सामग्री पर जाएँ

अभिराजराजेन्द्रमिश्र

विकिशब्दकोशः तः

ग्रन्थसमीक्षा ग्रन्थनाम- अभिराजयशोभूषणम् (अभिनवकाव्यशास्त्रम्) ग्रन्थकारः- मिश्रोऽभिराजराजेन्द्रः प्रकाशननाम/ वर्षश्च- वैजयन्त प्रकाशन, इलाहाबाद/ प्रथमसंस्करणम्- जुलाई २००६ मूल्यम्- पञ्चशतरुप्यकाणि (५००रु०) $ 11 आकारः-१२/८ ‘अभिराजयशोभूषणम्’ एकविंशशताब्द्यां विरचितं अभिनवकाव्यशास्त्रं वर्तते। अत्र ग्रन्थकारेण प्रो० मिश्रोऽभिराजराजेन्द्रेण काव्यशास्त्रक्षेत्रे भरतादारभ्य स्वावधिं समीक्षितानां तत्त्वानां सरलरीत्या साधुतया प्रतिपादनं क्रियते, तथा च पुरातनं तथ्यं अद्यतनीयसन्दर्भे परीक्ष्य निरीक्ष्य च नूतनया प्रतिपाद्यते। काव्यशास्त्रीयपरम्पराचार्येषु ग्रन्थकारस्य महती श्रद्धा दरीदृश्यते। सः स्वात्मानं मम्मटसदृशं समन्वयवादी मनुते, तथा परम्परायां यच्छाश्वतं तथ्यं विद्वद्भिः स्वीकृतं तत्तेषां सर्वथाऽभिप्रेतम्। ग्रन्थोऽयं पञ्चोन्मेषेषु विभक्तः तथाकारिका-वृत्ति-उदाहरण-पद्यसंवलितोऽस्ति। अत्र समग्राः ५६७ कारिकाः सन्ति। येषु परिचयोन्मेषे-५०, वस्तुतत्त्वोन्मेषे-१४६, आत्मतत्त्वोन्मेषे-८१, निर्मितितत्त्वोन्मेषे-१४०, प्रकीर्णतत्त्वोन्मेषे च -१३९, कारिकाः सन्ति। एतदतिरिक्तं पञ्चाशीत्यधिकैकशतमितानि (१८५) उदाहरणपद्यानि सन्ति, येषु शताधिकपद्यानि ग्रन्थकृतानि सन्ति। अन्यान्यप्युदाहरणानि आधुनिककवीनां रचनादेव उद्धृतानि येन तेषां काव्यशास्त्रीयसमीक्षणम् अथ लोकप्रियताऽपि सञ्जाता। उन्मेषानुसारं प्रतिपादिततत्त्वानां परिचयः निम्नलिखितोऽस्ति- परिचयोन्मेषे पञ्चप्रकरणानि सन्ति-काव्यप्रशंसा, काव्यप्रयोजनम्, काव्यहेतुः ,काव्यलक्षणम् काव्यशाखाप्रकरणञ्च। ग्रन्थस्यारम्भः शारदा-गणपति-मृडानि देवतानां तथा पूर्ववर्तीनामाचार्याणां स्मरणपूर्वकं नमस्कारेण भवति। काव्यप्रशंसायां कवेः, कविभारत्याः, कविकर्मणश्च सर्वातिशायित्वं सिद्ध्यति। काव्यप्रयोजने अन्वयव्यतिरेकमाश्रित्य यशोऽवाप्तिमात्रं प्रयोजनं निर्धारयति। तन्मते काव्यं वस्तुतः निष्प्रयोजनं भवति। परं विद्वांसः यदि किमपि प्रयोजनं स्वीकुर्वन्ति तर्हि तदेव काव्यप्रयोजनं भवितुमर्हति यत्सकलकाव्येन सिद्ध्येत्। काव्यहेतौ लौकिकालौकिकसहयोगिहेतुद्वयसमन्वितां प्रतिभामात्रं काव्यहेतुः वर्तते। तत्रालौकिको हेतुः दैवाधीनः स च प्रज्ञा-प्रतिभा-शक्तिप्रभृतिपदेन सम्बोध्यते। अपरश्च लौकिको हेतुः व्युत्पत्त्यभ्याससमन्वितो भवति। काव्यलक्षणे ग्रन्थकारः शब्दार्थयोः विवादमुन्मीलयन् स्वभावजं रसगर्भं लोकोत्तरमाख्यानमेव काव्यं लक्षयति। काव्यशाखायां सहृदयास्वाद्यं, कोविदास्वाद्यं, लोकास्वाद्यमिति त्रिधा विभागः काव्यानां कृतो वर्तते। वपुस्तत्त्वोन्मेषेऽपि पञ्चप्रकरणानि सन्ति-शब्दार्थप्रकरणम्, शब्दशक्तिप्रकरणम्, रीतिवृत्तिप्रकरणम्, गुणप्रकरणम्, अलङ्कारप्रकरणञ्चेति। शब्दार्थप्रकरणे शब्दार्थयोः महत्त्वं तयोर्मिथः अविनाभावसम्बन्धश्च प्रदर्शितः। शब्दशक्तिप्रकरणे तिसृणां शक्तीनां प्रतिपादनं तथा लक्षणावृत्तिकृते ग्रन्थकारः ‘त्रिस्थूणेति’ अन्वर्थमभिधानं करोति। तथा लक्षणायाः सर्वाणि उदाहरणानि नवीनानि सन्ति। यथा- संसद् ब्रवीति, पञ्चनदश्शूरः, कृष्णा दुह्यते आदि। अलङ्कारप्रकरणे ५ शब्दालंकाराणां ४८ अर्थालंकाराणाम् अर्थात् ५३ अलङ्काराणां विवेचनं कुरुते। आत्मतत्त्वोन्मेषे षड्प्रकरणानि सन्ति- यत्र रसालङ्कार-रीति-वक्रोक्त्यौचित्यानां काव्यात्मत्वं निराकृत्य आनन्दवर्धनानुमतं ध्वनेः काव्यात्मत्वं साधितं ग्रन्थकारैः। निर्मितितत्त्वोन्मेषे ग्रन्थकारः परम्पराविहितं काव्यभेदं तत्स्वरूपञ्च आधुनिकपरिप्रक्ष्ये साधुतया प्रतिपादयति। नाटक-महाकाव्य-कथोपन्यासादीनां लक्षणं सर्वथा आधुनिकयुगानुकूलं वर्तते। यथा-पारम्परिकरूपेण नाटकस्य नायकः कश्चित् प्रख्यातवंशीयः प्रतापवान् गुणवान् राजर्षिः देवः सत्पुरुषो वा भवति। परं ग्रन्थकारः वक्ति यत्- नायकविषये लिङ्गभेदो नोचितः, धीरोदात्तसमन्विता काचित् महिलापि स्याच्चेत् सापि नाटकस्य नेतृतां वोढुं शक्नोति। प्रकीर्णतत्त्वोन्मेषे तु विशेषोत्सवे प्रदेशविशेषप्रसिद्धानां गीतानां, गज्जलिकानां मुक्तच्छन्दसां वर्गीकरणम् तल्लक्षणानि उदाहरणानि च यत्प्रस्तुतानि भूषणकारैः तत्सर्वथा नूतनः परं महान् प्रयासः दृश्यते। इत्थम् उपर्युक्तविषयप्रतिपादनमाश्रित्य वक्तुं शक्यते यत् ‘अभिराजयशोभूषणम्’ प्राचीनार्वाचीनमतयोः साकल्येन सरलरीत्या चावबोधयितुं सर्वथा समर्थोऽस्ति। तथैतस्य समीक्षासरणिः सामञ्जस्यसमन्विता वर्तते।


सत्येन्द्र पाण्डेयः शोधच्छात्रः[साहित्यसंस्कॄतिसंकायः] श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कॄतविद्यापीठम्, चलवाणी-09958256212 नवदेहली,