अन्न

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नम्, क्ली, (अद् + कर्म्मणि क्तः ।) स्विन्नतण्डुलं । यथा, -- “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥ मृष्टं संस्कृतं । सव्यञ्जनमन्नं पूर्ब्बवत् सङ्कल्प्य तद- र्थिभ्यो दद्यात् । विष्णुधर्म्मोत्तरोक्तमृष्टान्नाकाङ्क्षि- गोचरमृष्टान्नदानफलप्राप्तिकामोऽहं यथाशक्ति मृष्टान्नार्थिभ्यो मृष्टमन्नं दास्ये । इति सङ्कल्प्य मृष्टान्नार्थिनोऽनुसन्धाय तेभ्यो यथाशक्ति मृष्टान्नं दद्यात् ॥ * ॥ तथान्नदानप्रकरणे । “सहस्रपरिवेशस्तु नरकन्तु न गच्छति । विमानेनार्कवर्णेन स्वर्गलोके महीयते” ॥ सहस्रपरिवेशः सहस्रायमनुष्येभ्योऽन्नप्रदः ॥ यथा- सम्भवं सहस्राय मनुष्येभ्यो नित्यमन्नं पूर्ब्बवत् सङ्कल्प्य दद्यात् । ओ~ विष्णुधर्म्मोत्तरोक्तसहस्र- परिवेशनफलप्राप्तिकामोऽहं यथासम्भवं सहस्राय मनुष्येभ्यो व्यञ्जनादिसहितमन्नं दास्ये । इति सङ्कल्प्य यथाशक्ति नानादिनैः सहस्रं मनुष्यान् भोजयेत् । देवलः । “कृत्वापि पातकं कर्म्म यो दद्यादन्नमीप्सितं । ब्राह्मणानां विशेषेण स निहन्त्यात्मनस्तमः” ॥ विशेषेण इत्यभिधानात् अब्राह्मणेऽपि फलमेतद्- भवत्येव । एवञ्च सामान्येनान्नदानमिदं । ईप्सित- मित्यर्थिनं स्पृष्ट्वा यथायथमभिमतमन्नमुत्पाद्य तेभ्यःपूर्ब्बवत् सङ्कल्प्य दद्यात् । ओ~ ब्राह्मणप्रमुख- नानावर्णेभ्य आत्मीयतमःक्षयकामोऽहं यथासम्भवं ईप्सितमन्नं दास्ये । ततः प्रभृति यथायथमुप- स्थितेभ्य ईप्सितमन्नं दद्यात् । इत्यादि वल्लालसेन- कृतदानसागरे अन्नदानावर्त्तः ॥

अन्नः, पुं, (अनित्यनेन अन + ननु, अद्यते इति अद् + क्तः वा ।) सूर्य्यः । इति सिद्धान्तकौ- मुदी ॥

अन्नः, त्रि, (अनित्यनेन अन + नन् ।) भुक्तः । खादितः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्न नपुं।

सिद्धान्नम्

समानार्थक:भिस्सा,भक्त,अन्ध,अन्न,ओदन,दीदिवि,कशिपु

2।9।48।2।4

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

अवयव : भक्तोद्भवमण्डः,भक्तसिक्तकान्नावयवः

 : मुन्यन्नविशेषः, स्थालीसंस्कृतान्नादिः, केशकीटाद्यपनीयशोधितोन्नः, दग्धोदनः

पदार्थ-विभागः : पक्वम्

अन्न वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।111।1।2

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्न¦ न॰ अनित्यनेन अन--नन्, अद्यते इति अद--क्त वा
“अन्नाण्ण इति” पा॰ निर्द्देशात् अन्नार्थतया न जग्धिः। ओदने, स्विन्नान्ने,
“शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्य-नुच्यते। आमं तु वितुषं ज्ञेयं स्विन्नमन्नमुदाहृतम्” इति वसि॰स्मृ॰। अन्नमूलं हि जीवनमित्युक्तेः तेषां प्राणहेतुत्वात्तथा-त्वम्। तत्रामान्नेऽपि अन्नशब्दप्रयोगः
“आमान्नं हरयेदत्त्वा पक्वं कृत्वाथ खादयेत्। षष्टिर्वर्षसहस्राणि विष्ठायांजायते कृमिरिति” पुराणे
“चाण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत् सिद्धं भुक्त्वा पराक” इति विष्णुसूत्रे, आदित्या-ज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा” इति मानवे च तत्र प्रयो-गात्
“स्विन्नमन्नमुदाहृतमिति वशिष्ठोक्तिस्तु परिभाषार्थान तु तन्मात्रस्यैवान्नताबोधनार्था। अतएव
“अन्नमाश्रित्यपापानि तिष्ठन्ति हरिवासरे” इत्यादिनिषेघे आमान्न-भक्षणस्यापि ग्रहणम् अन्नानि च विविधानि
“अन्नानिविविधानीह भवन्ति गिरिसम्भवे” ! इत्युपक्रम्य अष्टादश-विधानि धान्यान्यभिधाय
“अन्नवर्ज्जब्रते देवि! एतान्येवविवर्ज्जये” दित्यनेन पद्मपुराणे अन्नबर्ज्जनव्रते तेषां वर्ज्जनी-यत्वाभिधानात् अष्टादश धान्यानि च धान्यशब्दे वक्ष्यन्ते
“अन्नमशितं त्रेवा विधीयते तस्य यःस्थविष्ठोधातुस्तत्पुरीषंयन्मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन” इति श्रुत्या
“अन्नमयंहि सोम्य मन इति” श्रुत्यन्तरोक्तं मनसोऽन्नमयत्वं यत्समर्थितं तत् सर्व्वप्रकारान्नविकारत्वेनैव। ततश्च
“राजान्नं[Page0211-b+ 38] तेज आदत्ते” इत्यादौ निषिद्धतापि सर्वेषाभेव।
“शूद्रेषुदासगोपालकुलमितार्द्धसीरिणः। भोज्यान्नाः नापितश्चैवयश्चात्मानं निवेदये” दित्यादावपि दासादेर्भोज्यान्नताप्रति-प्रसवः अष्टादशान्नविषयएव दासादयश्च संकीर्ण्णजातिभेदाःपराशरोक्ता वेदितव्यास्ते च तत्तच्छब्दे दर्शयिष्यन्ते।
“गोरसं तिलसक्तूंश्च तिलपिण्याकमेव च। अपूपान् भक्ष-येत् शूद्राद्यच्चान्यत् पयसाकृतमिति” संवर्त्तवचनन्तु आपदिशूद्रान्ननिवृत्तानामपि भक्ष्यतार्थम्।
“कन्दुपक्वं तैलपक्वंपायसं दघि सक्तवः। एतान्यशूद्रान्नभुजां भोज्यानि मनुर-व्रवीदिति” हारीतवचने अशूद्रान्नभुजामिति विशेषणा-त्तथावगतेः एवमेव प्रा॰ वि॰।
“अन्नं हि भूतानां श्रेष्ठंतस्मात् सर्व्वौषधमुच्यते” इति श्रुतौ अन्नस्य सर्व्वौषधिरूप-त्वोक्तेः सर्वेषांव्रीह्याद्योषधीनामन्नत्वं व्यक्तमुक्तं
“पृथिव्याओषधय ओषथिभ्योऽन्नमिति” श्रुतौ च ओषधिजमात्रस्यअन्नत्वमुक्तम्
“अद्यतेऽदन्ति च भूतानि तस्मादन्नमित्युच्यते” इति तन्निरुक्तिरपि श्रुतौ दर्शिता। पृथिव्यां, तस्याश्च अन्न-हेतुत्वादन्नशब्दवाच्यता।
“अद्भ्योऽन्नमिति श्रुतेः”
“यत्कृष्णं रूपं तदन्नस्येति” छा॰ उप॰ श्रुतेश्च। अत एवभाष्यकृता
“हन्ताहमिमास्तिस्री देवता” इति श्रुतौ इदमातेजोबन्नात्मिकाया देवतायाः परामर्शः इत्युक्तम्। उदकेच निरुक्त॰ तस्य च
“वृष्टेरन्नं ततः प्रजा इति” मनुनाअन्नहेतुत्वोक्तेस्तथात्वम्। तथाऽनिति प्राणित्यनेनेति व्युत्पत्तेःउदकस्य प्राणहेतुत्वादन्नत्वम्
“आपोमयः प्राण” इत्युक्त्वातत्समर्थनाय
“आपः पीतास्त्रेधा विधीयन्ते तासांयःस्थविष्ठोधातुस्तन्मूत्रं योमध्यमः तल्लोहितं योऽणिष्ठःस प्राण इति छान्दोग्येऽपां प्राणहेतुत्वमुक्तम्। तथा
“षोडशकलो वा असौ पुरुषः” इत्युपक्रग्य
“पञ्चदशाहानिमाशीः काममपः पिबापोमयः प्राणो न पिबितो विच्छेत्-स्यते” इति तत्रैव जलपानाभावे प्राणविच्छेद उक्तः। प्राणानन्दहेतुत्वाद्वा अन्नस्य तथात्वम् यथा
“आपो वाअन्नाद्भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयत्ते प्राणाःअन्नं कणीयो भविष्यतीति अथ यदा सुसुष्टिर्भवति आन-न्दिनः प्राणाः भवन्ति अन्नं बहु भविष्यतीति छा॰ उप॰। सूर्य्ये पु॰ सि॰ कौ॰ तस्य अन्नहेतुवृष्टिहेत्वात्तथात्वम्
“आ-दित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा” इति मनुना तद्धेतु-त्वोक्तेस्तथात्वम् भोगसाधने उपकरणे, न॰
“स्त्रियोऽन्नंपशवोऽन्नञ्च विशोऽन्नञ्च महीक्षितामिति” मनुः। भक्ष्य-द्रव्ये च
“प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत्। स्थावर[Page0212-a+ 38] जङ्गमञ्चैव सर्वं प्राणस्य भोजनमिति” मनुना जङ्गम-स्याप्यन्नत्वोक्तेः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्न¦ mfn. (-न्नः-न्ना-न्नं) Eaten. n. (-न्नं)
1. Boiled rice.
2. Food in general.
3. Corn. E. अद to eat, and क्त affix of the part. past, त becoming न।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नम् [annam], [अद्-क्त; अनित्यनेन, अन्-नन्; according to Yāska from अद्, अद्यते अत्ति च भूतानि; or from आ-नम्, आ आभि मुख्येन ह्येतन्नतं प्रह्वीभूतं भवति भोजनाय भूतानाम्]

Food (in general); अद्यते$त्ति च भूतानि तस्मादन्नं तदुच्यते Tait. Up.; मदो$सृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः Ms.3.8.182; अहमन्नं भवान् भोक्ता H.1.51. I am your prey &c.; चराणामन्नमचराः Ms.5.29.

Food as representing the lowest form in which the Supreme Soul is manifested, being the coarsest and last of the 5 vestures (कोश) in which the soul is clothed and passes from body to body in the long process of metempsychosis - "the nutrimentitious vesture or visible body in the world of sense" (स्थूल- शरीर called अन्नमयकोश).

Boiled rice; अन्नेन व्यञ्जनम् P. II.1.34.

Corn (bread corn); ता (आपः) अन्नम- सृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति Ch. Up. 6.2.4.; आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः Ms.3.76; कृत˚ 9.219;1.86,12.65.

Water.

Earth (पृथिव्या अन्नहेतुत्वादन्नशब्दवाच्यता).

N. of Viṣṇu. -न्नः The sun (स हि अन्नहेतुवृष्टिहेतुः). -Comp. -अकालः = अनाकाल q. v.-अत्तृ, -आदिन्, -आहारिन् eating food. -अद a. eating food.

having a good appetite (दीप्ताग्नि).(-दः) N. of Viṣṇu. -अद्यम् proper food, food in general; कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा Ms.3.82,4.112, 11.144. अन्नाद्येन प्रजापतिः (तृप्तः) Mb.3.2.68. -आच्छा- दनम्, -वस्त्रम् food and clothing, food and raiment, the bare necessaries of life. -आयुः (अन्नायु) consisting of, living by, food; desirous of food (अन्नबन्धनः, अन्नजीवनः).-काम a. desirous of food; स इद्भोजो यो गृहवे ददात्यन्नकामाय Rv.1.117.3. -कालः hour of dinner; meal-time.-किट्टः = ˚मल q. v. -कूटः a large heap of boiled rice.

कोष्ठकः a cupboard; granary.

Viṣṇu.

the sun. -गतिः f. the passage of food, gullet (cf. बहिः- स्रोतस्). -गन्धिः dysentery, diarrhoea. -ज, जात a. produced from food as the primitive substance. -जम् rice-gruel of three days. -जा f. a hickup. -जलम् food and water, bare subsistence. -तेजस् a. having the vigour caused by food. -द, -दातृ, -दायिन्, -प्रद a.

giving food. वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः Ms.4.229.

epithet of Śiva. -दा N. of Durgā or Annapūrṇā.-दासः [अन्नेन पालितो दासः शाक. त.] a servant who works for food only, one who becomes a servant or slave by getting food only. -देवता the deity supposed to preside over articles of food.

दोषः sin arising from eating prohibited food; Ms.5.4.

a defect in the food eaten; derangement of food or the humours of the body; आलस्यादन्नदोषाच्च मृत्युर्विप्राञ् जिघांसति Ms.5.4. -द्वेषः dislike of food, loss of appetite. -पतिः lord or possessor of food, epithet of Savitṛ, Agni, and Śiva. अन्नपते$न्नस्य नो देहि Tait. Saṁ.11.83;34.58. -पाकः cooking of food; digestion of food; (by the fire in the stomach). -पू a. purifying food, epithet of the Sun. -पूर्ण a. filled with, possessed of, food. (-र्णा) a form of Durgā (the goddess of plenty); ˚ईश्वरी N. of Durgā or a form of Bhairavī. -पेयम् = वाज- पेयम् q. v. -प्रलय a. being dissolved into food after death.-प्राशः, प्राशनम् the ceremony of giving a new-born child food to eat for the first time, one of the 16 Saṁskāras performed between the 5th and 8th month (usually in the sixth, Ms.2.34) with preliminary oblations to fire (Mar.उष्टावण); षष्ठे$न्नप्राशन मासि Ms.2.34; Y.1.12. -ब्रह्मन्, -आत्मन् m. Brahman as represented by food. -भक्त a. [अन्नार्थं भक्तः दासः] = अन्नदास q. v. -भुज् a. eating food, epithet of Śiva. -मय a. see below.

मलम् excrement, faeces; P.VI.1.148 Sk.

spirituous liquor; सुरा वै मलमन्नानाम् Ms.11.93. -रक्षा precautions as to eating food. -रसः essence of food, chyle; food and drink, nutriment; नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ Rām. -वत् a. possessed of food; अन्नवान्त्सन् रफितायोपज- ग्मुषे Rv.1.117.2. -वस्त्रम् = ˚आच्छादनम् q. v.

विकारः. transformation of food, assimilation.

disorder of the stomach caused by indigestion.

seminal discharge (of man); semen itself; cf. अन्नाद्रेतः संभवति. -विद् a. acquiring food; कार्षीवणा अन्नविदो न विद्यया Av.6.116.1.-व्यवहारः the law or custom relating to food; i. e. the custom of eating together or not with other persons.-शेषः leavings of food, offal. -संस्कारः consecration of food. -होमः a sacrifice (with 1 materials) connected with the Aśvamedha sacrifice.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्न mfn. ( अद्) , eaten L.

अन्न n. food or victuals , especially boiled rice

अन्न n. bread corn

अन्न n. food in a mystical sense (or the lowest form in which the supreme soul is manifested , the coarsest envelope of the Supreme Spirit)

अन्न n. water Naigh.

अन्न n. विष्णु

अन्न n. earth L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--gift of, the best of all; especially in a श्राद्ध: फलकम्:F1: Br. III. १६. 3, ५२-5; ६८, ६६; वा. ८०. ५५-7 (cf. रामा। II. ch. १०३).फलकम्:/F अन्नविक्रयम् condemned. फलकम्:F2: Br. IV. 8. ४४-58.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=अन्न&oldid=486695" इत्यस्माद् पुनः प्राप्तिः