अन्तरङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरङ्गः, त्रि, (अन्तः सदृशं अङ्गं यस्य सः ।) आत्मीयः । स्वसम्पर्कः । यथा, -- “चरमगिरिकुरङ्गी शृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरङ्गः कुरङ्गः” । इति कालिदासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरङ्ग¦ पु॰ अन्तरं सदृशमङ्गं यस्य। अत्यन्तप्रिये,
“समीप-गोऽन्तरङ्गःप्रियो भवतीति” छा॰ उप॰ भा॰।
“चरमगिरि-कुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरङ्गः[Page0199-a+ 38] कुरङ्गः” इति। वहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येअन्तभूतानि अङ्गानि निमित्तानि यस्य। व्याकरणोक्तेपरनित्यवहिरङ्गबाधके नैमित्तिककार्य्यभेदे, तद्बोधकशास्त्रे च। यथा ग्रामणिनी कुले इत्यादौ
“इकोऽचीति” पा॰ नित्यप्राप्तनुमं बाधित्वा
“ह्रस्वो नपुंसके” इति पा॰ ह्रस्वः। पूर्ब्बंकृते तु नुमि अजन्तत्वाभावात् ह्रस्वो न स्यात्। ततश्चनुम्रूपकार्य्यं प्रत्ययस्थाज्रूपं निमित्तमपेक्षतेइति तद्वहिरङ्ग,ह्रस्वस्तु प्रकृतिमात्रसापेक्षत्वात् अन्तरङ्ग इति तस्य वहिरङ्ग-निमित्तककार्य्यबाधकत्वे वीजम्।
“परनित्यान्तरङ्गापवादा-नामुत्तरोत्तरं बलोय इति”
“असिद्धं वहिरङ्गमन्तरङ्ग” इतिच परि॰ सि॰ को॰। एतन्मूलिकैव
“वहिरङ्गविधिभ्यस्तुअन्तरङ्गविधिर्बलीति” कारिका। अन्तः आसन्नमङ्गं कर्म्म॰। आरादुपकारके न॰ यथा ब्रह्मसाक्षात्कारे श्रवणमनननिदिध्यासनानि, संप्रज्ञातसमाघौ च धारणादीनि त्रीणिअन्तरङ्गाणि। यमादयस्तु पञ्च वहिरङ्गाणि। तथा हियमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयैत्यष्टौसंप्रज्ञातसमाधेरङ्गानि तत्र यमादयः वहिरङ्गाणि, प्रति-बन्धकस्य चित्तकायप्राणेन्द्रियमलस्य निवर्त्तनेन परम्परयाउपकारकत्वात्, धारणादयस्तु संप्रज्ञातसमाधेः समान-विषयतया साक्षात्स्वरूपोपकारकत्वादन्तरङ्गाणीति अत एवधारणादित्रयमभिधाय
“त्रयमन्तरङ्गं पूर्ब्बेभ्य” इतिपात॰ सूत्रे धारणादित्रयस्यान्तरङ्गत्वमुक्तम्। धारणादि-स्वरूपादि तत्तच्छब्दे वक्ष्यते। असंप्रज्ञातसमाधौ तु सर्व्वा-ण्येव वहिरङ्काणि असमानविषयत्वादिति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं)
1. Own, belonging to.
2. Internal, interior.
3. Of kin. E. अन्तर, and ग what goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरङ्ग/ अन्तर्--अङ्ग mfn. interior , proximate , related , being essential to , or having reference to the essential part of the अङ्गor base of a word

अन्तरङ्ग/ अन्तर्--अङ्ग n. any interior part of the body VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अन्तरङ्ग&oldid=486528" इत्यस्माद् प्रतिप्राप्तम्