अभ्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्र गत्यां । इति कविकल्पद्रुमः ॥ ओष्ठवर्गचतु- र्थोपधः । अभ्रति । इति दुर्गोदासः ।
अभ्रम्, क्ली, (अपोबिभर्त्ति इति अप + भृ + क ।) मेघः । आकाशं । स्वर्णं । अभ्रकघातुः । इति मेदिनी ॥ उपधातुविशेषः । तस्योत्पत्तिनाम- लक्षणगुणाः । “पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतं । विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ ते निपेतुर्घनघ्वानाच्छिखरेषु महीभृतां । तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकं ॥ तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् । गगनाद्विलितं यस्माद्गगनञ्च ततो मतं ॥ विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्व्विधं । क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः ॥ प्रशस्यते सितं तारे रक्तं तत्तु रसायने । पीतं हेमनि कृष्णन्तु गदेषु भूतयेऽपि च ॥ पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधं । मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकं दलसञ्चयं ॥ अज्ञानाद्भक्षणात्तस्य महाकुष्ठप्रदायकं । दर्दुरं स्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिं ॥ गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः । नागन्तु नागवद्वह्नौ फुत्कारं परिमुञ्चति ॥ तद्भक्षितमवश्यन्तु विदधाति भगन्दरं । वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् ॥ सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् । अभ्रमुत्तरशैलोत्थं बहुसत्वं गुणाधिकं ॥ दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुणप्रदं” ॥ * ॥ मारिताभ्रगुणाः । “अभ्रं कषायं मधुरं सुशीत- मायुष्करं धातुविवर्द्धनञ्च । हन्यात्त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरग्रन्थिविषकृमींश्च ॥” “रोगान् हन्ति द्रढयति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । दीर्घायष्कान् जनयति सुतान्विक्रमैः सिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रं” ॥ * ॥ अशोधिताभ्रदोषाः । “पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं विदञ्च शोथं । हृत्पार्श्वपीडाञ्च करोत्यशुद्ध- मभ्रं ह्यसिद्धं गुरुतापदं स्यात्” ॥ * ॥ अस्य शोधनविधिर्यथा । “कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिःक्षिपेत् । भिन्नपत्रन्तु तत् कृत्वा तण्डुलीयाम्लजैर्द्रवैः ॥ भावयेदष्टयामं तदेवमभ्रं विशुध्यति” ॥ * ॥ तस्य मारणं यथा ॥ “कृत्वा धान्याभ्रकं तच्च शोधयित्वाथ मर्दयेत् । अर्कक्षीरैर्दिनं खल्ले चक्राकारञ्च कारयेत् ॥ वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत् । पुनर्म्मर्द्यं पुनः पाच्यं सप्तवारान् पुनः पुनः ॥ ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयं । म्रियते नात्र सन्देहः प्रयोज्यं सर्व्वकर्म्मसु ॥ तुल्यं धृतं मृताभ्रेण लौहपात्रे विपाचयेत् । घृते जीर्णे तदभ्रन्तु सर्व्वयोगेषु योजयेत्” ॥ * ॥ तत्र धान्याभ्रस्य विधिः । “पादांशसलिलं युक्तमभ्रं बद्ध्वाथ कम्बले । त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत् करैः ॥ कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत् । तद्धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये” ॥ इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्र नपुं।
आकाशः
समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी
1।2।1।1।3
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।
पदार्थ-विभागः : , द्रव्यम्, आकाशः
अभ्र नपुं।
मेघः
समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर
1।3।6।2।1
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥
अवयव : मेघभवम्
सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्
वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः
: मेघपङ्क्तिः, रसदब्दः
पदार्थ-विभागः : , द्रव्यम्, जलम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्र¦ अतौ भ्वादि॰ पर॰ सक॰ सेट्। अभ्रति आभ्रीत् आनभ्रअभ्रम्
“तेष्वसौ दन्दशूकारिर्वनेष्वानभ्र निर्भयः” भट्टिः।
अभ्र¦ न॰ अभ्र--अच्।
१ मेघे
२ मुस्तके
३ आकाशे च अब्भ्र-शब्देऽधिकं दृश्यम्।
“तदा विद्यादनध्यायमनृतौ चाभ्र-दर्शने” मनुः
“अभ्रं लिहाग्रं रविमार्गभङ्गम्” भट्टिः।
“वर्षात्ययेन रुचमभ्रघनादिवोन्दोः” रघुः कुर्व्वादिगण-पाठात् तन्नामके ऋषिभेदे पु॰। तस्य अपत्यम् कुर्वादि॰ ण्य। अभ्र्यः तदपत्ये पुंस्त्री। अभ्रमिवाचरति क्यङ् अभ्रायते।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्र¦ r. 1st. cl. (अभ्रति) To go.
अभ्र¦ n. (-भ्रं)
1. The sky or stmosphere.
2. A cloud.
3. Gold.
4. Talc. E. अभ्र to go, or अप् water, and भृ to have, क aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रम् [abhram], [अभ्र्-अच्; but more correctly अप्-भृ; अपो बिभर्ति भृ-क; अभ्रम् अब्भरणात् Nir. being filled with water]
A cloud; अग्निर्वै धूमो जायते धूमादभ्रमभ्राद् वृष्टिः Śat. Br.; अभ्रं वा अपां भस्म; धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति Ch. Up.V.1.5.6. (these quotations show the conception of the ancient Ṛiṣis about the formation of clouds).
Atmosphere, sky; परितो विपाण्डु दधदभ्रशिरः Śi.9.3. See अभ्रंलिह &c.
Talc, mica. (Mar. अभ्रक)
Gold.
Camphor.
A kind of reed; Calamus Rotang (वेतस्, वेत्र).
Cyperus Rotundus (मुरता). (Mar. नागरमोथा)
(In arith.) A zero or cypher. [cf. L. imber, Gr. ombros, appros; Zend awra, Pers.abr] -Comp. -अवकाशः clouds as the only shelter; fall of rain. -अवकाशिक, -काशिन् a. exposed to the rain (and so practising penance), not seeking shelter from the rain; अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः Mb.12. 244.1; ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः Ms.6.23.-उत्थः 'sky born', the thunderbolt of Indra. -कूटम् a peak of a (mountain-like) cloud. -गङ्गा the heavenly river; K.5. -घनः a mass of clouds; वर्षात्ययेन रुचमभ्र- घनादिवेन्दोः R.13.77. -जा a. Ved. born from clouds, caused by vapours, यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च Av.1.12.3. -नागः one of the elephants supporting the globe; N. of Airāvata.
पथः atmosphere.
balloon. -पिशाचः, -चकः 'sky-demon', epithet of Rāhu. -पुष्पः N. of a cane (Mar. वेत) Calamus Rotang. See अभ्र (6).
(ष्पम्) water.
'a sky flower', anything impossible, a castle in the air.-प्रुष् (ट्) f. sprinkling of clouds, rain. -अभ्रप्रुषो न वाचा प्रुषा वसु Rv.1.77.1. -मांसी N. of a plant (जटामांसी).-मातङ्गः Indra's elephant, Airāvata. -माला, -वृन्दम् a line, succession, or mass of clouds; मयूरकेकाभिरिवाभ्रवृन्दम् R.7.69.13.76,16.25; मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् Me.65. -रोहम् the lapis lazuli (लाजवर्त, आकाशमणि)
लिप्ती sky covered with a few clouds.
a woman smeared with mustā grass. -वर्ष a. Ved. rained upon, sprinkled with water. (-र्षः) down-pour of rain.-वाटिकः, -का N. of a tree (आभ्रातक; Mar. अंबाडा).-विलायम् ind. just as clouds melt away; विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि Ki.11.79.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्र n. (sometimes spelt अब्भ्र, according to the derivation अब्-भ्र, " water-bearer " ; See. Comm. on ChUp. ii , 15 , 1 )(rarely m. AV. ix , 6 , 47 and TS. )cloud , thunder-cloud , rainy weather RV. etc.
अभ्र n. sky , atmosphere S3is3. ix , 3
अभ्र n. (in arithmetic) a cypher
अभ्र n. ([ NBD. ])dust AV. xi , 3 , 6
अभ्र n. (in med.) talc , mica
अभ्र n. gold L.
अभ्र n. camphor L.
अभ्र n. the ratan (Calamus Rotang) L.
अभ्र n. Cyperus Rotundus L. ; ([ cf. Gk. ? and Lat. imber.])