सामग्री पर जाएँ

अनुष्टुभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुप्, [भ्] स्त्री, (अनु सततं स्तुभ्यतेऽनया, अनु + स्तुन्भ + क्विप् षत्वं ।) सरस्वती । इति शब्दरत्नावली ॥ अष्टाक्षरपदं छन्दः । सा तु समार्द्धसमविषमवृत्तभेदेन त्रिधा तत्र शेषस्य प्रायिकप्रयोगः । तस्य लक्षणं । “पञ्चमं लघु सर्व्वत्र सप्तभं द्विचतुर्थयोः । गुरु षष्ठन्तु पादानां शेषेष्वनियमो मतः” ॥ इति छन्दोमञ्जरी ॥ अस्याः प्रस्ताराः २५६ । इति पिङ्गलः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुभ्¦ स्त्री अनु + स्तुन्भ--क्विप् षत्वम्। सरस्वत्याम्, अष्टा-क्षरपादके, छन्दोभेदे वाचि च। अनुष्टुप्छन्द इति य॰

१५ ,

५ ,
“अनु निरन्तरं स्तुभ्यतेऽनया अनुष्टुप् वाक्” वागेवसंस्तुप् छन्दः
“वागनुष्टुप् छन्द” इति श्रुतेरिति वेददी॰।
“अनुष्टोभनादनुष्टुबिति” ब्राह्मणे निरुक्तिः।
“गायत्र्युष्णि-गनुष्टुप् चेति वृत्त॰। अनुष्टुप् च द्विविधा यथा कथञ्चिद-अष्टाक्षरपादिका जातिः, विशेषसन्निवेशयुक्ताक्षरं छन्दश्च। तत्र जातेः

२५

६ भेदाः।
“पञ्चमं लघु सर्व्वत्र सप्तमं द्विचतु-र्थयोः। गुरु षष्ठञ्च पादानां शेषेर्ष्वनियमो मत” इतिछन्दोमञ्जर्य्युक्तलक्षणं द्वितीयम्। तस्य च पञ्चमलघुत्वंव्यभिचरति च
“यियक्षमाणेनाहूत” इति माघः। तस्यच मात्रावृत्तरूपत्वं यथा
“प्रयोगे प्रायिकं प्राहुः केऽप्येत-द्वक्तलक्षणम्। लोकेऽनुष्टुबिति ख्यातम् तस्याष्टाक्षरता कृतेतिछन्दोम॰। अतएव वृत्तरताकरे
“वक्त्रं नाद्यान्नसौ स्यामब्देर्योऽनुष्टुभि ख्यातमिति” वक्त्रनामतोक्ता। वर्ण्णवृ-त्तस्य तु वितानमिति नाम यथोक्तं वृत्तरत्नाकरे
“वितान-माभ्यां यदन्यदिति। ” आभ्यां समानिकाप्रमाणिका-भ्यामन्यत् सर्वमित्यर्थः।
“अथ छन्दांसि गायत्र्युष्णिगनु-ष्टुब्वृहतीपङ्क्तित्रिष्टु बित्याद्युपक्रम्य चतुर्विशत्यक्षरादीनिचतुरुत्तराणि, ऊनाधिकेनैकेन निचृद्भूरिजौ, द्वाभ्यां वि-राट्स्वराजौ, पादपूरणार्थं तु क्षिप्रसंयोगैकाक्षरीभावात्व्यूहेदिति
“अनादेशेऽष्टाक्षराः पादाश्चतुष्पदाश्चर्च इति[Page0189-a+ 38] तृतीयमनुष्टुबिति” च कात्या॰ सर्व्वानुक्र॰
“शुचिमनु-ष्णिहा प्राणमनुष्टुभेति” यजु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुभ्¦ f. (-ष्टुप्)
1. A measure of verse, the stanza consisting four lines of eight syllables each, or three lines of eight, twelve, and twelve, making, in either case, thirty-two.
2. A name of SARASWATI. E. अनु, and ष्टुभ् to stop, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुभ् [anuṣṭubh], 1 P. (˚स्तुभ्) To praise after, follow in praising.

अनुष्टुभ् [anuṣṭubh], f. [अनु निरन्तरम् स्तुभ्यते$नया अनुष्टुप् वाक्]

Following in praise; speech.

Sarasvatī.

N. of a class of metres consisting of four Pādas of 8 syllables each, the whole stanza consisting of 32 syllables (so called because it follows with its praise i. e. अनुष्टोभति the Gāyatrī, which has 3 Pādas), अनुष्टोभनादनुष्टुप्. In later metrical systems it stands as a general name for all metres which have 8 syllables in each foot (the highest possible number being computed to be 256); पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च पादानां शेषेष्वनियमो मतः ॥ which rule is sometimes violated. अनुष्टुभा सोम उक्थै- र्महस्वान् Rv.1.13.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुभ्/ अनु-ष्टुभ् ( स्तुभ्)to praise after , to follow in praising Nir.

अनुष्टुभ्/ अनु-ष्टुभ् f. प्( nom. ष्टुक्TS. )following in praise or invocation

अनुष्टुभ्/ अनु-ष्टुभ् f. a kind of metre consisting of four पादs or quarter-verses of eight syllables each (according to the DaivBr. , quoted in Nir. vii , 12 , so called because it अनुष्टोभतिi.e. follows with its praise the गायत्री, which consists of three पादs) RV. x , 130 , 4 , etc.

अनुष्टुभ्/ अनु-ष्टुभ् f. (in later metrical systems , the अनुष्टुभ्constitutes a whole class of metres , consisting of four times eight syllables)

अनुष्टुभ्/ अनु-ष्टुभ् f. hence the number eight

अनुष्टुभ्/ अनु-ष्टुभ् f. speech , सरस्वतीL.

अनुष्टुभ्/ अनु-ष्टुभ् mfn. praising RV. x , 124 , 9.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्टुभ् स्त्री.
8 अक्षरों वाले चार चरणों (पादों) से युक्त छन्द (वह छन्द जिसके चार चरण होते हैं एवं प्रत्येक चरण में 8 अक्षर होते हैं) जै.ब्रा. I.32।

"https://sa.wiktionary.org/w/index.php?title=अनुष्टुभ्&oldid=476468" इत्यस्माद् प्रतिप्राप्तम्