अमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा, व्य„ (न मा + का स्वरादित्वादव्ययं ।) सहार्थं । निकटं । इत्यमरः ॥

अमा, स्त्री, (न माति क्षयोदयविशेषं परिच्छिनत्ति, मा + क, नञ्समासः ।) अमावस्या । इति त्रिकाण्डशेषः ॥ चन्द्रमण्डलस्य षोडशकला । तथा च स्कन्दपुराणीयप्रभासखण्डे । “अमा षोडशभागेन देवि प्रोक्ता महाकला । संस्थिता परमा माया देहिनां देहधारिणी” ॥ अस्यार्थः । चन्द्रमण्डलस्य षोडशभागेन परिमिता आधारशक्तिरूपा क्षयोदयरहितत्वात् नित्या स्रक्सूत्रवत् सर्व्वानुस्यूता अमा नाम्नी महाकला पोक्ता । इति रघुनन्दनः ॥ (सह । सार्द्धं । समीपं । निकटं । अन्तिकं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा अव्य।

सह

समानार्थक:सकृत्,अमा,सार्धम्,साकम्,सत्रा,सम,सह

3।3।251।1।1

अमा सह समीपे च कं वारिणि च मूर्धनि। इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥

पदार्थ-विभागः : , शेषः

अमा अव्य।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।3।251।1।1

अमा सह समीपे च कं वारिणि च मूर्धनि। इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा¦ अव्य॰ न + मा--का।

१ सहार्थे, अमेवानः सुहवाः” ऋ॰

२ ,

३६ ,

३ ।
“अमा सह भा॰”। अमावस्या।

२ निकटे च। न माति परिच्छिनत्ति क्षयोदयविशेषम् मा--क न॰ त॰। सर्व्व कलाव्यापकतया स्थितायां चन्द्रस्य षोडश्यां

३ कलायाम्स्त्री
“अमा षोडशभागेन देवि! प्रोक्ता महाकला संस्थितापरमा माया देहिनां देहधारिणी अमादिपौर्ण्णमास्यन्तायाएव शशिनः कलाः। तिथयस्ताः समाख्याताः षोडशैववरानने!” इति स्क॰ प्रभा॰ ख॰। व्याख्यात चैतत् काल-माधवीये
“महामाया आधारशक्तिरूपा देहिनां देहधारिणीसा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिणीअमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्यातिथिसंज्ञिकैव इतरा अपि पञ्चदश कला दिवसव्यवहा रोपयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति तिथयःषोडशैव एवञ्चात्र सामान्यविशेषरूपेण तिथिद्वैवि ध्यमुक्तंभवति। तत्र येयम् अमेत्युक्ता क्षयोदयवर्ज्जिता ध्रुवाषोडशी कला तद्युक्तः कालस्तिथिसामान्यम्। यास्त्वव-शिष्टा वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिः विशिष्ट-कालविभागस्तिथिविशेष” इति। अधिकं तिथिशब्दे वक्ष्यते[Page0321-a+ 38] सूर्य्यकिरणासंपर्काददीप्तायां,

४ पञ्चदश्यां कलायाम् नमीयते दृश्यते विघुरत्र।

५ अमावस्यायां तिथौ च स्त्री।
“अमार्कपाते श्रवणं यदि स्यात्”
“यद्यमा रविवारेण” इति च प्रा॰ त॰ पुरा॰।
“अमायां तु सदा सोम--ओषधीःप्रतिपद्यते” इति सोमो॰। न मीयतेऽसौ मा--कर्मणिक्विप्।

६ आत्मनि पु॰।

७ मानशून्ये त्रि॰।

८ गृहेअव्य॰ निरु॰।
“कामश्चरताममा भूते” ऋ॰

२ ,

३८ ,

६ ।
“अमा गृहमिति” भा॰। अम्यते गम्यते चन्द्रलोकात्अत्र अम--आधारे--घञ् वा ह्रस्वः।

९ इहलोके।
“अमा-तोमरुतोवि आन्तरिक्षादमायुत” ऋ॰

५ ,

५० ,

५८ ।
“अमातःअस्माल्लोकात्” भा॰। तत्र यावत्सम्पातमुषित्वा
“क्षोणेपुण्ये मर्त्यलोकं विशन्तीति” श्रुतौ चन्द्रलोकादेव इहलोकागमनात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा¦ ind.
1. With, together with.
2. Near. f. (-मा) Day of conjunction or new moon. E. अ neg. माङ् to measure, क्विप् affix, and टाप् fem. do.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा [amā], a. [न मा-क] Measureless. -ind. Ved.

At home, in the house; कामश्चरताममाभूत् Rv.2.38.6.

In this world, here below (इहलोके).

With, near, close to; अमैवासां तद्भवति Bṛi. Up.1.5.2.

Together with, in conjunction or company with, as in अमात्य, अमावास्या q. v.; अमाकृ to draw near, have near oneself. अमा सह समीपे च Nm. -f.

The day of the new moon, the day of the conjunction of the sun and moon; अमायां तु सदा सोम ओषधीः प्रतिपद्यते Vyāsa.

The sixteenth digit of the moon.

The fifteenth digit also.m. The soul. -Comp. -अक्त a. Ved. met, come together. -अन्तः The end of the day of new moon.-इष्ट a. Sacrificed at home. -जुर् f. Living at home during life, growing old at home; अमाजुरश्चिद्भवयो युवं भगो Rv.1.39.3; being without husband in the same dwelling with her parents, as a maiden (पितृषद्); अमाजूरिव पित्रोः सचा सती Rv.2.17.7. -पर्वन् n. The sacred time of अमा, day of new moon. -हठः Name of a snake-demon; Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमा See. ss.vv.

अमा ind. (Ved. instr. fr. 2. अमSee. )(chiefly Ved. ) at home , in the house , in the house of( gen. ) , with RV. etc.

अमा ind. together Pa1n2. 3-1 , 122

अमा ( आ) f. = अमा-वास्याSee. Comm. on Ragh. xiv , 80 (in a verse quoted from व्यास) Comm. on Su1ryas

अमा/ अ-मा (3. मा) f. (= अ-प्रमाण)not an authority , not a standard of action Nya1yam.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ray of the sun. Vi. II. १२. 8.

"https://sa.wiktionary.org/w/index.php?title=अमा&oldid=488034" इत्यस्माद् प्रतिप्राप्तम्