सामग्री पर जाएँ

अपमृत्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपमृत्युः, पुं, (अपकृष्टः रोगेणः विना मृत्युः मरणं कर्म्मधारयः ।) अपघातमरणं । विना रोगेण मरणं । यथा, -- “अपमृत्युभयं नास्ति मृतो मोक्षमवाप्नुयात्” । इति देवीमाहात्म्यकीलकं ॥ यत्तु शुद्धितत्त्वे प्रोक्तं पक्षिमत्स्यमृगदंष्ट्रिशृङ्गिनखिपतनानशनवज्राग्नि- विषबन्धजलप्रवेशांस्त्रक्षतादिजन्यमरणं तदेवाप- मृत्युरिति सुधीभिर्विभाव्यं ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपमृत्यु¦ पु॰ अपकृष्टः दुष्टहेतुजन्यत्वेन मृत्युर्मरणम्। विषोद्बन्धनादिहेतुके मृत्यौ।
“अपमृत्युहेतवश्च शुद्धिपत्त्वेकौर्म्मे दर्शिता यथा[Page0230-a+ 38]
“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः। आदरात् परि-हर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः। नागानां विप्रियंकुर्वन् दग्धश्चाप्यथ विद्युता। निगृहीतः स्वयंराज्ञा चौर्य्य-दोषेण कुत्रचित्। परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः। असमानैश्च सङ्कीर्ण्णैश्चाण्डालाद्यैश्च विग्रहम्। कृत्वा तैर्नि-हतास्तांस्तु चाण्डालादीन् समाश्रिताः। गवाग्निविषदा-श्चैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायं विषं वह्निं शस्त्र-मुद्बन्धनं जलम्। गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमा” इति।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपमृत्यु¦ m. (-त्युः) Sudden death, dying of some causalty, not of sickness or decay. E. अप, मृत्यु death.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपमृत्युः [apamṛtyuḥ], [अपकृष्टो दुष्टहेतुजन्यत्वेन मृत्युः]

Sudden or untimely death, accidental or unnatural death; भर्तृ- सक्तो$पमृत्युस्तस्य संचरति Pt.4.

Any great danger, illness &c. from which a person, hopelessly given up for lost, recovers, quite contrary to expectation.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अपमृत्यु/ अप-मृत्यु m. sudden or accidental death

अपमृत्यु/ अप-मृत्यु m. a great danger or illness (from which a person recovers).

"https://sa.wiktionary.org/w/index.php?title=अपमृत्यु&oldid=486980" इत्यस्माद् प्रतिप्राप्तम्