अनिल

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिलः, पुं, (अनिति जीवत्यनेन अन् + इलच् ।) वायुः । इत्यमरः ॥ वसुविशेषः । इति मेदिनी ॥ (शरीरस्थप्राणादिवायुः । वातरोगः । स्वाति- नक्षत्रं ।)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिल पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।1।4

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिल¦ पु॰ अनित्यनेन अन--इलच्। वायौ, तेनैव सर्वेषांप्राणधारणात्तत्त्वम्।
“तप्तकृच्छ्रं चरन् विप्रो जलक्षीर-घृतानिलान्” इति सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्यचेति” मनुः।
“स सखा दीप इवानिलाहत” इति कुमा॰। अनिलश्च मायासहकृतेन ब्रह्मणा वियदुत्पाद्य तद्रूपाविष्टेनततोदशांशत उत्पादितः द्रव्यभेदः
“तस्मादेतस्माद्वा आत्मनआकाशः संभूतः आकाशात् वायुः वायोरग्निरित्यादि-श्रुतिः, स च स्वाभाविकशोषस्पर्शगतिवेगाख्यगुणवान्वियत उत्पन्नत्वात् शब्दगुणवांश्च। यथोक्तं पञ्चदश्यां
“माया सत्येकदेशस्था यथा तत्रैकदेशगम्। वियत्, तत्रा-प्येकदेशगतो वायुः प्रकल्पितः। शोषस्पर्शोगतिर्वेगो वायु-धर्म्मा इमे मताः। त्रयः स्वभावात् सन्मायाव्योभ्रांये तेऽपि वायुगाः। वायुरस्तीति सद्भावः, सतोवायौपृथक्कृते। निस्तत्वरूपो मायायाः स्वभावो वियतोध्वनि-रिति
“पुराणोक्तं तारतम्यं दशांशे भूतपञ्चके” इति च। तदाविष्टेनैव ब्रह्मणा वह्निरुत्पादित इति वेदान्तिमतम्सांख्यमते सतु स्पर्शतन्मात्रादुत्पन्नः। वैशेषिकनये तु स्पर्श,संख्या, परिमाण, पृथक्त्वसंयोगविभागपरत्वापरत्ववेग-गुणकोऽनिलः ईश्वरादेव अदृष्टवशादुत्पद्यते इति भेदःस च स्थूलः सूक्ष्मश्च। तत्र स्थूलः सप्तविधः सप्तस्कन्धा-श्रितः यथोक्तं सिद्धान्तशिरमणौ
“भूवायुरावह इह प्रव-हस्तदूर्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च। अन्यस्ततो-ऽपि सुव{??} परिपूर्वकोऽस्माद्वाह्यः परावह इमे पवनाःप्रसिद्धाः। भूमेर्वहिर्द्वादशयोजनानि भूवायुरत्राम्बुदवि-द्युदाद्यम्। तदूर्ध्वगो यः प्रवहः स नित्यं प्रत्यग्गति-स्तस्य तु मध्यसंस्था। नक्षत्रकक्षा खचरैः समेतो यस्मा-दतस्तेन समाहतोऽयम्। भपञ्जरः खेचरचक्रयुक्तो भ्रमत्य-जस्र प्रवहानिलेन इति”। भूवायौ विद्युदादय उत्पद्यन्तेइत्युक्तम् तेषां स्वरूपादि तट्टीकायामुक्तं श्रीपतिवाक्येन।
“निर्घातोल्काघनसुरधनुर्विद्युदन्तः कुवायोः संदृश्यन्ते खन-गरपुरीवेषपूर्ब्बं तथान्यत्” इति। तत्र विद्युतः।
“सुजल-जलधिमध्ये वाडवोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्ना-दुत्थिता धूममालाः। वियति पवननोताः सर्वतस्ता द्रवन्ति[Page0164-b+ 38] द्युमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्गाः”। करकाः॥
“उद्धूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात्। मेघमण्डलमा-नीतैर्मालिन्यपरिवर्जितैः। मिश्रणाज्जलविन्दूनां पिण्डभावोभवेदिह। दृषद्वन्निपतन्त्येते द्रवन्ते च पुनः क्षितौ”। विद्यु-त्पातसंभवस्तु।
“अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रि-तम्। वात्यावद्भ्रमदाघाते प्रतिकूलानुकूलयोः। वाय्वोस्तत्पतति प्रायो ह्यकालं प्राप्य वर्षणे। यतः प्रावृषि नैवेतेपांसवः प्रसरन्ति हि। तत् त्रेधा पार्थिवं चाप्यं तैजसं,तत्तदुत्थितः। गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते”। इन्द्रधनुः।
“सूर्य्यस्य विविधवर्णाः पवनेन विधट्टिताःकराः साभ्रे। वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्र-धनुः,। परिवेषः।
“संमूर्च्छिता रवीन्द्वोः किरणाः पवनेनमण्डलीभूताः। नानावर्णाकृतयस्तन्वभ्रे व्योभ्रि परिवेषः”। उल्का।
“यासां गतिर्दिवि भवेद्गणितेन गम्यास्तास्तारकाःसकलखेचरतोऽतिदूरे। तिष्ठन्ति या अनियतोद्गतयश्चताराश्चन्द्रादधो हि निवसन्ति तदाश्रितास्ताः। शीतांशुव-ज्जलमयास्तपनात् स्फुरन्ति ताश्चावहप्रवहमारुतसंधि-संस्थाः। पूर्बानिलैस्तिमितभावमुपागतेऽस्मिंस्ताराः पतन्तिकुहचिद्गुरुतावशेन”। अथ रजःसंहतिः।
“वर्षान्ते निर्जलामेघा वायुना विरलीकृताः। ईषद्बाष्पावशेषास्तु पतन्तिवसुधातले। धूमावयवरूपैस्तैश्छाद्यन्ते गिरयो द्रुमाः। रामारामादयस्ते तु पुनरर्कांशुशोभिताः। भूवायुना विशी-र्णास्तु विलीयन्ते नभस्तले। तद्रजःसंहतिर्धेनुमहिषी-क्षीरनाशकृत्”। संध्यारागः।
“भूम्युत्थितै रजीधूमैर्दि-गन्तव्योम्नि संस्थितैः। सूर्य्याल्पकिरणैर्मिश्रैरारुण्यमव-भासते। विरलावयवं वस्तु यद्दृष्टेर्व्यवधायकम्। तेना-भ्रमरुणीभूतं दृश्यते शक्रचापवत्। संध्यारागः स विज्ञेयोदिनादौ च दिनात्यये। राकायां तु निशावक्त्रे तथैवेन्दु-करोद्यमे” इति। तदधिष्ठातृदेहोत्पत्तिर्मन्वन्तरभेदेनवामनपुराणादौ दर्शिता यथा
“पुलस्त्य उवाच। प्रविश्यजठरं शुद्धोदैत्यमातुः पुरन्दरः। ददर्शोर्द्ध्वमुहं वालंकटिन्यस्तकरं महत्॥ तेनैव गर्भं दितिजं वज्जेणं शत-पर्वणा। चिच्छेद सप्तधा ब्रह्मन्! स रुरोद सुविस्वरम्। शक्रोऽपि प्राह मा मूढ! रुदस्वेति सघर्घरम्। इत्येवमुक्त्वाचैकैकं भूयश्चिच्छेद सप्तधा॥ ते जाता मरुतो नामदेवादित्याः शतक्रतोः। मातुरेवापचारेण बलवीर्य्यपुर-स्कृताः इति॥
“यदमी भवता प्रोक्ता मरुतोदिति सम्भवाः। तत् केन पूर्ब्बमासन् वै मरुन्मार्गेण कथ्यतामिति” नारद्-[Page0165-a+ 38] प्रश्ने पुलस्त्योक्तिः।
“श्रूयताम् पूर्ब्बमरुतामुत्पत्तिं कथयामिते। स्वायम्ब्मुबं समारभ्य यावन्मन्वन्तरं त्विदम्॥ स्वावम्भु-वस्य पुत्रोऽभून्मनोर्नाम प्रियव्रतः। तस्यासीत् सवनोनाम पुत्रस्त्रैलोक्यपूजितः॥ खमुत्पपाताथ स कामचारीसमं महिष्या वसुमानपुत्र्या। रराम तन्व्या सह काम-चारी ततोऽम्बरात् प्राच्यवतास्य शुक्रम्॥ पतिभिः स-मनुज्ञाताः पपुः पुस्करसंस्थितम्। तं शुक्रं पार्थिवेन्द्रस्यमन्यमानास्तदामृतम्॥ पीतमात्रेण शुक्रेण पार्थिवेन्द्रो-भद्भवेन च। ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तप-स्विनाम्॥ सुषुवुः सप्त तनयांस्ते रुदन्तोऽथ भैरवम्। तेषां रुदितशब्देन सर्व्वमापूरितं जगत्॥ अथाजगामभगवान् ब्रह्मलोकात् पितामहः। समभ्येत्याब्रवीद्बालान्मा रुदध्वं महाबलाः!॥ मरुतो नाम यूयं वै भविष्यध्वंवियच्चराः। इत्येवमुक्त्वा देवेशो ब्रह्मा लोकपितामहः॥ तानादाय वियच्चारी मारुतानादिदेश ह। ते चासन्मरुतश्चाद्या मनोः स्वायम्भुवान्तरे”॥ स्वारोचिषे तु मरुतोवक्ष्यामि शृणु नारद!। स्वारोचिषस्य पुत्रश्च श्रीमानासीत्क्रतुध्वजः॥ तस्य पुत्राभवन् सप्त सप्तार्च्चिःप्रतिमा मुने!। तपोऽर्थं ते गताः शैलं महामेरुं नभश्चराः॥ आरा-धयन्तो ब्राह्मणं पदमैन्द्रमथेप्सवः। ततो विपश्चिन्नामा ससहस्राक्षो भयातुरः॥ पृतनामप्सरोमुख्यां प्राहनारद! वाक्यवित्। यथा हि तपसो विघ्नं तेषां भवतिसुन्दरि!॥ तथा कुरुष्व मा तेषु, सिद्धिर्भवतु वै यथा। इत्येवमुक्ता शक्रेण पृतना रूपशालिनी॥ तत्राजगामत्वरिता यत्र तप्यन्ति ते तपः। आश्रमस्याविदूरे तु नदी-मन्दोदवाहिनी॥ तस्यां स्नातुं समायाताः सर्व्वएव सहो-दराः। सा तु स्नातुं सुचार्बङ्गी त्ववतीर्णा महानदीम्॥ ददृशुस्ते नृपाः स्नातुं ततश्चक्षुभिरे मुने!। तेषाञ्चप्राच्यवत् शुक्रं, तत् पपौ जलचारिणी॥ शङ्खिनीग्राहमुख्यस्य महाशङ्खस्य वल्लभा। ते वै विनिष्टतपसोजग्मू राज्यन्तु पैतृकम्॥ अथो बहुतिथे काले साग्राही शङ्खरूपिणी। समुद्धृता महाजालैर्मत्स्यबन्धेनमानिनो॥ स तां दृष्ट्वा महाशङ्खि स्थलस्थां मत्स्य-जीवनः। निवेदयामास तदा क्रतुध्वजसुतेषु वै॥ तथा-भ्येत्य महात्मानो योगिनो योगधारिणः। नीत्वा स्वम-न्दिरं सर्वे पुरव्याप्यां समुत्सृजन्॥ ततः क्रमाच्छङ्क्षिनी-सा सुषुवे सप्त वै शिशून्। जातमात्रेषु पुत्रेषु मोक्ष-भावमगाच्च सा॥ अमातृपितृका बाला जलमध्य[Page0165-b+ 38] विचारिणः। स्तन्यार्थिनो वै रुरुदुरथाभ्यागात् पिता-महः॥ मा रुदध्वमिति प्राह मरुतो नाम पुत्त्रकाः!। यूयं देवा भविष्यध्वं वायवोऽम्बरचारिणः॥ इत्येवमुक्त्वा-थादाय सर्व्वांस्तान् दैवतान् प्रति। नियोज्य च मरु-न्मार्गे वैराजभवनं गतः॥ एवमासंश्च मरुतो मनोःस्वारोचिषान्तरे। औत्तमे मरुतो ये च तान् शृणुष्वतपोधन!॥ औत्तमस्यान्ववाये च राजासीन्निषधाधिपः। वपुष्मानिति विख्यातो वपुषा भास्करोपमः॥ तस्य पुत्त्रोगणश्रेष्ठो ज्योतिष्मान् धार्म्मिकोऽभवत्। स पुत्त्रार्थी तप-स्तेपे नदीं मन्दाकिनीमनु॥ तस्य भार्य्या च सुश्रोणी देवाचार्य्य-सुता शुभा। तपश्चरणयुक्तस्य बभूव परिचारिका॥ तेजो-युक्ता सुचार्व्वङ्गी दृष्टा सप्तर्षिभिर्व्वने। तां तथा चारुसर्व्वाङ्गीं दृष्ट्वाथ तपसा कृशाम्। पप्रच्छुस्तपसो हेतु-न्तस्यास्तद्भर्त्तुरेव च। साऽब्रवीत्तनयार्थाय आवाभ्यां वैतपः क्रिया॥ ते चास्यै वरदा ब्रह्मन्! जाताः सप्त मह-र्षयः। व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः॥ युवयोर्गुणसंयुक्ता महर्षीणां प्रसादतः। इत्येवमुक्त्वा जग्मुस्तेसर्व एव महर्षयः॥ सोऽपि राजर्षिरगमत् सभार्य्योनगरं निजम्। ततो वहुतिथे काले सा राज्ञो महिषीप्रिया॥ अवाप गर्भं तन्वङ्गी तस्मात् नृपतिसत्तमात्। गुर्विण्यामथ भार्य्यायां ममारासौ नराधिपः॥ सा चाप्या-रोढुमिच्छन्ती भर्त्तारं वै पतिव्रता। निवारिता तदा-मात्यैर्न तथापि व्यतिष्ठत॥ तं समालिङ्ग्य भर्त्तारं चिताया-मारुरोह सा। ततोऽग्निमध्यात् सलिले मांसपेश्यपत-न्मुने!॥ साम्भसा सुखशीतेन संसिक्ता सप्तधाऽभवत्। तेऽजायन्ताथ मरुत औत्तमस्यान्तरे मनोः॥ तामसस्या-न्तरे ये च मरुतोऽप्यभवन् पुरा। तानहं कीर्त्तयिष्यामिगीतनृत्यकलिप्रिय!॥ तामसस्य मनोः पुत्त्र ऋतध्वजइति श्रुतः। स पुत्त्रार्थी जुहावाग्नौ स्वमांसं रुधिरंतथा॥ अस्थीनि रोम केशांश्च स्नायुमज्जायकृद्व्रणम्। शुक्रं च वित्रसो राजा सुतार्थी चेति नः श्रुतम्॥ सप्तार्च्चिर्मध्याच्च ततः शुक्रपातादनन्तरम्। मा मा क्षिप-स्वेत्यसरत् शब्दः सोऽपि नृपो मृतः॥ ततस्तस्माद्धुतवहात्सप्त तत्तेजसोपमाः। शिशवः समजायन्त ते रुदन्तश्चतन्मुने!॥ तेषान्तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः। समागम्य निवार्य्याथ स चक्रे मरुतः सुतान्॥ ते त्वास-न्मरुतो ब्रह्मं स्तामसे देवतागणाः। येऽभवन्रैवते तांश्चशृणुष्व त्वं तपोधन!॥ रेवतस्यान्ववाये तु राजासीदिषु-[Page0166-a+ 38] जिद्बली। रिपुजिन्नाम स ख्यातो न तस्यासीत् सुतःकिल॥ स समाराध्य तपसा भास्करं तेजसां निधिम्। अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ॥ तस्यांपितृगृहे ब्रह्मन्! वसत्याञ्च पिता मृतः। सापि दुःख-परीताङ्गी स्वां तनुं त्यक्तुमुद्यता॥ ततस्तां वारयामासु-रृषयः सप्त मानसाः। तस्यामासक्तचित्तास्तु सर्व्व एवतपोधनाः॥ अपारयन्ती तद्दुःखं प्रज्ज्वाल्याग्निं विवेश ह। ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा॥ तां मृतांऋषयो दृष्ट्वा कष्टं कष्टेति वादिनः। प्रजग्मुर्ज्वलनाच्चापिसप्ताजायन्त दारकाः॥ ते च मात्रा विना भूता रुरुदु-स्तान् पितामहः। निवारयित्वा कृतवान् लोकनाथो मरु-द्गणान्॥ रेवतस्यान्तरे जाता मरुतोऽमी तपोधन!। शृणुष्वकीर्त्तयिष्यामि चाक्षुषस्यान्तरे मनोः॥ आसीन्माङ्कीतिविख्यातो तपस्वी सत्यवाक् शुचिः। सप्तसारस्वते तीर्थे सो-ऽतप्यत महत्तपः॥ विघ्नार्थं तस्य तपसो देवाः सम्प्रैषयन्बधूम्। सा चाभ्येत्य नदीतीरं क्षोभयामास भाविनी॥ ततो-ऽस्य प्राच्यवच्छुक्रं सप्तसारस्वते जले। तां चैवाप्यशपन्मूढांमुनिर्म्माङ्कनिको बधूम्॥ गच्छालज्जेऽतिमूढे! त्वं पाप-स्यास्य फलं महत्। विध्वंसयिष्यति हयो भवतीं यज्ञ-संसदि॥ एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्र-मम्। स्वरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन्। एतेतवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे!। येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्म्माभ्युदयो महान्वै”॥ अतःपरं प्रवक्ष्यामि मरुतोऽग्नीन् पितॄन् ग्रहान्। आवहोनिवहश्चैव उद्वहः संवहस्तथा॥ विवहः प्रवहश्चैव परि-वाहस्तथैव च। अन्तरीक्षे च वाह्ये ते पृथङ्मार्गविचा-रिणः॥ महेन्द्रप्रविभक्ताङ्गा मरुतः सप्त कीर्त्तिताः। सूर्य्याग्निश्च शुचिर्नामा वैद्युतः पावकः स्मृतः॥ निर्मथ्यपचमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः। अग्नीनां पुत्त्र-पौत्त्राश्च चत्वारिंशन्नवैव तु। मरुतामपि सर्वेषां बिज्ञेयाःसप्त सप्तका इति”॥ तेषां नामान्युक्तानि वह्निपुराणे यथा(
“एकज्योतिश्च द्विज्योतिस्त्रिज्योतिर्ज्योतिरेव च। एक-शक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः॥ इन्द्रश्च गत्य-दृश्यश्च ततः पतिसकृत्परः। मितश्च सम्मितश्चैव सुमि-तश्च महाबलः॥ ऋतजित् सत्यजिच्चैव सुषेणः सेनजि-त्तथा। अन्तिमित्रोऽनमित्रश्च पुरुमित्रोऽपराजितः॥ ऋतश्च ऋतवाहश्च धर्त्ता च धरुणो ध्रुवः। विधारणो नामतथा देवदेवो महाबलः॥ ईदृक्षश्चाप्यदृक्षश्च एते दश[Page0166-b+ 38] मिताशिनः। व्रतिनः प्रसदृक्षश्च सभरश्च महायशाः॥ धातादुर्गोधितिर्भीमस्त्वभियुक्तस्त्वपात् सहः। घुतिर्घपुरनाय्योऽथवासः कामो जयो विराट्॥ इत्येकोनाश्च पञ्चाशन्मरुतःपूर्व्वमम्भवाः इति”॥ एवञ्च अनिलस्य ऊनपञ्चाशद्भेदवत्त्वेनसप्तभेदवत्त्वेन च गणदेवतात्वम् अयञ्चानिलाधिष्ठाता दिक्-पालभेदः तस्य च गन्धवतीनामिका पुरी मेरोः शृङ्गेवरुण-कुवेरपुरयोर्मध्येऽस्ति। तस्य पूर्ब्बादिदिग्भेदेन वहनभेदेन
“चशुभाशुभसूचकत्वमुक्तं
“पूर्ब्बः पूर्वसमुद्रवीचिशिखरप्रस्फाल-नाघूर्णितश्चन्द्रार्कांशुसटाभिघातकलितो वायुर्यदाकाशतः। नैकान्तस्थितनीलमेघपटलां शारद्यसंवर्धितां वासन्तोत्कट-सस्यमण्डिततलां विद्यात्तदा मेदिनीम्॥ यदाग्नेयो वायु-र्मलयशिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गेप्रवसति। तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततलास्वगात्रोष्मोच्छासैर्वमति वसुधा भस्मनिकरम्॥ तालीपत्र-लतावितानतरुभिः शास्वामृगान्नर्तयन् योगेऽस्मिन् प्लवतिध्वनन् सुपरुषो वायुर्यदा दाक्षिणः। सर्वोद्योगसमुन्नताश्चगजवत्तालाङ्कुशैर्घट्टिताः कीनाशा इव मन्दवारिकणिका-न्मुञ्चन्ति मेघास्तदा॥ सूक्ष्मैलालवलीलवङ्गनिचयान्व्याघूर्णयत् सागरे भानोरस्तमये प्लवत्यविरतो वायुर्यदानैरृतः। क्षुत्तुष्णाभृतमानुषास्थिशकलप्रस्तारभारच्छदामत्ता प्रेतवधूरिवोग्रचपला भूमिस्तदा लक्ष्यते॥ यदारेणूत्पातैः प्रविकटसटाटोपचपलः प्रवातः पश्चार्धे दिन-करकरापातसमये। तदा सस्योपेता प्रवरनृवराबद्धसमराधरा स्थाने स्थानेष्वविरतवसामांसरुधिरा॥ आषाढीपर्व-काले यदि किरणपतेरस्तकालोपपत्तौ वायव्यो वृद्धवेगःप्लवति घनरिपुः पन्नगादानुकारी। जानींयाद्वारिधारा-प्रमुदितमुदितां मुक्तमण्डूककण्ठां सस्योद्भासैकचिह्नां सुख-बहुलतया भाग्यसेनामिवोर्वीम्। मेरुग्रस्तमरीचिमण्डलतलेग्रीष्मावसाने रवौ वात्यामीदिकदम्बगन्धसुरभिर्वायुर्यदाचोत्तरः। विद्युद्भ्रान्तिसमस्तकान्तिकलनामत्तास्तदा तोयदाउन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः॥ ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्ना-गागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः। आपूर्णो-दकयौवना वसुमती सम्पन्नसस्याकुला धर्म्मिष्ठाः प्रणतारयोनृपतयो रक्षन्ति वर्णांस्तदा” इति वृहत्संहितायाम्॥ अथ वेद्यकोक्ता दिग्भववायुगुणाः।
“प्राग्वातो मधुरः क्षारोवह्निमान्द्यकरो गुरुः। वेरस्य गौरवौष्णानि करोत्यप्स्वोष-धीषु च॥ भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत्। सन्नि-[Page0167-a+ 38] पातज्वरश्वासत्वग्दोषार्शोविषक्रमीन्॥ कोपयेदामवातञ्चघनसंघातकारणम्,॥ दाक्षिणो मारुतोबल्यश्चक्षुष्यः शस्य-घातकः। मधुरश्चाम्लदाही च कषायानुरसो लघुः॥ रक्त-पित्तप्रशमनी न च मारुतकोपनः। गण्डूपदादिकीटानांजनकः प्राणकारकः,॥ पाश्चिमोऽग्निवपुर्वर्णबलारोग्यविव-र्द्धनः। कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः॥ अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः। सर्व्वद्रव्येष्वभिव्यक्त-प्रभावरसवीर्य्यकृत्॥ व्रणसंरोपणस्त्वच्यो दाहशोथतृषा-पहः,॥ औत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च। कषायानुरसः शीतः सर्वदोषप्रकोप(णः)नः॥ क्षीणक्षतविषार्त्तानां हितोदाहतृषापहः। शीताधिकः सनीहारःस विद्युत्स्तनयित्नुमान्,॥ विष्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत्। सर्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः” इति॥ तालादिव्यजनवायुगुणाः। मूर्च्छादाहतृषास्वेद-श्रमघ्नो व्यजनानिलः। तालवृन्तमयो वातस्त्रिदोषशमनोलघुः। वंशव्यजनजो वातो रूक्षोष्णो वातपित्तदः। बालव्यजनमौजस्यं मक्षिकादीन् व्यपोहति॥ मायूरावस्त्रजा वैत्रा वाता दोषत्रयापहा” इति। ( सूक्ष्मस्तु वायुः शरीरस्थः प्राणादिभेदेन दशविधः दश-विधकार्य्य करणात्। यथोक्तम् वैद्यके
“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः॥ प्राणस्तुप्रथमो वायुर्नराणामधिपः प्रभुः। नित्यमावापयेत्सर्व्वान् प्राणिनामुरसि स्थितः॥ निःश्वासोच्छ्वासकश्चैवप्राणो जीवं समाश्रितः। प्रसाराकुञ्चनो वायुः प्रकाशोधारणस्तथा॥ प्राणस्त्वेवंविधं कुर्य्यात् प्राणिनां प्राण-धारकः। प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकी-र्त्तितः। प्राणो हि भगवान् ईशः प्राणो विष्णुः पिता-महः। प्राणेन धार्य्यते लोकः सर्वं प्राणमयं जगत्॥ इन्द्रियाणि प्रवर्त्तन्ते यावत् प्राणानिलो हृदि। नष्टे नदृश्यते सर्वं तस्मात् प्राणन्तु रक्षयेत्,॥ रज्जुबद्धो वथाश्येनो गतोऽप्याकृष्यते पुनः। गुणवद्धस्तथा जीवः प्राणा-पानेन कृष्यते,॥ अपानयंस्तथाहारं मनुजानां यतोऽ-धमः। शुक्रमूत्रव्रजे वायुरपानस्तेन कीर्त्तितः,॥ पीतंभक्षितमाघ्रात रक्तं पित्तकफानिलान्। समं नयतिगात्रेषु समानो नाम मारुतः॥ समानोऽग्निसमीपस्थःकोष्ठे च वाति सर्वतः। अन्नं गृह्णाति पचति विरेचयतिमुञ्चति॥ स्पन्दयत्यधरं वक्त्रं नेत्रगात्रप्रकोप(नः)णः,। [Page0167-b+ 38] उद्वेजयति मर्म्माणि उदानो नाम मारुतः॥ व्यानो-विनामयत्यङ्गं व्यानो व्याधिप्रकोप(नः)णः। प्रीतेर्विना-शकश्चायं वार्द्धकोत्पादकस्त्रिधा इति॥ ( प्राणादीनां स्थानानि।
“शिरसो नासिकाग्रान्तमुदान-स्थानमुच्यते। नाभेः पादतलं यावदपानस्य प्रकीर्त्तितम्॥ शरीरव्यापको व्यानः प्राणः सकलनायकः। उद्गारे नागइत्युक्तः कूर्म्मश्चोन्मीलने स्थितः॥ कृकरः क्षुधिते चैव देवदत्तोविजृम्भिते। धनञ्जयस्थितो मेढ्रे मृतस्यापि न मञ्चति॥ भूतावाप्तिस्ततस्तस्याजायतेन्द्रियगोचरात्॥ उत्साहो-च्छ्वासनिःश्वासचेष्टा धातुगतिः समा। समो मोक्षेगतिमतां वायोः कर्म्माविकारजम्” इति सुखबोधः॥ प्राणादयश्च पञ्चसूक्ष्मभूतरजोगुणेभ्यः समस्तेभ्य उत्पद्यन्तेइति वेदान्तिमतम् सकलेन्द्रियाणां व्यापार एव प्राणो नपदार्थान्तरमिति सांख्यमतं विवरणं प्राणशब्दे दृश्यम्। ( उदानादीनां कर्म्मविशेषा उक्ता यथा
“उदानो नामयं स्तूर्द्ध्वमुपैति पवनोत्तमः। तेन भाषितगीतादिप्रवृत्ति-कुपितस्तु सः॥ ऊर्द्ध्वजत्रुगतान् रीगान् विदधातिविशेषतः॥ यो वायुः प्राणनामासौ सुखं गच्छतिदेहघृक्॥ सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते। प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्॥ आमपक्काशयचरः समानो वह्निसंगतः। सोऽन्नं पचतितज्जांश्च विशेषान् विविनक्ति हि॥ स दुष्टो वह्नि-मान्द्यातिसारगुल्मान् करोति हि। पक्वाशयालयोऽपानःकाले कर्षति चाप्ययम्॥ समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवा-न्यधः। क्रुद्धस्तु कुरुते रोगान् घोरान् वस्तिगुदाश्रयान्॥ शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान्। कृत्स्नदेहचरोव्यानो रससंव्यूहनो यतः॥ स्वेदासृक्स्रावणञ्चापि पञ्चधाचेष्टयत्यपि। गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः॥ प्रायः सर्व्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्। प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम्॥ धारणञ्चेतिपञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः। क्रुद्धः स कुरुते रोगान्प्रायशः सर्वदेहगान्॥ युगपत् कुपिता एते देहंभिन्द्युरसंशयम् इति च वैद्यके उक्तम्। ( तत्र देहस्थस्य वायोर्विकारहेतुलक्षणादिकमुक्तं वैद्यके
“व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षयाज्जागरात्वेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः। रूक्षक्षारकषायतिक्तककुकैरोभिः प्रकोपं व्रजेत् वायुर्वारिधरागमेपरिणते चान्नेऽपराह्णेऽपि च”॥ विकृतवायुलक्षणम्। [Page0168-a+ 38]
“आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्पप्रतोदाः कण्ठ-ध्वंसावसादौ श्रमकविलपनं श्रंसशूलप्रभेदाः। पारुष्यंकर्णनादो विषमपरिणतिभ्रंसदृष्टिप्रमोहा विस्पन्दोद्घट्ट-नादिग्लपनमनशनं ताडनं पीडनञ्च॥ नामोन्नामौविषादो भ्रमपरिषदनं जृम्भणं रोमहर्षो विक्षेपाक्षेपशोष-ग्रहणशुषिरता छेदनं वेष्टनञ्च। वर्णः श्यावोऽरुणोवा तृडपि च महती स्वापविश्लेषसङ्गा विद्यात्कर्म्माण्यमूनि प्रकुपितपवने स्यात् कषायो रसश्च”॥ किञ्च
“वदनविरसता स्याद्वर्चसः कर्कशत्वं भवति वपुषि कार्श्यंरात्रिनिद्रानिवृत्तिः। त्वचि च परुषता स्यात् स्याच्चवैषम्यमग्नेरिति पवनविकारे लक्षणं प्रोक्तमेतत्”॥ तत्-प्रशमनकारणम् यथा।
“रूक्षः शीतो लघुः सूक्ष्मश्चलो-ऽथ विशदः खरः। विपरीतगुणैर्द्रव्यैर्मारुतः संप्र-शाम्यति”॥
“स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैला-तपस्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्द्दनैः। स्निग्ध-स्वेदनिरूहणोपशमनः स्नेहोपनाहादिकं पानाहार-विहारभेषजमिदं वातं प्रशान्तं नयेत्”॥ ऋतुभेदेनविहारादिना च तस्य प्रकोपप्रचयप्रशमाद्युक्तं यथा
“ग्रीष्मेसञ्चीयते वायुः प्रावृट्काले प्रकुप्यति। प्रायेणोपशमंयाति स्वयमेव सभीरणः॥ शरत्काले वसन्ते च पित्तंप्रावृडृतौ कफः। चयकोपशमान्दोषान् विहाराहारसेवनैः॥ समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययः” इति॥ नरपतिजयचर्य्योक्तमनिलचक्रन्तु चक्रशब्दे वक्ष्यते। अना-हतचक्रस्थवायुमण्डंलविवरणं तन्त्रोक्तं षट्चक्रशब्देदृश्यम्। तद्देवताके स्वातिनक्षत्रे, अष्टवसुमध्ये पञ्चमे वसौच।
“यरोध्रुवः सोमनामा तथापोऽप्यनिलो नलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिता” इति विष्णुधर्म्मो॰पुरा॰। विष्णौ, तस्य प्राणात्मना सर्वदेहधारणात् तथात्वम्
“अहः संवर्त्तको वह्निरनिलो धरणीधर” इति विष्णु॰स॰। शरीरस्थे धातुभेदे च। तस्य विवरणमुक्तप्रायम्।
“पित्तं पङ्गुः कफः पङ्गुः पङ्गवो मलधातवः। वायुनायत्र नीयन्ते तत्र वर्षन्ति मेघवत्॥ वायुरायुर्बलं वायु-र्वायुर्धाता शरीरिणाम्। वायुर्विश्वमिदं सर्वं प्रभुर्व्वायुःप्रकीर्त्तितः॥ वाह्यमण्डलचक्रेषु यथा राजा प्रशस्यते। तथा शरीरमध्येऽपि वायुरेकः परो विभुरिति” वैद्यकम्॥ दोषधातुमलादीनां नेता शीघ्रः समीरणः॥ रजोगुणभयःसूक्ष्मो रूक्षशीतो लघुश्चलः॥ उत्साहोच्छासनिःश्वासचेष्टा-वेगप्रवर्त्तनैः। सम्यग्गत्या च धातूनामिन्द्रियाणाञ्च पाटवैः॥ [Page0168-b+ 38] अनुगृह्णात्यविकृतो हृदयेन्दियचित्तधृक्। स्वरो मृदुर्योग-वाही संयोगादुभयार्थकृत्। दाहहृत्तेजसा युक्तः शीतकृत्सोमसंश्रयात्॥ विभागकरणाद्वायुः प्रधानं दोषसंग्रहैः। पक्काशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम्॥ स्थानं वातस्यतत्रापि पक्वाधानं विशेषतः” इति।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिल¦ m. (-लः)
1. Air or wind considered also as a deity.
2. A subordinate deity, forty-nine of form whom a class, ANILAS or winds.
3. One of another class demigods or Vasus.
4. Wind, as one of the humors of the body.
5. Rheumatism, paralysis, or any affection referred to dis- order of the wind. E. अन to breathe, इलट् aff. f. (-ली) The fifteenth Nakshatra or lunar mansion. See स्वाति। E. अनिल and the fem. termination: the wind being the ruling deity of the constellation.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिलः [anilḥ], [अनिति जीवति अनेन, अन् इलच् Uṇ.1.54]

Wind; वायुरनिलममृतमथेदम् Īśop.17. प्राणानामनिलेन वृत्तिरुचिता Ś.7.12; स सखा दीप इवानिलाहतः Ku.4.3. (The number of winds is 7: आवहो निवहश्चैव उद्वहः संवहस्तथा । विवहः प्रवहश्चैव परिवाहस्तथैव च ॥ and these are again subdivided into 7 divisions, the total number being 49).

The god of wind.

One of the subordinate deities, 49 of whom form the class of winds.

N. of one of the 8 Vasus,i. e. the fifth.

The wind in the body, one of the humours; ˚हन्, ˚हृत्, ˚घ्न.

Rheumatism or any disease referred to disorder of the wind.

The letter य्.

Symbolical expression for the number 49.

N. of the lunar asterism स्वाति.

N. of Viṣṇu (तस्य प्राणात्मना सर्वदेहधारणात् तथात्वम्). -Comp. -अयनम् way or course of the wind. -अशन, -आशिन् a. [अनिलमश्नातीति]

feeding on the wind, fasting.

a serpent. आर्जवेन विजानामि नासौ देवो$निलाशन Mb.12.36.5. -अन्तकः (wind-destroying) N. of a plant (Iṅgudī) or अङ्गारपुष्प. -आत्मजः son of the wind, epithet of Bhīma and Hanūmat.-आमयः [अनिलकृतः आमयः शाक. त.]

flatulence.

rheumatism (वातरोग). -घ्न, -हन्, -हृत् a. curing disorders from wind. -घ्नकः a large tree (बिभीतक) Terminalia Belerica. (Mar. बेहडा). -पर्यायः pain and swelling of the eyelids and outer parts of the eye. -प्रकृतिa. of a windy nature. (-तिः) N. of the planet Saturn. -भद्रकः a. kind of chariot. With regard to shape the chariots are divided into seven classes नभस्वद्भद्रक, प्रभञ्जनभद्रक, निवातभद्रक, पवनभद्रक, परिषद्भद्रक, इन्द्रकभद्रक, and अनिलभद्रक Māna.43.112-115. -व्याधिः derangement of the bodily (internal) wind. -सखः, -सारथिः fire (the friend of wind); जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः Mb.1.15.1. so ˚बन्धुः.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिल m. ( अन्See. Trish अनल्) , air or wind

अनिल m. the god of wind

अनिल m. one of the forty-nine अनिलs or winds

अनिल m. one of the eight demi-gods , called वसुs

अनिल m. wind as one of the humors or रसस्of the body

अनिल m. rheumatism , paralysis , or any affection referred to disorder of the wind

अनिल m. N. of a ऋषिand other persons

अनिल m. the letter य्

अनिल m. the number forty-nine.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--The God of Wind invoked. फलकम्:F1:  भा. III. 6. १६.फलकम्:/F A surname of वायु; फलकम्:F2:  Br. II. २५. १२.फलकम्:/F father of भीमसेन. फलकम्:F3:  Vi. IV. १४. ३५; भा. IX. २२. २७.फलकम्:/F
(II)--a वासव: married शिवा and had two sons --Manojava and अविज्ञतगति. See इशान। Br. II. १०. ८०; III. 3. २१; M. 5. २१; २०३. 3; वा. ६६. २०, २५; Vi. I. १५. ११०, ११४.
(III)--The वायु पुराण narrated by Wind-god with समास बन्धस् and rhythm; फलकम्:F1:  वा. 3. 8.फलकम्:/F २३,000 stanzas. फलकम्:F2:  वा. १०४. 7.फलकम्:/F
(IV)--a son of कृष्ण and मित्रविन्दा. भा. X. ६१. १६.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anila : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked by śrīvatsa; his deity Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying his kinsmen 5. 99. 2-8.


_______________________________
*2nd word in right half of page p2_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anila : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked by śrīvatsa; his deity Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying his kinsmen 5. 99. 2-8.


_______________________________
*2nd word in right half of page p2_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनिल&oldid=485944" इत्यस्माद् प्रतिप्राप्तम्