अन्तर्यामिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्यामी, [न्] पुं, (अन्तर्मध्ये यमयति स्वस्व- कार्य्येषु इन्द्रियादीनि नियोजयति, अन्तर् + यम् + णिच् + उपपदसमासः ।) अन्तःकरण- नियामकः । तत्पर्य्यायः । आत्मा २ जीवः ३ पुरुषः ४ पुद्गलः ५ ईश्वरः ६ । इति त्रिकाण्डशेषः ॥ विशु- द्धसत्वप्रधानाज्ञानोपहितचैतन्यं । इति वेदान्त- सारः ॥ मनोगतज्ञे त्रि ॥ (“अन्तराविश्य भूतानि योबिभर्त्त्यात्मकेतुभिः । अन्तर्यामीश्वरः साक्षात् पातु नो यद्वशे स्फुटम्” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्यामिन्¦ पु॰ अन्तर्मध्येऽनुप्रविश्य यमयति स्वस्वकर्म्मणिइन्द्रियादीनि जीवं वा व्यापारयति यम + णिच्--णिनि।
“अन्तराविश्य भूतानि यो बिभर्त्त्यात्मकेतुभिः। अन्तर्यामी-श्वरः ताक्षात् भवे” दित्युक्ते ईश्वरे
“अन्तरेष यमयती-त्यादि” वृहदारण्यकान्तर्यामिब्राह्मणोक्तेस्तस्य तथात्वम्। आत्मकेतुभिः निजव्यापारैः प्राणादिवृत्तिभिरित्यर्थः। वायौ च तस्य सर्व्वप्राणिषु अध्यात्मवायुरूपेण स्थितत्वा-त्तथात्वम्। अन्तर्गतवस्तुज्ञातरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्यामिन्¦ mfn. (-मी-मिनी-मि)
1. Checking or regulating the internal feelings.
2. Heart-searching or pervading. m. (-मी)
1. The soul.
2. Providence, the Supreme spirit, as regulating and guiding man- kind.
3. Conscience. E. अन्तर् within, and यामिन् who stops or refrains.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तर्यामिन्/ अन्तर्--यामिन् m. " checking or regulating the internal feelings " , the soul S3Br. xiv Mun2d2Up.

"https://sa.wiktionary.org/w/index.php?title=अन्तर्यामिन्&oldid=486602" इत्यस्माद् प्रतिप्राप्तम्