखिलवेदार्थनितान्तनिर्म्मलस्वान्तः साधनचतु- ष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ पुरुषः । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिकारिन्¦ त्रि॰ अधिकरोति अधि + कृ--णिनि। स्वामिनिविहितकर्मफलभोक्तरि, शास्त्रेण कर्त्तव्यतींपदेशेन नियो-जिते, कामनाविषयफल--तदुपायोपदेशेन प्रवर्त्तिते च स्त्रियांङीप्। वेदान्तमतसिद्धे अनुबन्धचतुष्टयमध्ये अनुबन्धभेदे वेदा-न्तसारे वेदान्तशास्त्रालोचनहेतुभूतानुबन्धचतुष्टयनिरूपणाय
“अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगता-खिलवेदार्थः इह जन्मनि जन्मान्तरे वा काम्यनिषिद्ध-वर्ज्जनपुरस्मरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेननिर्गतनिखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन-चतुष्टयसम्पन्नः प्रमाते” त्युक्तम्। स चाधिकारी उत्तममध्य-माधमभेदेन त्रिविधः
“अधिकारित्रैविध्यान्न नियम” इति
“अधिकारिभेदान्न मियम” इति च सांख्यसूत्रभ्यां तथोक्तेः। तत्र उत्तमाधिकारिणः विधानेन विहितसर्वकर्मत्यागपूर्ब्बकंनिराकारब्रह्मज्ञानेऽधिकारः मध्यमाधिकारिणः विहित-वर्णाश्रमादि कर्म्मकरणपूर्ब्बकं सोपाधिब्रह्मोपासने, अध-मस्य तु वर्णाश्रमविहितकर्म्मविधानपूर्ब्बकं साकारब्रह्मोपा-[Page0129-a+ 38] सने
“ये मन्दास्ते तु सज्जन्ते ब्रह्मणोरूपकल्पने” इत्युक्तेः। अतएवोक्तम्
“प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदोषाययथोक्तकारिणे--प्रदेयमेतत् सततं मुमुक्षवे” इति। अत्रयथोक्तकारिणेइत्यनेन प्राक् ज्ञानोत्पत्तेः वर्णाश्रमविहितंकर्म्मानुष्ठेयमेवेत्युक्तं शा॰ सूत्रकृताऽपि
“विहितत्वादाश्रमकर्म्मापि” इत्युक्तम् गीतायामपि
“आरुरुक्षोर्मुनेर्योगः कर्म्मकारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते” इत्यनेन आरुरुक्षोः यथोक्तकर्म्माधिकारः उक्तः
“कषायेकर्म्मभिः पक्वे ततोज्ञानं प्रजायते” इत्यनेन कषायशब्द-वाच्यचित्तदोषक्षयार्थं कर्म्मावश्यकतेत्युक्तम्।
“द्वे ब्रह्मणीवेदितव्ये परञ्चापरमेव चेति” श्रुतावप्यधिकारिभेदात्निराकरसोपाधिकयोः द्वयोर्व्रह्मणोर्वेद्यतोक्ता। गीता-यामपि
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया-नघ! ज्ञानयोगेन सांङ्ख्यानां, कर्म्मयोगेन योगिनामिति” अधिकारिभेदात् ज्ञानकर्म्मणोरधिकार इत्युक्तम्।
“सम्यक् संसाधनं कर्म्म कर्त्तव्यमधिकारिणा। निष्कामेणसदा पार्थ! काम्यं कामान्वितेन चेति” भवि॰ पु॰।
“अधिकारिणाऽर्थिना विदुषा समर्थेनेति” रघु॰ तेनविद्वत्त्वं तत्तत्कर्मजन्यफलार्थित्वम् तत्तत्कर्म्मकरणयोग्यत्वम्अपर्य्युदस्तत्वञ्च अधिकारिताप्रयोजकम्। तत्र फलार्थि-त्वञ्च सति कामे एव, मुमुक्षुत्वे तु न फलार्थित्वावश्यकतेतिभेदः। मार्कण्डेयपुराणे रुचिवाक्येन
“पितॄन्नमस्ये दिविये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ। प्रदानशक्ताःसकलेप्सितानां विमुक्तिदा येऽनभिसंहितेष्विति” अनेनफलार्थिनं प्रति तत्तत्फलदातृत्वं, तदनर्थिनं मुमुक्षुं प्रतिमुक्तिदातृत्वमिति स्पष्टमुक्तम् एवं देवतानामप्यधिकारिभेदेनफलदातृत्वम्। अनभिसंहितेसु अनुद्दिष्टेषु फलेष्वित्यर्थः। अधिकारोऽस्त्यस्य इनि। स्वामित्ववति
“सर्वे स्युरधि-कारिण” इति स्मृतिः स्त्रियां ङीप्।
“कृतात्र देवीवचनाधिकारिणीति नैष॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिकारिन्¦ m. (-री)
1. A superintendent, a ruler, a director.
2. A master, an owner.
3. A sage, one who is perfect in principles and practice of the Veda4nta. mf. (-री-रिणी) (In law) The possessor of a right or title, as. धनाधिकारी heir to property; संस्काराधिकारी one who has a right to the essential ceremonies of the Hindu religion. E. अधिकार, and इनि aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिकारिन् [adhikārin] अधिकारवत् [adhikāravat], अधिकारवत् a. [अस्त्यर्थे इनि मतुप् वा]
Possessed of authority, having power; निःस्पृहो नाधिकारी स्यात् Pt.1.164; सन्धिविग्रहकार्य˚, कार्य˚ H.3.
Entitled to, having a right to; सर्वे स्युरधिकारिणः; so उत्तराधिकारिन् heir; धनग्रहण˚ &c.; तपस्यनधिकारित्वात् R.15.51 not qualified or authorised.
Belonging to, owned by.
Fit for. -m.
(रीवान्) An official, officer; न निष्प्रयोजनम् अधिकारवन्तः प्रभुभिराहूयन्ते Mu.3; a functionary, superintendent, head, director, governor.
A rightful claimant, proprietor, master, owner.
One qualified to sacrifice or perform sacred works.
Man as the lord of creation.
One well versed in the Vedānta.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अधिकारिन्/ अधि-कारिन् mfn. possessing authority , entitled to , fit for
अधिकारिन्/ अधि-कारिन् m. a superintendent , governor
अधिकारिन्/ अधि-कारिन् m. an official , a rightful claimant
अधिकारिन्/ अधि-कारिन् m. a man L.