अब्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्दः, पुं, (अबति सीमानं रक्षति अब + “अब्जा- दय” इति दन् मेघपर्ब्बतविशेषपक्षे तु अपो ददाति, अप् + दा + कर्त्तरि कः ।) वत्सरः । मेघः । मुस्ता । इति मेदिनी ॥ पर्ब्बतविशेषः । इति विश्वः ॥

अब्दः, पुं, (अव + दन् ॥ औणादिकोऽयं ।) वत्सरः । मेघः । मुस्ता । इति रायमुकुटः सारसुन्दरी च ॥ (मुस्तार्थे प्रयोगो यथा, -- “किराताब्दामृताविश्वचन्दनोदीच्यवत्सरैः । शोथातिसारशमनं विशेषाज्ज्वरनाशनम्” ॥ इति वैद्यकचक्रपाणिसङ्ग्रहः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्द पुं।

संवत्सरः

समानार्थक:संवत्सर,वत्सर,अब्द,हायन,शरद्,संवत्

1।4।20।2।3

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥

 : पूर्वे_अब्दे, पूर्वतरे_अब्दे, अस्मिन्_अब्दे

पदार्थ-विभागः : , द्रव्यम्, कालः

अब्द पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

3।3।88।3।2

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

अब्द पुं।

वत्सरः

समानार्थक:अब्द,शरद्,वर्ष

3।3।88।3।2

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अ(ब्द)ब्द¦ पु॰ अवति रक्षति सीमानं दन्।

१ पर्वतभेदे स चवर्षपर्वत एव तद्भेदः वर्षपर्वतशब्दे वक्ष्यते। अपोददातिदा--क

६ त॰।

२ मेघे

३ मुस्तायां च तस्याश्चात्यन्तशीतवीर्य्य-त्वेन वैद्यकोक्तेः जलमयमूलत्वाच्च तथात्वम्। आप्यन्तेव्याप्यन्ते ऋतुमासपक्षतिथिनक्षत्रयोगकरणवारादयो येनआप--दन् ह्रस्वश्च
“अ(ब्दा)ब्दादयश्च” उ॰ नि॰।

४ वत्सरे। स च नवविधः।
“ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यंगुरोस्तथा सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नवेति” सू॰ सि॰ उक्तेः तत्र ब्राह्माब्दमानम्
“सूर्य्याब्दसंख्ययाद्वित्रिसागरैरयुताहतैः सन्ध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्यु-गम् इथं युगसहस्रेण भूतसंहारकारकः कल्पी ब्राह्ममहःप्रोक्तं शर्वरी तस्य तावतीति” परमायुः शतं तस्य तयाहोरात्र-संख्यया” इति च सू॰ सि। तथाच सौरैः (

४३

२०

००

०० ॰॰॰)एतावद्वर्षैस्तस्याहस्तावद्भिश्च रात्रिः तेन द्विगुणितैस्तैः

३६

० गुणितैर्ब्राह्माब्दमानम्। अथ दिव्यम्
“मासैर्द्वादश-भिर्वर्षं दिव्यं तदहरुच्यते तत्षष्टिः षड्गुणा दिव्यं वर्ष-मासुरमुच्यते” इति तत्रोक्तेः

३६

० सौरवर्षैर्दिव्याब्दमानम्
“मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र द्युनिशोर्भेदइति तत्रोक्तम् मन्वन्तरमानमेव प्राजापत्याब्दमानम् तच्च
“युगानां

४३

२०

००

० सप्ततिः सैका मन्वन्तरमुदाहृतम्” इत्युक्तम् तेन

७१ गुणितैः

३१

१०

४०

०० सौरवर्षैः प्राजाप-त्यम्। पित्र्यं तु
“त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहःस्मृतम् निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः” इत्युक्तेः चान्द्रमास एव पित्र्यमहोरात्रं तच्च

३६

० गुणितंतद्वर्षमानम् तथाच

१०

८०

० चान्द्रदिनैः पित्र्यवर्षमान-मितिफलितम्। वार्हस्पत्यन्तु
“वैशाखादिषु कृष्णे च योगःपञ्चदशे तिथौ। कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात्तया” सू॰ सि॰
“यया पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञोमासो भवति तथेति समुच्चयार्थकम्। वृहस्पतेः सूर्य्य-सान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसुमासेषु कृष्णपक्षे पञ्चदशे तिथौ अमायामित्यर्थः। चकारःपौर्णमासीसम्बन्धात् समुच्चयार्थकः। योगो दिननक्षत्र-सम्बन्धः कार्तिकादीनि द्वादश वर्षाणि भवन्ति। वैशाख-कृष्णपक्षपञ्चदश्याममारूपायां वृहस्पतेरस्ते उदये वाजाते सति तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात्कार्त्तिकसंज्ञम्। एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनकार्त्तिक-मार्गशीर्षपौषमाघफाल्गुनचैत्रामासु क्रमशो मृगपुष्यमघापूर्ब-[Page0271-b+ 38]( फाल्गुनीचित्राविशाखाज्येष्ठापूर्व्वाषाढाश्रवणापूर्बभाद्रा-श्विनीनक्षत्रसम्बन्धान्मार्गशीर्षादीनि भवन्ति। अत्रापिनक्षत्रद्वयत्रयसम्बन्धः चान्द्रमासवत् बोध्यः। तच्च मासशब्देदृश्यम् तेन यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्रा-धिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पपर्य्यम्। मेषादिसंक्रान्तीरुक्त्वा
“मेषादयो द्वादशैव सौरमाने तु वत्सर” इति
“सौरन्तु तद्भवेन्मानं भानोर्भगणपूरणादिति” चोक्तेः

३६

० सौरदिवसैः सौरवर्षमानम्। सावनन्तु
“उदयादोदयं भानोः सावनं तत्प्रकीर्त्तित” मित्युक्तम्।
“पञ्चाङ्गरामास्तिथयः खरामाः सार्द्धद्विदस्राः कुदि-नाद्यमब्दे” इति सि॰ शि॰ उक्तेः

३६

५ , दिनानि

१५ ,

३० ,

२२ ,

३० , दण्डादिसहितानि सावनदिनानि
“अस्यार्कमासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास” इति सि॰ शि॰ उक्तदिशा तन्मासादयोज्ञेयाः।
“त्रिं-शता तिथिभिर्मासश्चान्द्र इति” प्रागुक्तं चान्द्रमानम्तच्च
“कालेन येनैति पुनःशशीनं क्रामन् भचक्रं विवरेणगत्योः मासः स चान्द्रोऽङ्कयमाः कुरामाः शून्येषवस्तत्कुदिनप्रमाणम्” इति सि॰ शि॰ उक्तेः

३१ ।

५० दण्डादि-युतैरेकोनत्रिंशत्कुदिनैश्चान्द्रमासः द्वादशगुणिते च तस्मिन्

३५

४ ।

१८ कुदिनैश्चान्द्रबर्षमानम् चान्द्रमासविशेषाःमासशब्देवक्ष्यन्ते। नाक्षत्रं यथा
“भचक्रभ्रमणं नित्यं नाक्षत्रंदिनमुच्यते” सू॰ सि॰ नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रससूहस्यप्रवहवायुकृतः परिभ्रमः नाक्षत्रं नक्षत्रसंवन्धि दिनम्। एवं{??}नवसु ब्राह्मादिषु वर्षेषु दर्शितेषु चतुर्ण्णामेवव्यवहारोपयोगिता यथोक्तं
“चतुर्भिव्यवहारोऽत्र सौर-चान्द्रार्क्षसावनैः वार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तुनित्यश” इति सू॰ सि॰। तत्र कस्य कुत्रोपयोगस्तदप्युक्तंतत्रैव।
“सौरेण द्युनिशोर्वामं षडशीतिमुखानि च अयनंघिषुवच्चैव संक्रान्तेः पुण्यकालता” इति
“तिथिःकरणमुद्वाहःक्षौरं सर्ब्बक्रियास्तथा व्रतोवासयात्राणां क्रिया चान्द्रेणगृह्यते” इति
“सावनानि स्युरेतेन यज्ञकालविधिस्तु तैःसूतकानां परिच्छेदोदिनमासाब्दपास्तथा मध्यमग्रहभुक्तिश्चसावनेनैव गृह्यते” सू॰ सि॰। चान्द्रेण तु मासवर्षादि-गणनापि
“चैत्रे मासि जगत्स्रष्टा ससर्ज प्रथमेऽहनिशुक्लपक्षे समग्रन्तु ग्रहतारोदये सति प्रवर्त्तयामासतदा कालस्य गणनामपि ग्रहान् राशीनृतून् मासान्वत्सरान् वत्सराधिपान्” इति म॰ त॰ ब्र॰ पु॰।
“य-त्राब्दे पुण्यसहमं शुभं सोऽब्दः शुभप्रदः” इति नी॰ ता॰। [Page0272-a+ 38]

अब्द¦ पु॰ अब्दवत्। वत्सरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्द¦ m. (-ब्दः)
1. A cloud.
2. A year.
3. A fragrant grass, (Cyperus rotundus.)
4. The name of a mountain. E. अप् water, प changed to ब, and द what gives; or अब to preserve, &c. and दन् Una4di affix; hence the word is also written अब्द।

अब्द¦ m. (-ब्दः)
1. A cloud.
2. A year. E. अव to preserve, दन् Una4di affix, see अब्द। [Page071-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्द [abda], a. [अपो ददाति, दा-क; said in Uṇ 4.98 to be from अब; अबतीत्यब्दः] Giving water.

ब्दः A cloud.

A year (in this sense n. also) व्योम्नो$ब्दं भूतशाबल्यं भुवः पङ्कमपां मलम् Bhāg.1.24.34. अब्दमेकं चरेद्भक्तः Mb. 13.17.74.

N. of a grass (मुस्ता).

N. of a mountain. cf... अब्दो मेघे च दर्पणे । प्रभवादौ पर्वते च ...Nm.-Comp. -अर्धम् half a year. -तन्त्रम् Name of an astronomical work. -वाहनः N. of Śiva. -शतम् a century. -सारः a kind of camphor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अब्द/ अब्-द mfn. giving water L.

अब्द/ अब्-द m. a year

अब्द/ अब्-द m. a cloud Bhat2t2.

अब्द/ अब्-द m. the grass Cyperus Rotundus

अब्द/ अब्-द m. N. of a mountain L.

"https://sa.wiktionary.org/w/index.php?title=अब्द&oldid=487483" इत्यस्माद् प्रतिप्राप्तम्