अभ्युदय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदयः, पुं, (अभि + उत् + इन् + अच् ।) इष्ट- लाभः । विवाहादिः । इति आभ्युदयिकशब्दार्थे श्राद्धतत्त्वं ॥ सर्व्वतोभावेनोदथः । अर्थाद्धनजनादि- वृद्धिः । यथा, -- “राजन्नभ्युदयोऽस्तु वल्लनकवे हस्ते किमास्ते तव श्लोकः कस्य कवेरमुष्य कृतिनस्तत् पट्यतां पद्यते । किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना- दुद्वेल्लद्भजवल्लिकङ्कणझणत्कारः क्षणं वार्य्यंतां” ॥ इत्यस्य पूर्ब्बार्द्धं वल्लनकविकर्णाटराजयोर्वाक्यं शेषार्द्धं कालिदासस्य ॥ (उन्नतिः । समृद्धिः । “विपदि धैर्य्यमथाभ्युदये क्षमा सदसि वाकपटुता युधि विक्रमः” । इति हितोपदेशे । पराक्रमः । वीर्य्यं । प्रभावः । “यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीराः” । इति भागवतपुराणं ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय¦ पु॰ अभि + उत् + इण्--अच्।

१ अभीष्टकार्य्याणां प्रादु-र्भावे,

२ वृद्धौ,
“भवो हि लोकाभ्युदयाय तादृशाम्” रघुः। [Page0314-a+ 38] अभ्युदीयतेऽनेन करणे अच्।

३ आशास्यमानचूडादिसंस्कारेच। अत एव तदर्थकश्राद्धम् आभ्युदयिकमित्युच्यते।

४ अभ्युदयसाधने इष्टलाभे

५ वृद्धिनिमित्तके श्राद्धे च
“स-म्पन्नमित्यभ्युदये दैवे रुचितमित्यपि” मनुः।
“अभ्युदये वृद्धिश्राद्धे” कुल्लू॰।
“प्रतिषेद्धाऽपि चेद्या तु मद्यमभ्युदयेष्वपि” मनुः। भावे अच्।

६ उत्तरोत्तरोत्तरवृद्धौ
“अभ्युदयफलं घर्म्मज्ञान-मिति” शा॰ भा॰
“धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधन-मिति” भवि॰ पु॰। अभ्युदयः इष्टलाभादि प्रयोजनमस्य ठञ्। अभ्युदयनिमित्ते श्राद्धे।
“अथाभ्युदयिके श्राद्धे युग्मा-नाशयेत्” गोभि॰
“अभ्युदयः इष्टलाभः विवाहादि तदर्थंश्राद्धम् आभ्युयिकम् तच्च भूतभविष्यद्भेदेन द्विविधम् भूतंपुत्रजन्मादि भविष्यत् विवाहादि श्रा॰ त॰ रघुनन्दनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय¦ m. (-यः)
1. Prosperity, increase.
2. Accident, occurrence.
3. A festival, any religious celebration. E. अभि, and उदय rise, pros- perity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय [abhyudaya], a. Rising.

यः Rise (of heavenly bodies); sunrise.

Rise, prosperity, good fortune, elevation, success; स्पृशन्ति नः स्वामिनमभ्युदयाः Ratn.1 success; भवो हि लोकाभ्युदयाय तादृशाम् R.3.14; Ms.3.254; Bh. 2.63; R.12.3, V.5.

A festival; any religious or festive celebration, festive occasion; ˚कालः joyous or festive occasion; Ś.7; प्रतिषिद्धा पिवेद्या तु मद्यमभ्युदयेष्वपि Ms.9.84.

Beginning, commencement.

Occurrence, happening.

Accomplishment of a desired object (which is the cause of festivity).

Thetonsure ceremony.

A Śrāddha performed on account of child-birth (वृद्धिश्राद्धम्) -Comp. -अर्थकम् Śrāddha for prosperity or elevation. -इष्टिः f. N. of a particular expiatory sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्युदय/ अभ्य्-उदय m. sunrise or rise of luminaries (during or with reference to some other occurrence) Ka1tyS3r. Jaim.

अभ्युदय/ अभ्य्-उदय m. beginning , commencing (as of darkness , etc. ) R.

अभ्युदय/ अभ्य्-उदय m. elevation , increase , prosperity , happiness , good result Mn. iii , 254 R. etc.

अभ्युदय/ अभ्य्-उदय m. a religious celebration , festival Mn. ix , 84.

"https://sa.wiktionary.org/w/index.php?title=अभ्युदय&oldid=487927" इत्यस्माद् प्रतिप्राप्तम्