अभिधा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिधा, स्त्री, (अभि + धा + करणे भावे च अङ्, स्त्रियां टाप् ।) नाम । इति हेमचन्द्रः ॥ न्याय- मते शब्दशक्तिः । मीमांसामते विधिसमवेत- विधिव्यापारीभूतपदार्थः । तस्या लक्षणं । “स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते” । इति काव्यप्रकाशः ॥ * ॥ तत्र “सङ्केतितार्थस्य बोधनादग्रिमाभिधा” । इति साहित्यदर्पणं ॥ (आ- ख्या । आह्वा । अभिधानं । नामधेयं ।)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिधा¦ स्त्री अभि + घाञ्--भावे अङ्।
१ कथने,
२ शब्द-निष्ठे अर्थबोधजनकताशक्तिभेदे च। अभिधीयतेऽनेनेतिकरणे अङ्।
३ वाचकशब्दे भट्टमते फलजनकव्या-पाररूपायां शब्दनिष्ठायां
४ भावनायाञ्च। अभिधा चसङ्केतितार्थस्य बोधिका शब्दनिष्ठा शक्तिरिति आलङ्कारिका
“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः॥ व्यङ्ग्योव्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” ता अभि-धाद्याः।
“तत्र सङ्केतितार्थस्य बोधनादग्रिमाऽभिधा” सा॰ द॰। भाट्टास्तु प्रवृत्तिजनने विधिव्यापारीभूता विधिसमवेता भावनापरनामाऽतिरिक्तपदार्थविशेषोऽभिधा तस्याएव ज्ञानं प्रवर्त्तकं तत्रैव च भावनात्वरूपेण विधिशक्तिः साच जन्यत्वसम्बन्धेन एकपदोपात्तत्वप्रत्यासत्त्या वा आख्यात-सामान्यशक्तिबललभ्या कृतिरूपव्यापारविधेरर्थान्तरे विशे-षणतयाऽन्वेति प्रकृत्यर्थोऽपि विषयितया व्यापारे विशेषणंतया च यागविषयकभावनाजन्यव्यपारवान् पुरुष इत्य-न्वयबोधः नचैतादृशबुद्धावपि प्रयोजनाज्ञाने कुतः प्रवृत्तिःप्रयोजनस्याहेतुत्वे विश्वजिदादौ फलकल्पनानुपपत्तेरितिवाच्यम् यागविषयकव्यापारेऽभिधाजन्यत्वस्यान्वये व्यापार-निष्ठेष्टसाधनत्वस्यान्वयप्रयोजकरूपतया योग्यतात्वेन यो-ग्यताबलादेव व्यापारे तद्भानात्। यद्वा विधित एवस्वर्गादिसाधनत्वग्रहस्तच्च प्रवृत्तिरूपव्यापारे आख्यातार्थे-ऽन्वेति प्रवृत्ताविष्टसाधनताज्ञानमेव प्रवर्त्तकम्। न चैवंन्यायमताविशेषः इष्टसाधनत्वेन विध्यर्थत्वस्वीकारादिति वाच्यंक्रियागतं साघनत्वं न विध्यर्थः अपि तु प्रवृत्तिगतमितिविशेषात् अभिधाभ्युपमानभ्युपगमाभ्यामपि विशेषसम्भवाच्चन चैवं तादृशाभिधायां मानाभाव इति वाच्यं विधिः प्र-वृत्तिजनकधर्म्मसमवायिकारणं तज्जनकद्रव्यत्वादात्मवदित्यनु-मानादेव तत्सिद्धेः भट्टमते शब्दस्य द्रव्यत्वान्नासिद्धिः। नच प्रवृत्तिजनकशरीरे व्यभिचारः, तस्य शरीर प्राणसंयोगो-पादानत्वात् न च विधिर्न प्रवृत्तौ कारणं प्रवृत्तिसामान्ये[Page0289-b+ 38] व्यभिचारात् इति वाच्यं वैघजन्यप्रवृत्तौ तद्धेतुत्वात् ज्ञान-वत् प्रवृत्तावपि वैलक्षण्यसम्भवाच्च तच्च जातिरूपमखण्डो-पाधिरूपं स्वरूपं वेत्यन्यदेतत्। नन्वस्त्वभिधा तथापि तद्धीर्नप्रवृत्तिहेतुः प्रवृत्तिसामान्ये तस्य व्यभिचारात् प्रत्यक्षादिनाइष्टसाधनत्वग्रहेऽपि प्रवृत्तेः, नापि, यागादिविषयिकायां,यागकृतिः स्वर्गसाधनमित्याप्तवाक्यादितोपि प्रवृत्तेः। नापिबिधिजन्यायां, तज्जन्यताबच्छेदकस्यैब दुष्परिचयात्। नापिजातिबिशेषबिशिष्टायां, गुणगतजात्यनभ्युपगमात् इति चेन्नविधिजन्यतावच्छेदकाखण्डोपाध्यबच्छेदेनैब तद्धेतुत्वात् नच भावनादिपदादपि तादृशप्रवृत्त्यापत्तिरिति बाच्यं बिधि-जन्यभावनाज्ञानस्यैव विलक्षणशक्तिमत्त्वेन तादृशप्रवृत्तिवि-शेषे हेतुत्वादित्याहुः। तामेतामभिधारूपभावनां प्रभा-करान मन्यन्ते। एवं हि तस्यानिरासस्तैः कृतः” अभि-धासंकल्प्याऽपूर्ब्बभावनाज्ञानं न प्रवर्त्तकं तस्मिन् सत्यप्य-प्रवृत्तेः असत्यपि प्रवृत्तेश्च किन्तु कार्य्यत्वज्ञानमेव प्रवर्त्तक-मिति तथा हि ज्ञानस्य कृतौ जनयितव्याया चिकीर्षा-तिरिक्तं न कर्त्तव्यमस्ति यत्सत्त्वे कृतिविलम्बोहेत्वन्तरा-भावात्। चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्य-क्रियाविषयकेच्छा पाकं कृत्या साधयामीति तदनुभवात्सा च स्वकृतिसाध्यज्ञानसाध्या इच्छायाः स्वप्रकारकधी-साध्यत्वनियमात्” इति। यथा चास्यैव प्रवर्त्तकत्वं तथा विधिशब्दे वक्ष्यते। सा चाभिधाशक्तिः कुत्रार्थे कस्येति व्याकरणा-दितोज्ञायते तदुक्तमभियुक्तैः
“शक्तिग्रहं व्याकरणोपमानात्कोषाप्तवाक्यात् व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्तिसान्निध्यतः सिद्धपदस्य वृद्धा” इति व्याख्यायेदमुदाहृतम-स्माभिः शब्दार्थरत्ने। यथा
“तत्र सर्वेषां शब्द नां प्रथमतोव्यवहारादेव प्रायशः शक्तिग्रहः। तथा हि केनचित् वृद्धेनव्युत्पन्नं पुरुषं प्रति गामानयेत्युपदिष्टे तत् शृण्वन् व्युत्पन्नोगवानयने प्रवर्त्तते। तच्चेष्टादर्मनेन तत्प्रवृत्तिमनुमाय व्युत्-पित्सुर्बालो व्युत्पन्नपुरुषीयप्रवृत्त्यन्यथा{??}पपत्त्या तद्धेतुभूत-कर्त्तव्यतादिज्ञानादिकं तत्रानुमिनुतेऽनुमिनुते चापरकार-णानुपस्थितेः श्रुतस्यैव समुदितवाक्यस्य तद्धीजनकत्वम्। ततश्चवाक्यस्य तद्धीजनकत्वेन तत्सम्बन्धित्वमवसीयते इत्यतो व्यव-हारस्यैव शक्तिग्राहकत्वमित्येवमवसीयते शास्त्रकारः। पश्चाच्चपदानामन्वयव्यतिरेकाध्यां प्रत्येकपदशक्तिग्रहः तथा हि पुनश्चगां बधान घटमानयेत्यादिवाक्यश्रर्वणे नियोज्यस्यपूर्ब्बापेक्षया विशेषकार्य्यप्रवृत्तिदर्शनेन गवादिपद-श्रवणसत्त्वे तत्कार्य्यकरणं तदभावे च तत्कार्य्या-[Page0290-a+ 38] करणमित्यन्वयव्य तिरेकाभ्यां तत्तत्पदानां विशेषार्थवाचक-त्वावधारणमिति द्रष्टव्यम्। व्याकरणमपि तथा, तद्धि कर्मणिद्वितीयेत्यादिना द्वितीयादीनामर्थविशेषे प्रयोगनियमायप्रवृत्तं द्वितीयादीनामर्थमप्यबगमयति तथा हि कर्म्मण्येबद्वितीया शक्ता न करणादौ, कर्मणि द्वितीयैव शक्ता नतृतीयेत्येवं द्विविधनियमपरतया प्रवृत्तं शास्त्रं निमम-तदतिक्रमयोः पुण्यापुण्यफले दर्शयत् तत्तच्छब्दानां तत्त-दर्थेष्वेव साधुतोक्त्या शक्तिमवगमयति। तदुक्तं भाष्यकारैः
“सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्। प्रसिद्धा-नियमस्तत्र नियमः प्रकृतेषु चेति”। उपमानमपि शक्ति-ग्राहकम्। यथा गोसदृशो गवय इत्युपदेशवाक्यं श्रुत-वतोग्रामस्थपुरुषस्य वनगमनादनन्तरं गोसदृशपिण्डदर्शने-उपदिष्टं वाक्यं स्मरतश्च ईदृक् पिण्डो गवयपदवाच्यइति भवति मतिरित्युपमानरूपोपदेशवाक्यस्य गवयपद-शक्तिग्राहकत्वम्। तत्र च व्याकरणादीनामप्रवृत्तेःप्रकृतिप्रत्ययाधीनोपस्थिटतविषये एव व्याकरणस्य, रूढि-विषये च कोषस्योपयोगात्तदभावाच्च तस्यैव तत्र तथा-त्वम्। कोषोऽपि अनपेक्ष्यैव प्रकृतिप्रत्ययादिवि-भागं केषाञ्चित् पदजातानां रूढिज्ञानाय प्रवर्त्त-मानो मण्डपघटादिशब्दानां शक्तिमवगमयति। आप्त-वाक्यमपि तथा, व्याकरणादिशक्तिधीहेत्वज्ञानेऽपियथार्थज्ञानवतामुपदेशेन तत्तच्छब्दानां तत्तदर्थेषु शक्ति-ग्रहः। व्यवहारतस्तु दर्शितः। वाक्यशेषोऽपि तद्ग्रहे हेतुःयथा स्वर्गकामोयजतेत्यादौ श्रुतस्वर्गपदस्य अर्थविशेषमजा-नतामधिकारिणां तच्छक्तिबोधनाय प्रवृत्तेन
“यन्न दुःखेनसंभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्-सुखं स्वःपदास्पदमिति” वाक्यशेषब्राह्मणेन दुःखासं-भिन्नत्वादिमति सुखविशेषे एव स्वर्गपदस्य शक्तिग्रहः। व्याख्यानरूपा टीकादिपदाभिधेया विवृतिरपि तत्तच्छ-ब्दनां तत्तदर्थेषु{??}शक्तिं ग्राहयति यथा पचतिपदस्यपाकं करोतीति व्याख्या पाककर्त्तर्य्येवमन्यत्रापि। प्रसिद्धपदसामानाधिकरण्यमपि तद्ग्रहे हेतुः। पिका-दिशब्दार्थमविदुषामुपदेशाय प्रवृत्तेन सहकारतरौमधुरं रौति पिक इति वाक्येन प्रत्येकशक्त्या ज्ञातशक्तिक-पदोपस्थापितार्थे मधुरशब्दकारके पिकशब्दस्य शक्ति-ग्रहः। एवं कोषादावपि
“सत्कृत्यालङ्कृतां कन्यां योददाति स कूकुद” इत्यादौ प्रसिद्धपदोपस्थापितार्थे सत्कारपूर्ब्बकालङ्कृतकन्यादातरि कूकुदपदस्य शक्तिग्रहः। अत्र[Page0290-b+ 38] च प्रसिद्धपदसान्निध्यं नाम अर्थविशेषे निश्चितशक्तिकपद-सामानाधिकरण्यम् सामानधिकरण्यञ्च स्वबोध्यार्थेऽभेदे-नान्वयबोधजनकत्वम्। वैयाकरणमते चाख्यातप्रथमान्तार्थ-योरप्यभेदेनान्वयस्वीकारः। अतोमधुरं रौति, कन्यां ददा-तीत्यादावाख्यातान्तस्य प्रथमान्तसामानाधिकरण्यं सुलभमेव। अतएव च भाष्ये
“लटः शतृशानचावप्रथमासमांनाधि-करणे” इति सूत्रे अप्रथमासमानाधिकरणे इति निर्द्देशा-दन्यत्र लटः प्रथमान्तसामानाधिकरण्यमुपपादितमुपपादि-तञ्च
“आदेशे सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं स्था-निनः सामानाधिकरण्यमित्यादिना” लटः स्थानिलकार-सामान्यस्य प्रथमान्तसमाधिकरण्यम्। एतेन ददानः कूकुदःस्मृत इत्यादि पाठकल्पनमपि परेषामनादेयमेवेति”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिधा¦ f. (-धा)
1. A name, an appellation.
2. (In logic,) the power or sence of a word.
3. The chief or common acceptation of a word. E. अभि before धा to have, क affix and टाप् fem.: what any thing is ob- tained by.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिधा [abhidhā], 3 U.
(a) To say, speak, tell (with acc. rarely with dat.); सा तथ्यमेवाभिहिता भवेन Ku.3.63; Ms.1.42; Bk.7.78. य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति Bg.18.68. (b) To denote, express or convey directly or primarily (as sense &c.); state, mention, set forth; साक्षात्संकेतितं यो$र्थमभिधत्ते स वाचकः K. P.2; तन्नाम येनाभि- दधाति सत्त्वम्. (c) To speak or say to, address.
To name, call, designate; usually in pass. (-धीयते); इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते Bg.13.1.
To lay or put on, fasten, bind; to overlay, load; assail; receive, comprehend, include; to draw oneself towards, hold, support (mostly Ved. in these senses.)
अभिधा [abhidhā], a. Ved. Naming; praised, invoked. अभिधा असि भुवनमसि यन्तासि धर्ता Vāj.22.3. n.
A name, appellation; oft. in comp.; कुसुमवसन्ताद्यभिधः S. D.
A word, sound.
The literal power or sense of a word,denotation, one of the three powers of a word; वाच्यो$र्थो$ भिधया बोध्यः S. D.2. "the expressed meaning is that which is conveyed to the understanding by the word's denotation", for it is this अभिधा that conveys to the understanding the meaning which belongs to the word by common consent or convention (संकेत) (which primarily made it a word at all); स मुख्यो$र्थस्तत्र मुख्यो यो व्यापारो$स्याभिधोच्यते K. P.2. -Comp. -ध्वंसिन् a. losing one's name. -मूल a. founded on a word's denotation or literal meaning.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिधा/ अभि- -दधाति, to surrender any one to( dat. ; aor. Subj. 2. du. -धातम्) RV. i , 120 , 8 ; to bring upon( dat. ) RV. ii , 23 , 6 : A1. (rarely P. )to put on or round , put on the furniture of a horse(See. अभि-हीतbelow) RV. etc. ; to cover (a country) with an army MBh. ii , 1090 ; to cover , protect RV. viii , 67 , 5 ( aor. Pot. 2. pl. -धेतन) , etc. ; (in classical Sanskrit generally) to set forth , explain , tell , speak to , address , say , name(See. अभि-हितbelow) : Pass. -धीयते, to be named or called: Caus. -धापयते, to cause to name A1s3vGr2. : Desid. A1. -धित्सते, to intend to cover one's self RV. x , 85 , 30.
अभिधा/ अभि-धा f. name , appellation
अभिधा/ अभि-धा f. the literal power or sense of a word Sa1h.
अभिधा/ अभि-धा f. a word , sound L.
अभिधा/ अभि-धा mf. ( आस्)surrounding VS. xxii , 3.