अपराध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधः, पुं, (अप + राध् + भावे घञ् ।) अका- र्य्यादिदोषः । तत्पर्य्यायः ॥ आगः २ मन्तुः ३ । इत्यमरः ॥ स च द्वात्रिंशद्विधो यथा । आगमे । “यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे । देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥ उच्छिष्टे वाथवाशौचे भगवद्दर्शनादिकं । एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणं ॥ पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम् । शयनं भक्षणं वापि मिथ्याभाषणमेव च ॥ उच्चैर्भाषामिथोजल्पो रोदनानि च बिग्रहः । ज्ञेयाः परेऽपि बहवोऽपराधाः सदसंमतैः । आचारैः शास्त्रविहितनिषिद्धातिक्रमादिभिः” ॥ * ॥ अथापराधशमनं । “संवत्सरस्य मध्ये च तीर्थे शौकरके मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥ मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् । अनयोस्तीर्थयोरङ्के यः सेवेत् सुकृती नरः ॥ सहस्रजन्मजनितानपराधान् जहाति सः” । स्कान्दे । “अहन्यहनि यो मर्त्त्यो गीताध्यायन्तु संपठेत् । द्वात्रिंशदपराधैस्तु अहन्यहनि मुच्यते” ॥ अत्र कार्त्तिकमाहात्म्ये । “तुलस्या कुरुते यस्तु शालग्रामशिलार्चनं । द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः” ॥ तत्रैवान्यत्र । “द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवं । द्वात्रिंशदपराधानि क्षमते तस्य केशवः ॥ यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः । अपराधसहस्राणि नित्यं हरति केशवः” ॥ इति श्रीहरिभक्तिविलासे ८ विलासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराध पुं।

अपराधः

समानार्थक:आगस्,अपराध,मन्तु,अभिपन्न,किल्बिष

2।8।26।2।2

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराध¦ पु॰ अप + राध--घञ्। स्वोचितकर्म्माकरणे आगसि
“कमपराधलवं मम पश्यसीति” सा॰ द॰। दण्डयोग्य-कर्म्मकरणे।
“यथाऽपराधदण्डनामिति” रघुः। देवविषयेअपराधश्च शास्त्रविध्युल्लङ्घनेन, निषिद्धसेवनेन च जात-दुरितविशेषः। तत्र निगमे द्वात्रिंशद् अपराधा दर्शितायथा
“यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे। देवोत्स-वाद्यसेवा च अप्रणामस्तदग्रतः॥ उच्छिष्टे वाथवाऽशौचेभगवद्दर्शनादिकम्। एकहस्तप्रणामश्च पुरस्तादप्रदक्षिणम्॥ पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम्। शयनं भक्षणंवापि मिथ्याभाषणमेव च॥ उच्चैर्भाषा मिथोजल्पोरोदनानि च विग्रहः। निग्रहानुग्रहौ चैव नृषु चक्रूरभाषणम्॥ कम्बलावरणं चैव परनिन्दा परस्तुतिः। अश्लीलभाषणं चैव अधोवायुविमोक्षणम्॥ शक्तौ गौणो-पचारश्च अनिवेदितभक्षणम्। तत्तत्कालोद्भवानाञ्च फला-दीनामनर्पणम्॥ विनियुक्तावशिष्टस्य प्रदानं व्यञ्जना-दिके। पृष्ठीकृत्यासनं चैव परेषामभिवादनम्॥ गुरौमौनं निजस्तोत्रं देवतानिन्दनं तथा। अपराघास्तथाविष्णोर्द्वात्रिंशत् परिकीर्त्तिताः इति”॥ आह्निकतत्त्वेतु वाराहमूलका अन्यविधा द्वात्रिंशत् दर्शिता यथा।
“भगवद्भक्तानां क्षत्रियसिद्धान्नभोजनम्

१ अनिषिद्धदिनेदन्तधावनमकृत्वा विष्णोरुपसर्पणम्

२ मैथुनं कृत्वाऽस्नात्वा विष्णोरुपसर्पणम्

३ मृतं नरं स्पृष्ट्वाऽस्नात्वाविष्णुकर्म्मकरणम्

४ रजस्वलां स्पृष्ट्वा विष्णुगृहप्रवेश-नम्

५ मानवं शवं स्पृष्ट्वाऽस्नात्वा विष्णुसन्निधाववस्था-नम्

६ विष्णुं स्थृशतः पायुवायुप्रयोगः

७ विष्णोः-कर्म्म कुर्वतः पुरीषत्यागः

८ विष्णुशास्त्रमनादृत्य शास्त्रा-न्तरप्रशंसा

९ अतिमलिनं वासः परिधाय विष्णुकर्म्मा-चरणम्

१० अविधानेनाचम्य विष्णोरुपसर्पणम्।

११ विष्णोरपराधं कृत्वा विष्णोरुपसर्पणम्

१२ क्रुद्धस्य विष्णु-[Page0233-a+ 38] स्पर्शनम्

१३ निषिद्धपुष्पेण विष्ण्वर्च्चनम्

१४ रक्तंवासः परिधाय विष्णोरुपसर्पणम्

१५ अन्धकारे दीपेनविना विष्णोः स्पर्शनम्

१६ कृष्णवस्त्रं परिधाय विष्णोःकर्म्माचरणम्

१७ वायसोद्धूतवासः परिधाय विष्णोःकर्म्माचरणम्

१८ विष्णवे कुक्कुरोच्छिष्टदानम्

१९ वराहमांस भुक्त्वा विष्णोरुपसर्पणम्

२० हसजालपादसरारिमांसं भुक्त्वा विष्णोरुपसर्पणम्

२१ दीपं स्पृष्ट्वा हस्तम-प्रक्षाल्य विष्णोःस्पर्शनं कर्म्मकरणं वा

२२ श्मशानं गत्वा-ऽस्नात्वा विष्णूपसर्पणम्

२३ पिन्याकं भुक्त्वा विष्णोरुप-सर्पणम्

२४ विष्णवे वराहमांसनिवेदमम्

२५ मद्य-माघ्राय पीत्वा स्पृष्ट्वा वा विष्णुगृहप्रवेशनम्

२६ पर-कीयेणाशुचिना वस्त्रेण परिहितेन विष्णुकर्म्माचरणम्

२७ विष्णवे नवान्नमप्रदाय तद्भोजनम्

२८ गन्धपुष्पेअप्रदाय धूपदीपदानम्

२९ उपानहावारुह्य विष्णु-स्थानप्रवेशनम्

३० भेरिशब्देन विना विष्णुपबोधनम्

३१ अजीर्ण्णे सति विष्णु स्पर्शनम्

३२ इति” एतदुपलक्षणम्
“अपराधसहस्राणि, अपराधशतानि चेति” मन्त्रलिङ्गात्
“अहन्यहनि योमर्त्त्यो गीताध्यायन्तु संपठेत्। द्वात्रिंश-दपराधैस्तु अहन्यहनि मुच्यते” इति नरसिंहपुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराध¦ m. (-धः) Offence, transgression, fault. E. अप badly, and राध to accomplish, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधः [aparādhḥ], An offence, a fault, guilt, crime, sin, mistake, error; (32 kinds are usually stated in Śāstras); कमपराधलवं मयि पश्यसि V.4.29; यथापराधदण्डानाम् R.1.6; सर्वापराधेषु अवध्याः खलु दूताः Abhiṣeka I. यथेन्द्रशत्रुः स्वरतो$प- राधात् Śik.52 mistake or error in accent; sometimes with gen. or loc. of person; अदः सुरेन्द्रस्य कृतापराधान् दैत्यान् V.1.2; कृतापराधमिव त्वय्यात्मानमवगच्छति K.23. -Comp. -क्षमापनस्तोत्रम् A panegyric to Devī (देवीस्तोत्र) by a later Śaṅkarāchārya in which there is a striking and melodious ending at the end of each verse as कुपुत्रो जायेत क्वचिदपि कुमाता न भवति । -भञ्जनः the destroyer of sins, epithet of Śiva; ˚स्तोत्रम् a short poem by Śaṅkarāchārya in praise of Śiva, the fourth line of the verses being usually क्षन्तव्यो मे$पराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराध/ अप-राध m. offence , transgression , fault

अपराध/ अप-राध m. mistake

अपराध/ अप-राध m. अपराधं1: कृ, to offend any one( gen. )

"https://sa.wiktionary.org/w/index.php?title=अपराध&oldid=487018" इत्यस्माद् प्रतिप्राप्तम्