अनुशय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशयः, पुं, (अनु + शी + भावे अच्, शयं हस्त- मनुगतः प्रादिसमासः, हस्तानुगते त्रि ।) दीर्घ- द्वेषः । पूर्ब्बवैरता । अनुतापः । इत्यमरः । (“अनु- शयादनुरोदिमि चोत्सुकः” । “अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम्” । इति शाकुन्तले ।) द्वेषः । अनुबन्धः । इति मेदिनी ॥ (क्रोधः । पश्चा- त्तापादिकारणात् विप्रतिपत्तिः । यथा, -- “क्रयविक्रयानुशयो विवादः स्वामिपालयोः” । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशय पुं।

दीर्घद्वेषः

समानार्थक:अनुशय

3।3।148।2।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अनुशय पुं।

पश्चात्तापः

समानार्थक:पश्चात्ताप,अनुताप,विप्रतीसार,अनुशय

3।3।148।2।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशय¦ पु॰ अनु + शीङ्--अच्। अत्यन्तद्वेषे, पश्चात्तापे, पूर्बवैरेच। अनुगतः शयं हस्तं गतिस॰ हस्तानुगते त्रि॰। तत्र क्रीतादिपदार्थविशेषेणानुशयस्वरूपादि नारदेनोक्तम्।
“क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते। क्रीतानुशयइत्येतद्धिवादपदमुच्यते”। तत्र च यस्मिन्नहनि पण्यंक्रीतन्तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम्।
“क्रीत्वा मूल्येन यत् पण्यं दुःक्रीतं मन्यते क्रयी। विक्रेतुःप्रतिदेयन्तत्तस्मिन्नेवाह्न्यविक्षतमिति”। द्वितीयादिदिने तुप्रत्यर्पणे विशेषस्तेनैवोक्तः।
“द्वितीयेऽह्नि ददत् क्रेतामूल्यात्त्रिंशांशमाहरेत्। द्विगुणन्तु तृतीयेऽह्नि परतःक्रेतुरेव तदिति”। परतोऽनुशयो न कर्त्तव्य इत्यर्थः। एतच्च वीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम्। वीजादिक्रये पुनरन्य एव प्रत्यर्पणेऽवधिरित्याह।
“दशैक-[Page0187-a+ 38] पञ्चसप्ताहमासत्र्यहार्द्धमासिकम्। वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम्”। वीजं व्रीह्यादिवीजम्। अयोलौहम्। वाह्यो बलीवर्द्दादिः। रत्नं मुक्ताप्रबालादि। स्त्रींदासी। दोह्यं महिष्यादि।{??}मान् दासः। एषांवीजादीनां यथाक्रमेण दशाहादेकः परीक्षाकालोविज्ञेयः। परीक्ष्यमाणे च वीजादौ यद्यसम्यग्बुद्ध्याऽनु-शयो भवति तदा दशाहाभ्यन्तर एव क्रयनिवृक्षिः। नपुनरूर्द्ध्वमित्युपदेशप्रयोजनम्। यत्तु मनुवचनम्।
“क्रीत्वावि{??}ईय वा किञ्चित् यस्येहानुशयो भवेत्। सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वेति”। तदुक्तलोहादिव्यति-रिक्तोपभोगादिविनश्वरगृहक्षेत्रयानशयनासनादिविषयम्। सर्वञ्चैतदपरीक्षितक्रीतविषयम्। यत् पुनः परीक्षितन्नपुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्दिकेत्रे न प्रत्य-र्पणीयम् तदुक्तम्।
“क्रेता पण्यं परीक्षेत प्राक् स्वयंगुणदोषतः। परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत् पुन-रिति” मिता॰। ततश्च क्रीतस्य, विक्रीतस्य, अन्यथा वाकृतस्य वस्तुनः, असमीचीनत्वबुद्ध्या यः पश्चात्तापः सोऽनुशयइति बोध्यम्।
“भुक्तकर्म्मणोऽवशेषे च
“कृतात्ययेऽनुशय-वान् दृष्टस्मृतिभ्यां यथेतमनेवमिति” शा॰ सू॰ स्वर्गार्थ-कर्म्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानु-सारिस्नेहवत् यथा हि स्नेहभाण्डं विरिच्यमानं न सर्वा-त्मना विरिच्यते भाण्डानुसार्य्येव कश्चित् स्नेहशेषोऽवतिष्ठतेतथानुशयोऽपीति” भा॰।
“तत्र दृष्टं प्रत्यक्षं श्रुतिःसा हि सानुशयानामेवावरोहं दर्शयति यथा
“तद्य इहरमणी चरणा अभ्यासोह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षतिययोनिं वा वैश्ययोनिं वा अथ य इहकपूयचरणा अभ्यासोह यत्ते कपूयां योनिमापद्येरन् श्व-योनिं वा शूकरयोनिं चाण्डालयोनिं वेति”। चरणशब्देनानुशयः (शेषः) सूच्यते। दृष्टश्चायं जन्मनैव प्राण्युच्चाव-चरूपौपभोगः गवि{??}ज्यमान आकस्मिकत्वासम्भवात् अनु-शयसडायं सूचय{??} अभ्युदयप्रत्यवाययोः सुकृतदुप्कृतहेतु-कत्वस्य सामान्यतः शास्त्रेणावगमितत्वादिति च शा॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशय¦ m. (-यः)
1. Repentance, regret.
2. Ancient enmity.
3. Hatred, resentment.
4. Attachment to or pursuance of any object. f. (-यी)
1. A disease of the feet, a boil or abscess on the upper part.
2. A pimple on the head. E. अनु, शीङ् to sleep, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशय [anuśaya] शयिन् [śayin], शयिन् &c. See under अनुशी

अनुशयः [anuśayḥ], [शी-अच्]

Repentance, remorse; regret, sorrow; नन्वनुशयस्थानमेतत् Māl.8; कुतस्ते$नुशयः M.3 why should you be sorry; बाष्पं प्रमृज्य विगतानुशयो भवेयम् Ś.7.25; इतो गतस्यानुशयो मा भूदिति V.4; ततः सपत्नापनयस्मरणानुशयस्फुरा Śi.2.14.

Intense enmity or anger; शिशुपालो$नुशयं परं गतः Śi.16.2; यस्मिन्नमुक्तानुशया सदैव जागर्ति भुजङ्गी Māl. 6.1.

Hatred.

Close connection, as with a consequence; close attachment (to any object). अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने । शुभानुशययोगेन मनुष्येषूपजायते ॥ Mh.3.261.33.

(In Vedānta Phil.) The result or consequence of bad deeds which very closely clings to them and makes the soul enter other bodies after enjoying temporary freedom from recurring births; (स्वर्गार्थकर्मणो भुक्तफलस्य अवशेषः कश्चिदनुशयो नाम भाण्डानुसारि- स्नेहवत्, यथा हि स्नेहभाण्ड विरिच्यमानं सर्वात्मना न विरिच्यते भाण्डा- नुसार्येव कश्चित् स्नेहशेषो$वतिष्ठते तथानुशयो$पि Tv.).

Regret in the case of purchases, technically called rescission; क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् Ms. 8.222; see क्रीतानुशय. cf. ......अनुशयो द्वेषे पश्चात्तापानुबन्धयोः and...... अनुशयो दीर्घद्वेषानुतापयोः Nm. -यी A disease of the feet, a sort of boil or abscess on the upper part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुशय/ अनु-शय etc. See. अनु-1. शी.

अनुशय/ अनु-शय m. close connection as with a consequence , close attachment to any object

अनुशय/ अनु-शय m. (in phil. ) the consequence or result of an act (which clings to it and causes the soul after enjoying the temporary freedom from transmigration to enter other bodies)

अनुशय/ अनु-शय m. repentance , regret

अनुशय/ अनु-शय m. hatred

अनुशय/ अनु-शय m. ancient or intense enmity

"https://sa.wiktionary.org/w/index.php?title=अनुशय&oldid=486337" इत्यस्माद् प्रतिप्राप्तम्