अनित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित्यः, त्रि, (नि + त्यप् ततो नञ्समासः ।) नश्वरः । अस्थायी । जन्यवस्तु । यथा, -- “धर्म्मो नित्यः सुखदुःखेऽप्यनित्ये । जीवो नित्यो हेतुरस्याप्यनित्यः” । इति महाभारते भारतसावित्री ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित्य¦ त्रि॰ न नित्यः। नश्वरे, जन्ये च।
“नित्याऽनित्या चच सा द्वेधा नित्या स्यादणुलक्षणा। अनित्या तु तदन्या-स्यादिति” भाषा॰।
“यदि नित्यमनित्येन निर्मलं मलवा-हिना। यशः कायेन लभ्येतेति” हितो॰
“रजस्वलमनित्यञ्चभूतावासमिमं त्यजेदिति” मनुः। अस्थिरे
“अनित्योविजयोयस्मात् दृश्यते युध्यमानयोः। पराजयश्च संग्रामे तस्माद्युद्धंविवर्जयेदिति” मनुः। कृताकृतप्रसङ्गि नित्यं विरोधे न॰ त॰। कृताकृतप्रसङ्गशून्येवैकल्पिके,
“समासान्तविधेरनित्यत्वमिति” पा॰ भा॰। यावदाश्रयमवस्थानायोग्ये,
“वर्णे चानित्ये” इतिपा॰। अव्यवस्थिते, (यावदाश्रयमदनवस्थिते)
“इह खलुद्रव्यं व्यवस्थितं न रसादयः, यथा आमे फले, ये रसादयस्ते[Page0162-a+ 38] पक्वे न सन्ति, नित्यत्वाच्च नित्यं द्रव्यम् अनित्या गुणायथा कल्कादिप्रविभागः, सएव सम्प्रन्नरसगन्धो व्याप-न्नरसगन्धो वा भवतीति” सुश्रुतम् अतएव
“सत्वे निवि-शतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाक्रियाजश्च-सोऽसत्वप्रकृतिर्गुण” इति गुणलक्षणे गुणानामुत्प्यद-विनाशोक्तिः। सदातनभिन्ने काले च।
“अनित्यं हि स्थितिर्यस्मात्तस्मादतिथिरुच्यते” इति मनुः। अनित्यमित्यत्रव्याप्तौ, कालाधिकरणे वा द्वितीया न मान्ताव्ययत्वमस्य तथात्वेप्रमाणाभावात्। सदाकालवृत्तिपरत्वेऽपि धातूपस्थाप्यसाध्य-क्रियाविशेषणत्वेन सञ्चारोरतिमन्दिरावधीत्यादिवत् द्विती-येति बोध्यम्। नित्यम् मान्तमव्ययम् न॰ त॰। केचित्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित्य¦ mfn. (-त्यः-त्या-त्यं)
1. Transient, not everlasting.
2. Occasional, incidental.
3. Irregular, unusual. E. अ neg. नित्य constant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित्य [anitya], a.

Not eternal or everlasting, transient, non-eternal, perishable (नश्वर) (opp. नित्य); गन्धवती पृथ्वी सा द्विविधा नित्या$नित्या च T. S.9 (अनित्या = कार्यरूपा); See नित्य; यदि नित्यमनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तन्न लब्धं भवेन्तु किम् ॥ H.1.45. रजस्वलमनित्यं च भूतावासमिमं त्यजेत् Ms.6.77; धर्मो$नित्यः सुखदुःखे$प्यनित्ये जीवो$नित्यो हेतुरस्या- प्यनित्यः Mb.

Occasional, temporary, casual; not peremptory or obligatory as a rule &c., special.

Unusual, extraordinary; वर्णे चानित्ये P.V.4.31 (लोहितकः कोपेन, अन्यथा तु श्वेतवर्ण इति भावः); आनाय्यो$नित्ये III.1.127 (स हि गार्हपत्यादानीयते$नित्यश्च सततमप्रज्वलनात् Sk.) See VI.1. 147.

Unsteady, fickle, not permanent; अनित्यं यौवनं रूपम् H.4.68; ˚हृदया हि ताः Rām.

Uncertain, doubtful; अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः Ms.7.199; विजयस्य ह्यनित्यत्वात् Pt.3.22.

(in grammar) A rule or operation which is not invariable or compulsory; optional.-त्यम् adv. Occasionally, not permanently, incidentally, casually; अनित्यं हि स्थितो यस्मात् Ms.3.12. -Comp. -कर्मन्, -क्रिया an occasional act, such as a sacrifice for a special purpose, a voluntary and occasional act. -दत्तः, -दत्तकः, -दत्रिमः a son given by his parents to another temporarily (for temporary or preliminary adoption).-प्रत्यवेक्षा (with Buddhists) the consciousness that everything is perishable and is passing away. -भावः transitoriness, transient state, limited nature or existence; so अनित्यतावम् frailty, instability. -समः a sophism or fallacious reasoning which generalizes what it is exceptional (as अनित्यत्वम्). -समासः a compound which it is not obligatory to form in every case (the sense of which may be equally expressed by resolving it into its constituent members.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित्य/ अ-नित्य mfn. not everlasting , transient , occasional , incidental

अनित्य/ अ-नित्य mfn. irregular , unusual

अनित्य/ अ-नित्य mfn. unstable

अनित्य/ अ-नित्य mfn. uncertain

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनित्य वि.
अनुमानतः, अनिश्चित बौ.शु.सू. 1.6०.

"https://sa.wiktionary.org/w/index.php?title=अनित्य&oldid=485869" इत्यस्माद् प्रतिप्राप्तम्