सामग्री पर जाएँ

अपवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवादः, पुं, (अप + वद् + भावे घञ् ।) आज्ञा । निम्दा । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३ निर्व्वादः ४ परीवादः ५ उपक्रोशः ६ जुगुप्सा ७ कुत्सा ८ गर्हणं ९ इत्यमरः ॥ (वचनीयं । “लोका- पवादाद्भयं” इति नीतिशतके । “देव्यामपि हि वैदेह्यां सापवादो यतो जनः” । “हा कथं सीतादेव्या ईदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि” । इति उत्तरचरिते । आज्ञा । अनुमतिः । आदेशः । “ततोऽपवादेन पताकिनी- पतेश्चचाल निर्हादवती महाचमूः” । इति भार विः ।) विश्वासः । इति मेदिनी ॥ विशेषः । बाधकः । यथा, -- “क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” । इति कलापपरिशिष्टं ॥ रज्जुविवर्त्तस्य सर्पस्य रज्जुमात्रत्ववत् वस्तुविवर्त्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वं । तदुक्तं । “सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथा प्रथा विवर्त्त इत्युदाहृतः” ॥ अस्य फलं । आभ्यां अध्यारोपापवादाभ्यां तत्त्व- म्पदार्थशोधनमपि सिद्धं भवति । इति वेदान्त- सारः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवाद पुं।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।1।5

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अपवाद पुं।

अज्ञः

समानार्थक:अपवाद

3।3।89।1।1

अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ। पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

वैशिष्ट्यवत् : अज्ञानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अपवाद पुं।

निन्दा

समानार्थक:अपवाद,धिक्,दुष्ठु

3।3।89।1।1

अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ। पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवाद¦ पु॰ अप + वद--भावे घञ्। निन्दायाम् अपकीर्तौ
“किं करिष्यामि राज्येन सापवादेन राघव!”
“प्रकाशं च हतैतस्मिन्नपवादो भवेन्मम” इति च रामा॰। मिथ्यावादे
“अपवादमात्रमबुद्धानामिति” सां॰ सू॰
“अपवादः मिथ्या-वादः” भा॰। कुत्सितवादे तत्रैव
“अपवादः कुत्सितवाद” इति व्याख्यान्तरम्। अपोद्यते सामान्यशास्त्रं स्वविष-यात् सङ्कोच्यतेऽनेन करणे घञ्। विशेषशास्त्रे। तद्धिस्वविषयं परिहृत्य सामान्यशास्त्रं विषयान्तरे व्यवस्थापयतीति तस्य सङ्कोचकं भवति यथा
“मा हिंस्यात् सर्व्वाभूता-नीति” श्रुतौ हिंसानिषेधस्य सर्वभूतविषयकत्वेऽपि
“वायव्यंश्वेतमालभेतेति” शास्त्रं वायव्यच्छागहिंसाविषयकत्वेन विरो-धात् स्वविषयात् सङ्कोचयत् तस्येतरविषयकतां व्यवस्था-पयति
“अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैरिति” कुमारः
“परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय” इति
“अपवा-दोयद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते” इति च व्या॰परि॰।
“क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” इतिपा॰ भा॰। अपोद्यते अपवाह्यते मिथ्याभूतमनेन अप +वद--करणे घञ्। वेदान्तमतसिद्धे मिथ्याभूतपदार्थनिवार-णार्थमुपदेशभेदे। स च रज्जुविवर्त्तस्य मिथ्याभूतसर्पस्यरज्जुमात्रत्ववत् वस्तुभूतब्रह्मणो विवर्त्तस्य प्रपञ्चादेः वस्तु-[Page0237-a+ 38] भूतरूपतोपदेशः।
“अध्यारोपापवादाभ्यां वस्तुतत्त्वविनि-श्चय, इति वेदा॰ प्र॰। भावे घञ्। विश्वासे, प्रणये च। करणे घञ्। बाघनसाधने वस्तुमात्रे। कर्म्मणि घञ्। कुत्सितवाद्ये
“मधुकरैरपयादकरैरिव” माघः
“अपवादःमृगवञ्चनाय घण्टादि कुत्सितवाद्यमिति” मल्लि॰। भावेघञ्। आदेशे
“ततोऽपवादेन पताकिनीपतेरिति” किरा॰।
“अपवादेन आदेशेनेति” मल्लि॰। निरासने च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवाद¦ m. (-दः)
1. Censure, blame.
2. An order, a command.
3. Differ- ence, distinction, exception.
4. Contradiction, opposition, denial. E. अप implying aversion, and वाद speech, from वद with घञ्; also अववाद।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवादः [apavādḥ], 1 Censuring, reviling; censure, reproach, blame, abuse; आः तातापवादभिन्नमर्याद U.5; लोकापवादो बल- वान्मतो मे R.14.4; लोकापवादाद्भयम् Bh.2.62; scandal, evil report; चिरकालान्मया श्रुतस्तवापवादः Pt.I; Ki.11.25, 14.12; Mk.9.3; U.1; Pt.4; Y.2.27; देव्यामपि हि वैदेह्यां सापवादो यतो जनः U.1.6 spreading or indulging in scandals about; न केवलमत्याहितं सापवादमपि U.2; साप- वादम् censuringly Māl.9.

An exception, a special rule that restricts or sets aside a general rule (opp. उत्सर्ग); मा हिंस्यात्सर्वभूतानि इति उत्सर्गः; वायव्यं श्वेतमालभेत इत्यपवादः; अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः Ku.2.27; R. 15.7; ˚प्रत्ययः exceptional suffix; ˚स्थलम् a case for a special rule.

An order, command; ततो$पवादेन पताकिनीपते- श्चचाल निर्ह्रादवती महाचमूः Ki.14.27. cf. ... अपवादस्तु निन्दने । आज्ञायां स्यात् ... । Nm.

Refutation; (in Vedānta Phil.) refutation as of a wrong imputation or belief; रज्जुविव- र्तस्य सर्पस्य रज्जुमात्रत्ववत्, वस्तुभूतब्रह्मणो विवर्तस्य प्रपञ्चादेः वस्तु- भूतरूपतो$पदेशः अपवादः Tv.; अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चयः Vedānta; hence also, a means of refutation.

Confidence, trust.

Love; familiarity.

A small bell or other instrument sounded to decoy deer; मधुकरैरपवाद- करैरिव Śi.6.9; (˚करैः = व्याधैः; अपवादं मृगवञ्चनाय घण्टादि- कुत्सितवाद्यं कुर्वन्ति तैः Malli.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवाद/ अप-वाद m. evil speaking , reviling , blaming , speaking ill of( gen. )

अपवाद/ अप-वाद m. denial , refutation , contradiction

अपवाद/ अप-वाद m. a special rule setting aside a general one , exception (opposed to उत्सर्गPa1n2. 3-1 , 94 Sch. ) RPra1t. Pa1n2. Sch.

अपवाद/ अप-वाद m. order , command Kir.

अपवाद/ अप-वाद m. a peculiar noise made by hunters to entice deer S3is3. vi , 9.

अपवाद/ अप-वाद etc. See. अप-वद्.

"https://sa.wiktionary.org/w/index.php?title=अपवाद&oldid=487093" इत्यस्माद् प्रतिप्राप्तम्