अभाव

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभावः, पुं, (भू + भावेघञ, नञ्समासः ।) मरणं । असत्ता । इति विश्वमेदिनौ ॥ “अस्ति पुत्त्रो वशे यस्य भृत्योभार्य्या तथैवच । अभावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले” ॥ इति चाणक्यः । (“अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः” ॥ इति मनुः ।) द्रव्यादिषट्कभिन्नः । स द्विविधः । संसर्गाभावः १ अन्योन्याभावश्च २ । इति भाषा- परिच्छेदः ॥ भावशून्यः भावः स्थायिभावादिरिति अलङ्कारशास्त्रं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाव¦ पु॰ न भावः। भावभिन्ने सत्त्वेन प्रतीत्यनर्हेवैशेषिकोक्तेसप्तमपदार्थे भावभिन्नत्वमभावत्वमिति बहवः। भावभेदा-अयरूपत्वस्य तल्लक्षणस्य अभावविशेषघटितत्वेन अन्योन्या-श्रयदोषग्रस्ततया अभावत्वमखण्डोपाधिरिति नव्याः। अभावश्च भावाभावसाधारणाश्रयः घटाभावस्य पटे पटा-भावदो च सत्त्वात् स च भावातिरिक्तः कश्चित् पदार्थइत्याधुनिका वैशेषिका नैयायिकाश्च उररीचक्रुः। सूत्र-कृता तु
“द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानांसाधर्म्मवेधर्म्म्याभ्यां तत्त्वज्ञानान्निश्रेयसम्” इति षडेवपदार्थाः कण्ठत उक्ताः। अत एव
“न वयं षट्पदार्थवादिनः” इति सांख्यसूत्रे षट्पदार्थीस्वीकारस्तेषां सूचितः। आधु{??}स्तु घटोनास्तीत्यादिप्रतीत्यन्यथानुपपत्त्या पदार्था{??}रम्भावं कल्पयन्ति। प्राभाकरास्तु अभावस्याधिकरणस्वरूपत्वसङ्गीचक्रुः। तेषामयमाशयः
“मानाधीना मेयसिद्धि-रित्युक्तेः अभावस्यातिरिक्तस्य सिद्धौ प्रमाणं वक्तव्यम्न तावत् प्रत्यक्षम्, अभावस्य रूपाद्यभावेन इन्द्रियसन्नि-कर्षाभावात् तदयोग्यत्वात् न च इन्द्रियसंयुक्तविशेषणतातत्सन्निकर्षः भूतलादौ चक्षुरादिसन्निकर्षसत्त्वेऽपि तत्स्वरूपविशेषणताया अव्यावर्त्तकत्वात् अन्यथा घटाभावप्रत्यक्षकाले षटाद्यमावप्रत्यक्षस्य दुर्वारत्वात् भूतलादि-स्वरूपस्यानुगमात् तुल्यै सन्निकर्षरूपे विशैषणतासम्बन्धे विमिगमनाभावेन नियामकत्वाभावात्। अथज्ञानलक्षणया यस्य{??}नं तस्यैवाभावस्य प्रत्यक्षमितिकल्पनादस्ति नियम इति चेत् ज्ञानलक्षणया घटादेरुपनये[Page0282-b+ 38] तद्विशिष्टबुद्धेरेवोदयप्रसङ्गात् विशिष्टबुद्धौ विशेषणज्ञानस्य-हेतुत्वेन तज्ज्ञानसामग्र्याः समवधानात् अथ अभाव-ज्ञानसामग्र्याः प्रतिबन्धकत्वेन न तद्बोघ इति चेत् अभाव-बोधसामग्र्याः अनियतत्वेन तस्या अप्रतिबन्धकत्वात्इन्द्रियसन्निकृष्टविशेषणतात्मकस्य स्वरूपसम्बन्धस्य भूतलादि-स्वरूपत्वानतिवृत्तेः भूतलादिस्वरूपस्य कदाचिदप्यनपायेनप्रतिबन्धकत्वायोगात् अन्यथा भूतलादौ कदापि घटादे-र्ज्ञानलक्षणया विशिष्टज्ञानस्यानुत्पत्त्यापत्तेः
“अभावबुद्धिश्चविशिष्टवैशिष्ट्यावगाहिबोधमर्य्यादां नातिशेते” इति दी-धितिकृदुक्तेरादौ प्रतियोगिज्ञानस्यापेक्षितत्वेन अभावांशेप्रतियोगिज्ञानवत् धर्म्म्यंशे तद्भानस्य दुष्परिहारत्वात्। एतेन योग्यानुपल्ब्धेस्तत्र हेतुत्वकल्पनेऽपि न निस्तारः। घटादीनामिव पटादेरपि योग्यतया तदुपलब्धेरभावस्यसत्त्वेन सर्वेषां योग्यानामभावप्रत्यक्षप्रसङ्गात्। नाप्यनुमानंतत्र प्रमाणं, तत्र व्याप्तिलिङ्गादेरभावात्। तस्यैवाज्ञानेतद्व्याप्यताग्रहासम्भवाच्च किञ्चातिरिक्ताभाववादिभिः भूतले
“घटोनास्तीति प्रतीतिः सविषया प्रतीतित्वात् यत्तज्-ज्ञानं तत्तत् सविषयकं यथा घटादिज्ञानमित्यनुमानप्रयोगःस्वीकार्य्यः। तत्र तदनुमानेन सविषयकत्वसिद्धावपि अधि-करणस्वरूपेणैव तद्विषयकत्वसम्भवेन उद्देश्यासिद्धेःनापि लक्षणात्तत्सिद्धिः अभावस्य निर्वक्तुमशक्यतयातल्लक्षणस्यैवाभावात्। तथा हि अभावशब्दस्य व्युत्-पाद्यमानस्य भावभिन्नत्ववाचितया भावभिन्नत्वमभावस्यलक्षण बाच्यं तच्च भेदरूपाभावज्ञानसापेक्षत्वेनान्योन्याश्रय-दोषकवलितत्वेन दुर्ज्ञेयम्। किञ्च भावभिन्नत्वस्य अभाव-लक्षणत्वे भावरूपविशेषणज्ञानशून्यकाले घटोनास्तीतिप्रत्ययानुपपत्तिः विशिष्टवुद्धेर्विशेषणज्ञानाधीनत्वात्, अभावोन भाव इति वाक्यात् शाब्दबोधानुपपत्तिश्च उद्देश्यता-वच्छेदकविधेययोरैक्ये घटोघटः इत्यादाविव शाब्दबोधा-भावस्य सर्वसम्मतत्वात्। एतेन अभावत्वम् समवायसामना{??}धिकरण्यान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकसत्त्वा-भाववत्त्वमित्युक्तावपि न निस्तारः तथात्वे अभावो नभाव इति शाब्दबोधोपपत्तावपि तदज्ञानकाले घटोना-स्तीति प्रत्ययस्यानुपपत्तेरन्योन्याश्रयदोषस्य दुष्परिहर-त्वाच्च। घटाभावाभावादेर्घटरूपतयाऽङ्गीकारेण तत्र सम-वायेन सत्तावत्त्वेन निरुक्ताभावबत्त्वाभावात् घटाभावाभावोऽ-भाव इति बुद्धेरनुत्पत्त्यापत्तेश्च। अथ अभाववत् अभावत्वमप्यति-रिक्तः पदार्यः तर्थाचाभावत्वं न भावभिन्नत्वादि किन्तु स्वरूप-[Page0283-a+ 38] सम्बन्धविशेषः अखण्डोपाघिर्वेति मतम् तत्रेदमुच्यतेकोऽयंस्वरूपसम्बन्धः? किं स्वरूपमेव संबन्धः? स्वरूपस्य वासम्बन्धः? तत्राद्ये यदि अधिकरणस्वरूपस्यैव सम्बन्धत्वम्आयातं तर्हि अभाबस्याधिकरणस्वरूपत्वेन, स्वरूपस्यैवाभावाधिकरणसम्बन्धत्वेन भवताऽपि स्वीकारात्। अन्त्ये कस्य स्वरूपस्य सम्बन्धः? यदि अधिकरणस्यतदा जितं प्राभाकरैः अन्यस्य तथाबिधत्वेऽप-सिद्धान्तापत्तेः भूतले तदाधारतानुपपत्तेश्च। अखण्डो-पाधरपि अभाववत् प्रमाणसापेक्षतया तद्दोषताद-वस्थ्यम् प्रमाणाधीनतयैव पदार्थस्य सिद्धेः सर्व्वसम्मतत्वात्असति प्रमाणे कथं तत्सिद्धिः?। किञ्च अखण्डोपाधित्वग्यभवन्मते कारणतादावपि सत्त्वेनाभावेतरभेदासाधकतया तल्ल-क्षणत्वायोगः भिन्नभिन्नास्वण्डोपाधिस्वीकारे च तस्यापिलक्षणसापेक्षतया तस्य च निर्वक्तुमशक्यतया न तस्याभाव-लक्षणत्वम्। न च नञ्पदशक्यतावच्छेदकतया तत्सिद्धिःतथाहि अभावस्य अधिकरणस्वरूपत्वे स्वरूपसंबन्धविशेषस्यैवनञ्पदशक्यतावच्छेदकत्वं वाच्यं तदपेक्षया अभावत्वरूपा-खण्डोपाधेरेव तथात्वकल्पने लाघवम् इति वाच्यम् कम्बु-ग्रीवादिमानित्यादौ गुरुधर्म्मेऽपि शक्यतावच्छदकत्वस्वीका-रात् अन्यथा घटः कम्बुग्रीवादिमानित्यादि वाक्यात् शाब्द-बोधानुपपत्तिः। उपेयते च सर्वैः गुरुधर्म्मेऽपि शक्यताव-च्छेदकत्वम्। अथ शब्दएव अभावे प्रामाणमिति चेत्शब्दवेद्यस्य ब ध्यापुत्रादेरपि, अतिरिक्ततया कल्पनापत्तेःअथाप्तशब्दएव प्रमाणमिति चेन्न अभावस्य पदार्थान्त-रत्वे आप्तवाक्याभावात् भवतां सूत्रकृताऽपि अभावस्यषट्पदार्थातिरिक्ततया क्वाप्यनुक्तेः अभावशब्दमात्र-प्रयोगेऽपि तस्याधिकरणस्वरूपत्वेनोपक्षीणत्वात्। एवमतिरिक्ताभावकल्पनपक्षे निरस्तेऽपि स्वपक्षदोषोद्धार-मित्थं चक्रुः। अभावस्याधारस्वरूपत्वे भूतले घटोनास्ती-त्यादावधिकरणताप्रतीतिः कथं संगच्छतामिति चेत्परेषामिव अत्यन्ताभावस्य नित्यत्वेऽपि घटसत्त्वे घटाभाव-बुद्धेरनुत्पादे तत्तत्कालीन भूतलादिसम्बन्धस्य नियामकतावत्तत्तत्कालीनभूतलस्वरूपस्यैव अभावपदार्थतया तथाप्रती-तिसम्भवात् तत्तत्कालीनभूतलस्वरूपस्य घटाद्यनवेच्छद्यकाल-सम्बन्धरूपतया तस्य च भूतले स्वरूपमित्यादिवदाधारता-ऽक्षतेः। एतेनानन्तसम्बन्धस्वरूपकल्पनापेक्षया एकाभाव-कल्पने लाघवमित्यपास्तं कॢप्ततया कालस्य तत्सम्बन्धस्यच सर्ववादिसम्मततया अधिकस्याकल्पनात्। भवतामभाव[Page0283-b+ 38] इव तत्रैव सम्बन्धे घटादेः प्रतियोगितया{??}यः कल्प्यतेअतो नाधिककल्पना। घटो न पट इत्यादौ पटनिष्ठमेयतत्तत्कालीनतादात्म्यं भेदशब्दार्थस्तत्रैव पटतादात्म्या-नुपहिकस्य तादात्म्यस्याधिकरणे घटादिस्वरूपे भेदेतादृशसम्बन्धे वा पटादेः प्रतियोगितयान्वये सर्वसामञ्जस्यम्। अतएव
“न सोऽस्ति प्रत्ययोलोके यत्र कालो नभासते” इत्युक्तेः सर्वत्रबुद्धौ कालावभास इत्यभिपुक्तोक्तिः। भक्तामभावभेदबुद्ध्योर्यधा नियमः मन्मतेऽषि तथा। वाय्वादौ रूपाद्यभावचाक्षुषत्वाद्यनुपपत्तिरिष्टैव त च तत्रदृढतरं किञ्चित् प्रमाणमस्तियैन तत्स्वीकाराबा{??}कतेति”। अभावभेदबुद्ध्योर्नियमाश्च नञशब्दे प्रदर्शयि{??}न्ते। भोऽयम-भावः बौद्धः शून्यतया आकाशतया निरावरणतया निरु-पाख्यतया च व्यवह्रियते तच्च तन्मतावसरे वक्ष्यते।
“अ-भावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशय” इति हरिः।
“नाभावौपलब्धेः शां॰ सू॰।
“नासतोविद्यते भावोनाभावोविद्यते सतः” इति गीता। यथा च अभावान्नभावोत्पत्तिस्तथा उत्पत्तिशब्दे वक्ष्यते। न्यायादिमते सचाभावः द्विविधः संसर्गाभावः अन्योन्याभावश्चेति भेदात्संसर्गवावश्च ध्वंसप्रागभावात्यन्याभावभेदात् त्रिविधः।
“अभावश्च द्विधा संसर्गान्योन्थाभावभेदतः। प्रागभा{??}थाष्वं सोऽप्यत्यन्ताभावएव च। एवं त्रैविध्यमापन्नः संसर्गाभावइष्यते” इति भाषा॰। प्रागभावश्च उत्पत्तेः प्राक्कारणस्य सूक्ष्मावस्था, उतपत्तिराविर्भावः, ध्वंसस्तिरोभावइति सांख्यादयः।

२ मरणे, मरणञ्च स्वादृष्टारब्धशरो-रेणसह जीवस्य विभागः, पूर्ब्बसंयोगनागो बा, प्राणवायो-रुत्क्रमणं वा बोध्यम्। भावः आलङ्कारिकोक्तरत्यादि-स्थायिभावः

३ तच्छून्ये त्रि॰। आन्तरः भावः स्नेहापर-पर्य्यायः अनुरागः।

४ तद्धीने त्रि॰। सचानुरागः देव-विषयो भक्तिः पुत्रादिविषयः स्नेहः, पत्यादिविषयः प्रेमेतिभेदः। मीमांसकाद्युक्ते अभावग्राहके

६ योग्यानुपलब्धिरूपे प्रमाणे

७ असत्त्वे, अविद्यमानत्वे च। वास्तिभावः सत्त्वं यस्य।

८ मिथ्याभूते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाव¦ m. (-वः)
1. Non-existence, annihilation.
2. Death.
3. (In logic) Negation of two kinds, संसर्गाभाव universal negation, and अन्योन्याभाव relative or mutual negation.
4. (In rhetoric) Absence of the essen- tial parts of poetical description of character, want of the pro- perties or temperaments. E. अ priv. भाव being.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाव [abhāva], a. [न. ब.] Without love or affection. कच्चिन्ना- भिहतो$भावैः शब्दादिभिरमङ्गलैः Bhāg.1.14.4.

Nonexistent.

वः Not being or existing, non-existence; गतो भावो$भावम् Mk.1 has disappeared.

Absence, want, failure; सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः Ms.9.188; mostly in comp.; सर्वाभावे हरेन्नृपः 189 in the absence of all, failing all; तोय˚, अन्न˚, आहार˚ &c.

Annihilation, death, destruction; (वचो...पथ्यमुक्तम्) राक्षसानामभावाय त्वं वा न प्रतिपद्यसे Rām.5.21.1. non-entity; नाभाव उपलब्धेः Ś B.; क्षणमात्रभवामभावकाले Śi.2.64; Ki.18.1.

(In phil.) Privation, non-existence, nullity or negation, supposed to be the seventh category or पदार्थ in the system of Kaṇāda. (Strictly speaking अभाव is not a separate predicament, like द्रव्य, गुण, but is only a negative arrangement of those predicaments; all nameable things being divided into positive (भाव) and negative (अभाव), the first division including द्रव्य, गुण, कर्म, सामान्य, विशेष and समवाय; and the second only one अभाव; cf. अत्र सप्तमस्याभावकथनादेव षण्णां भावत्वं प्राप्तं तेन भावत्वेन पृथगुपन्यासो न कृतः Muktā.) अभाव is defined as भावभिन्नो$भावः (प्रतियोगिज्ञानाधीनविषयत्वम्) that whose knowledge is dependent on the knowledge of its प्रतियोगी. It is of two principal kinds संसर्गाभाव and अन्योन्याभाव; the first comprising three varieties प्रागभाव, प्रध्वंसाभाव, and अत्यन्ताभाव. -Comp. -संपत्तिः f. false attribution (= अध्यास q. v.)

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभाव/ अ-भाव m. non-existence , nullity , absence

अभाव/ अ-भाव m. non-entity , negation (the seventh category in कणाद's system)

अभाव/ अ-भाव m. proof from non-existence (one of the six प्रमाणs in वेदान्तphil. [" since there are no mice , therefore there must be cats here "] See. प्रमाण)

अभाव/ अ-भाव m. annihilation , death.

"https://sa.wiktionary.org/w/index.php?title=अभाव&oldid=487536" इत्यस्माद् पुनः प्राप्तिः