अन्वय

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

(anvaya) - positive concomitance

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वयः, पुं, (अनु + इण् + भावे अच् ।) वंशः । कुलं । इत्यमरः ॥ (“तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः” । इति रघुवंशे । वंशपरम्परा । “रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्” । इति रघुवंशे । “काव्यदेव्यभिधा शूरबधूः शुद्धान्वया” ॥ इति राजतरङ्गिणी । वंशजाताः पुत्त्रपौत्त्रादयः । “मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः” । इति नारदः । “स जीवन्नेव शूद्धत्वमाशु गच्छति सान्वयः” । इति मनुः ।) पदानां परस्पराकाङ्क्षा योग्यता च । इति दुर्गादासः ॥ परस्परसम्बन्धः । इति रामतर्कवागीशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वय पुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।6

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वय¦ पु॰ अनु + इण्--भावे अच्। सन्ततौ, अनुगतौ,
“जन्माद्यस्य यतोऽन्वयादिति” भाग॰। वृत्तौ, आनुकूल्ये,कार्य्ये--कारणस्यानुसरणे, कार्य्यसत्तापादकस्वसत्ताकस्यकारणस्य कार्य्ये स्थितौ, स्वसत्तानियतसत्तावत्कार्य्यसंबन्धे,च। कर्त्तरि अच्। वंशे तस्य पूर्ब्बपुरुषदेहावयवानुगमना-त्तथात्वम्।
“तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तर” इति
“रघूणामन्वयं वक्ष्ये” इति
“तस्यान्वये भूपतिरेषजात” इति
“अथ स्तुते वन्दिभिरन्वयज्ञैरिति” च रघुःपदानां, स्वोपस्थाप्यपदार्थानां वा परस्परसंबन्धे।
“तात्-पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने” इति सा॰ द॰
“परस्परनिरपेक्षाणामेकस्मिन्नन्वयः समुच्चय” इति सि॰कौ॰।
“मुख्यार्थस्येतराक्षेपो वाक्यार्थान्वयसिद्धये” इतिसा॰ द॰। तत्सत्त्वे तत्सत्त्वरूपे
“गुणानां तदन्वयव्यतिरेका-नुविधायित्वादिति” सा॰ द॰। अन्वेति इन्द्रियम् कर्त्तरिअच्। प्रत्यक्षे,
“स्यात् साहसं त्वन्वयवत् प्रसभं कर्म्म यत्कृतम्। निरन्वयं भवेत् स्तेयमिति” मनुः। अनुगतमात्रेत्रि॰।
“का त्वमेकाकिनी भीरु! निरन्वयजने वने” इतिभट्टिः अनुगतजनशून्ये इत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वय¦ m. (-यः)
1. Race, lineage, succession.
2. Connexion, acquaintance, intercourse.
3. the natural order or connexion of words in a sen- tence or stanza.
4. The logical connexion of cause and effect, or proposition and conclusion. E. अनु after, इण् to go, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वय [anvaya], See under अन्वि.

अन्वयः [anvayḥ], [इ कर्तरि भावे वा अच्]

Going after, following; follower, retinue, attendants; का त्वमेकाकिनी भीरु निरन्वयजने वने Bk.5.66.

Association, connection, relation; गन्धः कटुकान्वयः = कटुकान्वितः.

The natural order or connection of words in a sentence, construing grammatical order or relation; पदानां परस्पराकाङ्क्षा योग्यता च, or शब्दानां परस्परमर्थानुगमनम्; तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वय- बोधने S. D.; logical connection of words, अत्र (in the ex. तिष्ठतु सर्पिः) सर्पिःशब्दस्य स्थितिक्रियायामन्वयः P. VIII.3.44 Sk; परस्परनिरपेक्षस्यानेकस्य एकस्मिन्नन्वयः समुच्चयः P.II.2.29 Sk.

Drift, tenor, purport.

Race, family, lineage; रघूणामन्वयं वक्ष्ये R.1.9,12;3.27;12. 33; अन्वयगुणः Mv.4.22 virtue of my race.

Descendants, posterity; ताभ्य ऋते अन्वयः Y.2.117; स˚ along with the family or descendants; Ms.2.168; जातस्तु गण्यते सो$त्र यः स्फुरत्यन्वयाधिकम् Pt.1.27.

Logical connection of cause and effect, logical continuance; जन्माद्यस्य यतो$न्वयादितरतः Bhāg.1.1.1.

Being seen (प्रत्यक्ष); स्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयम्... Ms.8.332.

(In Nyāya) Statement of the constant and invariable concomitance of the हेतु (middle term) and the साध्य (major term) of an Indian syllogism (हेतुसाध्ययोर्व्याप्तिरन्वयः). In the familiar instance पर्वतो वह्निमान् धूमवत्त्वात् the relation यत्र यत्र धूमस्तत्र तत्र वह्निः (wherever there is smoke there is fire) is called अन्वय or अन्वयव्याप्ति. अन्वय, in fact, corresponds to the universal A proposition of European logic 'All A is B.' The 'व्यतिरेकव्याप्ति' means an assertion of the concomitance of the absence of साध्य and the absence of हेतु (तदभावयोः हेत्वभावसाध्याभावयोः व्याप्तिः) and corresponds to the converted A proposition 'All not-B is not-A'; or in Sanskrit यत्र यत्र वह्निर्नास्ति तत्र तत्र धूमो$पि नास्ति; and a cause or हेतु is said to be connected with its effect by अन्वयव्यतिरेकव्याप्ति when both the affirmative and negative relations between the thing to be proved and the cause that proves can be equally asserted; such a Hetu alone makes the argument perfectly sound and incapable of refutation. This process of arriving at the Vyāpti or universal proposition corresponds to the methods of Agreement and Difference in Mill's Logic; साध्ये निश्चितमन्वयेन घटितम् Mu.5.1. -Com. -आगत a. hereditary; Pt.1,3; ˚तं वैरम् Pt.3. -ज्ञः a genealogist; अथ स्तुते बन्दिभिरन्वयज्ञैः R.6.8. -व्यतिरेक (˚कौ or ˚कम्)

positive and negative assertion; agreement and contrariety or difference; see above.

rule and exception. -व्याप्तिः f. affirmative assertion or agreement, affirmative universal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वय/ अन्व्-अय m. ( इSee. अन्व्-इ) , following , succession

अन्वय/ अन्व्-अय m. connection , association , being linked to or concerned with

अन्वय/ अन्व्-अय m. the natural order or connection of words in a sentence , syntax , construing

अन्वय/ अन्व्-अय m. logical connection of words

अन्वय/ अन्व्-अय m. logical connection of cause and effect , or proposition and conclusion

अन्वय/ अन्व्-अय m. drift , tenor , purport

अन्वय/ अन्व्-अय m. descendants , race , lineage , family.

अन्वय/ अन्व्-अय See. p. 46 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=अन्वय&oldid=486782" इत्यस्माद् प्रतिप्राप्तम्