अप्रस्तुतप्रशंसा
शि.वधम् द्वितीयसर्गे 10,46,49,53।
शि.वधम् षोडशसर्गे 21,22,23,24,26,27,28,29,30,31,32,40।
काव्यालङ्कारकोश:
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रस्तुतप्रशंसा, स्त्री, काव्यालङ्कारविशेषः । सा च अप्राकरणिकस्यार्थस्य अभिधानेन प्राकरणिक- स्याक्षेपः । तस्या लक्षणं । “अप्रस्तुतप्रशंसा सा या चैव प्रस्तुताश्रया । सा च कार्य्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति” । “तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा” ॥ आद्याया उदाहरणं यथा, -- “याताः किन्न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्य्यातितरां कृशासि कथयत्येवं सवाष्पे मयि । लज्जामन्थरतारकेण निपतद्धा- राश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणो- त्साहस्त्वया सूचितः” ॥ इति काव्यप्रकाशः ॥ इतरासां उदाहरणानि बाहुल्यान्नोक्तानि ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रस्तुतप्रशंसा¦ स्त्री सा॰ द॰ उक्ते अर्यालङ्कारभेदे तल्लक्षणादि
“कचिद्विशेषः सामान्यात्
१ , सामान्यं वा विशेषतः
२ । कार्य्यान्निमित्तं
३ कार्य्यञ्च
४ हेतेरथ समात् समम्
५ ॥ अप्रस्तुतात् प्रस्तुतञ्चेद्गम्यते पञ्चधा ततः। अप्रस्तुतप्रशंसास्यात्”।
“पादाहतं यदुत्थाय मूर्द्धानमधिरोहति। स्वस्थादे-वापमानेऽपि देहिनस्तद्बरं रजः”॥ अत्रास्मदपेक्षया रजो-ऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम्।
“स्रगियंयदि जीवितापहा हृदये किं निहिता न हन्ति र्माम्?। विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया”॥ अत्रे-श्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं, हितका-रिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः। एवञ्चात्राप्रस्तुतप्रशंसामूलोऽर्थान्तरन्यासः। दृष्टान्ते प्रसिद्ध-मेव वस्तु प्रतिविग्वत्वेनोपादीयते। इह नु विषामृतयोर-मृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः॥
“इन्दुलिप्त इवा-ञ्जनेन, जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुम-दलं श्यामेव हेमप्रभा। कार्कर्श्यं कलया च कोकिलबधूकण्ठे-ष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शखिनां वर्हा सगर्हेव[Page0265-a+ 38] मनु॥ ” अत्र संभाव्यमानेभ्य इन्द्वादिगताञ्जनलिप्तत्वादिभ्यःकार्य्येभ्यो वदनादिगतसौन्दर्य्यविशेषरूपं प्रस्तुतं कारणंप्रतीयते।
“गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रे-किणं त्यक्त्वा तिर्य्यगवेक्ष्य वाष्पकलुषेणैकेन मां चक्षुषा। अद्य प्रेम मदंर्पतं प्रियसखीवृन्दे त्वया बध्यतामित्थंस्नेहविवर्द्धितो मृगशिशुः सोत्प्रासमाभाषितः॥ ” अत्रकस्यचिदगमनरूपे कार्य्ये कारणमभिहितम्। तुल्येऽप्रस्तुतेतुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च। श्लेशमूलापि समासोक्तिवद्विशेषणमात्रश्लेषे, श्लेषवद्विशे-ष्पस्यापि श्लेषे भवतीति द्विधा। क्रमेण यथा॥
“सहकारःसदामीदो वसन्तश्रीसमन्वितः। समुज्ज्वलरुचिः श्रीमान्प्रभूतोत्कलिकाकुलः”॥ अत्र विशेषणमात्रश्लेषवशादप्रस्तु-तात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः
“पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेनमहानपि स्यात्। अभ्युद्धरेत्तदपि विश्वसितीदृशीत्थंकेनापि दिक् प्रकटिता पुरुषोत्तमेम”॥ अत्र पुरुषोत्तम-पदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेवबोध्यते। तेन वर्ण्णनीयः कश्चित्पुरुषः प्रतीयते। सादृश्य-मात्रमूला यथा।
“एकः कपोतपोतः शतशः श्येनाःक्षुधाभिधावन्ति। अम्बरमावृतिशून्यं हरि हरि शरणंविधेः करुणा”॥ अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतःप्रतीयते। इयं क्वचित् वैधर्म्म्येणापि भवति। यथा
“धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः। राममि-न्दीवरश्यामम् ये स्पृशन्त्यनिवारिताः”॥ अत्र वाता
“धम्या अहमधन्या इति वैधर्म्म्येण प्रस्तुता प्रतीयते। वाच्यस्यसम्भवासम्भवोभयरूपतया त्रिप्रकारेयम्। तत्र सम्भवेउक्तोदाहरणान्येव। असम्भवे यथा।
“कोकिलोऽहंभवान् काकः समानः क लिमावयोः। अन्तरं कथयि-ष्यन्ति काकलीको विदाः पुनः”॥ अत्र काककोकिलयो-र्वाकोवाक्यम् प्रस्तुताध्यारोपणं विनाऽसम्भवि। उभय-रूपत्वे यथा।
“अन्तश्छिद्राणि भूयांसि कण्टका बहवोबहिः। कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः”॥ अत्र प्रस्तुतस्य कस्यचिद{??}यारोपणम् विना कमलनालान्त-ञ्छिद्राणाम् गुणभङ्गुरीकरणे हेतुत्वमसम्भवि अन्वेषान्तुसम्भवीत्युभयरूपत्वम्।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अप्रस्तुतप्रशंसा/ अ-प्रस्तुत--प्रशंसा f. " conveying the subject-matter by that which is not the subject-matter " , (in rhetoric) implied or indirect expression.