सामग्री पर जाएँ

अपह्नुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नुतिः, स्त्री, (अप + ह्नु + भावे क्तिन् ।) अप- लापः । अपह्नवः । इति शब्दरत्नावली ॥ उप- मेयासत्यकरणपूर्ब्बकोपमानसत्यताव्यवस्थापिका- लङ्कृतिः । तस्या लक्षणं । “प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः” । उदाहरणं । “अवाप्तः प्रागल्भ्यं परिणतरुचः शेलतनये । कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ॥ अमुष्येयं मन्ये विगलदमृतस्यन्दिशिशिरे । रतिश्रान्ता शेते रजनिरमणी गाढमुरसि” ॥ इति काव्यप्रकाशः ॥ (“प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः । गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन ॥ यदि श्लेषेणान्यथा वाऽन्यथयेत् साप्यपह्नुतिः” । इति साहित्यदर्पणे ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नुति¦ स्त्री अप + ह्नु--क्तिन्।

१ अपह्नवे
“प्रकृतं प्रतिषिध्यान्य-स्थापनं स्यादपह्नुतिरिति” सा॰ द॰ उक्ते

२ अर्थालङ्कारभेदेच। सा च द्विधा अपह्नवपूर्ब्बकः अन्यारोपः, अन्यारोप-पूर्ब्बकः अपह्नवश्च यथा
“नेदं नभोमण्डलमम्बुराशिर्नैताश्चतारा नवफेनभङ्गाः। नायं शशी कुण्डलितः फणीन्द्रोनासौ कलङ्कः शयितो मुरारिः”॥
“एतद्विभाति चरमा-चलचूडचुम्बि हिण्डीरपिण्डरुचिशीतमरीचिविम्बम्। उ-ज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैत-वेन”॥
“विराजते व्योमवपुः पयोधिस्तारामयास्तत्र चफेनभङ्गाः”। इत्याद्याकारेण प्रकृतनिषेधो बोद्धव्यः।
“गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन। यदि श्लेषेणा-न्यया वाऽन्यययेत् साप्यवह्नुतिः” सा॰ द॰ तत्र श्लेषेणयथा॥
“कालेवारिघराणामयतितया नेव शक्यते स्थातुम्। उत्कण्ठितासि तरले! न हि न हि स{??}ख! पिच्छिलःपत्थाः”॥ अत्रापतितयेत्यत्र पतिं विनेत्युक्त्वा पतनाभावेने-त्यन्यथाकृतम्। अश्लेषेण यथा।
“इह पुरोऽनिलकम्पित-विग्रहा मिलति का न वनस्पतिना लता। स्मरसि किंसखि कान्तरतोत्सवं! न हि घनागमरीतिरुदाहृता” इति॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नुति¦ f. (-तिः)
1. Denial or concealment of knowledge.
2. A figure of rhetoric, applying a description or simile to other than its obvious application. E. अपह्नुङ् and क्तिन् aff. [Page039-a+ 60]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नुतिः [apahnutiḥ], f.

Concealment of knowledge, denial.

(In Rhet.) A figure of speech, in which the real character of the thing in question is denied and that of another (alien or imaginary) object is ascribed to, or superimposed upon, it; प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः K. P.1; (उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्था- प्यते सा$पह्नुतिः) e. g. नेदं नभोमण्डलमम्बुराशिर्नौताश्च तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः ॥ see also K. P.1 and S. D.683-84.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नुति/ अप-ह्नुति f. " denial , concealment of truth " , using a simile in other than its true or obvious application Kpr. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अपह्नुति&oldid=202905" इत्यस्माद् प्रतिप्राप्तम्