अभ्रक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रकम्, क्ली, (अभ्र गतौ + ण्वुल्, तस्य अक ।) स्वनामख्यातधातुः । आभ इति भाषा । तत्प- र्य्यायः । गिरिजं २ अमलं ३ । इत्यमरः ॥ गिरिजामलं ४ गौर्य्यामलं ५ । इति स्वामी ॥ गिरिजावीजं ६ गरजध्वजं ७ । इति वाचस्पतिः ॥ शुभ्रं ८ । इति जटाधरः ॥ घनं ९ व्योम १० अब्दं ११ । इति रत्नमाला ॥ अभ्रं १२ भृङ्गं १३ अम्बरं १४ अन्तरीक्षं १५ आकाशं १६ बहु- पत्रं १७ खं १८ अनन्तं १९ गौरीजं २० गौरी- जेयं २१ । इति राजनिर्घण्टः ॥ अस्य गुणाः । रसायनत्वं । स्निग्धत्वं बलवर्णाग्निवर्द्धकत्वञ्च । इति राजवल्लभः ॥ अपि च । गुरुत्वं । हिमत्वं । बल्यत्वं । कुष्ठमेहत्रिदोषनाशित्वञ्च ॥ * ॥ तच्चतु- र्व्विधं यथा, -- “श्वेतं पीतं लोहितं नीलमभ्रं चातुर्व्विध्यं चातिभिन्नक्रियार्हं । श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधिव्यग्रमग्र्यं गुणाढ्यं” ॥ इति मदनविनोदः ॥ (“अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः । अनयोर्मेलनं देवि मृत्युदारिद्र्यनाशनं” ॥ इति चक्रदत्तः ।)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रक नपुं।
अभ्रकम्
समानार्थक:अभ्रक,गिरिज,अमल
2।9।100।1।2
गवलं माहिषं शृङ्गमभ्रकं गिरिजामले। स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रक¦ न॰ पु॰ अभ्र--क्वुन्। क्वचित् पुंस्त्वमप्यस्य। (आव)-धातुभेदे एतच्च गौरीरजोजातं यथोक्तम् रस्वेश्वरदर्शनेशिववाक्यम्।
“अभ्रकस्तव वीजन्तु भम वीजन्तु पारदःअनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्”। जारिताभ्रस्यैवपारदमेलनद्वारा मृत्युनाशकत्वमतस्तज्जारणविधिर्दर्शितःश्चक्रदत्ते।
“कृष्णाभ्रकमनेकवपुर्व्वज्राख्यञ्चैकपात्रकंकृत्वा। काष्ठमयोदूखलके चूर्ण्णं मुषलेन कुर्व्वीत॥ भूयो दृशदि च पिष्टं वासःसूक्ष्मावकाशतलगलितम्। मण्डूकपर्ण्णिकायाः प्रचुररसे स्थापयेत्त्रिदिनम्॥ उद्धृत्यतद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्थम्। अक्षोदात्य-न्ताम्लस्वच्छजलेन प्रयत्नेन। मण्डूकपर्ण्णिर्कायाः पूर्ब्बंसुंरसेनालोडनं कुर्य्यात्। स्थालीपाकं पुटनं चाद्यैरपिभृङ्गराजाद्यैः॥ ताडादिपत्रमध्ये कृत्वा पिण्डं निधायभस्माग्नौ। तावद्दहेन्न यावल्लीनोऽग्निर्दृश्यते सुचिरम्॥ निर्वापयेच्च दुग्धेन दुग्धं प्रक्षाल्य वारिणा तदनु। पिष्ट्वा घृष्ट्वा वस्त्रे चूर्ण्णं निश्चन्द्रकं कुर्य्यात्” इति।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रक¦ n. (-कं) The mineral substance called talc. E. अभ्र the same, and कन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रकम् [abhrakam], [स्वार्थे कन्] Talc, mica; said to be produced from Pārvatī's menstrual discharge. -Comp. -भस्मन् n. calx of talc. -सत्त्वम् steel.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभ्रक n. talc , mica Bhpr. etc.