अमात्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्यः, पुं, (अमा सह विद्यते, अमा + त्यप् ।) मन्त्री । इत्यमरः ॥ तत्परीक्षा । यथा, -- “शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद्भूमिभुजामिह” ॥ इति युक्तिकल्पतरुः ॥ (“भृता हि पाण्डुनामात्या बलञ्च सततं भृतं । मान्यानन्यानमात्यांश्च ब्राह्मणाश्च तपोधनान्” ॥ इति महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्य पुं।

मन्त्री

समानार्थक:मन्त्रिन्,धीसचिव,अमात्य,अमात्य,सचिव

2।8।4।2।3

राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्. मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः॥

स्वामी : राजा

सेवक : सहायकारिः,प्रधानोद्योगस्थाः

 : सहायकारिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अमात्य पुं।

मन्त्री

समानार्थक:मन्त्रिन्,धीसचिव,अमात्य,अमात्य,सचिव

2।8।17।2।2

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

स्वामी : राजा

सेवक : सहायकारिः,प्रधानोद्योगस्थाः

 : सहायकारिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्य¦ पु॰ अमा सह वसति त्यक्। मन्त्रिणि। तस्य दण्ड-नीतौ राजसहचरत्वात्तथात्वम्।
“पुरोहितामात्यमुखाश्चयोधाः” भट्टिः।
“अमात्यपुत्रैः सवयोभिरन्वितः” रघुः।
“अमात्ये दण्ड आयत्त” इति मनुः
“अमात्यव्यञ्जना राज्ञांदूष्यास्ते शत्रुसंहिताः” माघः। अमात्यलक्षणमुक्तंहेमा॰ विष्णुध॰ पु॰।
“सर्व्वलक्षणलक्षण्यो मन्त्रीराज्ञस्तथा भवेत्। ब्राह्मणो वेदतत्त्वज्ञोविनोतः प्रिय-दर्शनः। छललक्ष्ये महात्मा च स्वामिभक्तः प्रियवदः। वृहस्पत्युशनःप्रोक्तां नीतिं जानाति सर्व्वतः। राग-द्वेषेण यः कार्यं न च हन्ति महीक्षितः। लोकाप-वादाद्राजार्थे भयं यस्य न विद्यते। क्लेशक्षमस्तु धर्म्मात्माविजितात्मा जितेन्द्रियः। गूढमन्त्रश्चाऽश्वदक्षः प्राज्ञोभक्तजनप्रियः। इङ्गिताकारतत्त्वज्ञ ऊहापोहविशा-रदः। शूरश्व ज्ञातविद्यश्चन मानी न च मत्सरी। चारप्रचारकुशलः प्रणिघिप्राण आत्मवान्। षाड्गुण्य-विधितत्त्वज्ञ उपायकुशलस्तया। वेत्ता विधाता कार्य्याणांनैव कार्य्यातिपातनः। समयज्ञश्च कालज्ञो भृत्यानाञ्च गुण-प्रियः। कृतानामकृतानां च कर्मणामन्ववेक्षिता। यथापुरुषमर्हाणां पुरुषाणां नियोजकः! कर्त्ता परोक्षे कार्य्याणिसांपराये भृगूत्तम। तत्त्वातत्त्ववेदिता च कर्मणो गुरुलाघ-वम्। शत्रुमित्रविभागज्ञो विग्नहे चैव तत्त्ववित् स राज्ञःसर्व्वकार्य्याणि कुर्याद्भृगुकुलोद्वह! विदितानि तथा कुर्यान्नज्ञातानि महीक्षिता अज्ञातानि नरेन्द्रस्य कृत्वा कार्य्याणिभार्गव! अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति। कुरुते[Page0321-b+ 38] यस्तु कार्य्याणि विदितानि महीपतेः भेदो न तस्य भवतिकदाचिदपि भूभुजा एवंगुणो यस्य भवेत्तु मन्त्री वाक्ये चतस्याभिरतस्य राज्ञः। राज्यं स्थिरं स्याद्विपुला चलक्ष्मीर्यशश्च दीप्तं भुवनत्रयेऽपि” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्य¦ m. (-त्यः) A minister, a counsellor. E. अमा near, त्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्यः [amātyḥ], [अमा सह वसति, अमा-त्यप्, अव्ययात्त्यप् P. IV. 2.14. Vārt. अमेहक्वतसित्रेभ्य एव]

One living with or near another, an inmate of the same house or family (Ved.).

A companion or follower of a king, minister; तस्यामात्या गुणैरासन्निक्ष्वाकोः सुमहात्मनः Rām.1.7.1; अमात्याः सर्व एवैते कार्याः स्युर्न तु मन्त्रिणः Kau. A.1.8.-अमात्यिका f. M. Bh. on P.VII.3.1. -Comp. -उत्पत्तिः f. Creation of ministers Kau. A.1.8. अमात्य- पुत्रैः सवयोभिरन्वितः R.3.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्य m. (4)(fr. 1. अमाSee. Pa1n2. 4-2 , 104 Sch. )inmate of the same house , belonging to the same house or family RV. vii , 15 , 3 VS. A1s3vGr2. Ka1tyS3r.

अमात्य m. " a companion (of a king) " , minister MBh. Mn. etc.

अमात्य See. 1. अमा

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमात्य पु.
(अमा + त्य) 1. (यजमान का) एक सहवासी = साथ-साथ रहने वाला, मा.श्रौ.सू. 1.7.4.1; पुत्र एवं पौत्र, आप.श्रौ.सू. 8.5.41 (कुछ के मतानुसार सम्बन्धी); 2. एक आहुति का नाम। ये आहुतियाँ अग्न्याधेय में जया, अभ्यातान एवं राष्ट्रभृत आहुतियों के बाद दी जाती हैं। वैखा.श्रौ.सू. (1.1-6) के मतानुसार ये आहुतियाँ कुष्माण्ड आहुतियों द्वारा अनुसर्तव्य हैं (अर्थात इनके बाद कुष्माण्ड आहुतियों को अर्पित किया जाता है। अमात्य आहुतियों के मन्त्रों को कुष्माण्ड, काजव एवं अतिमोक्ष भी कहते हैं, श्रौ.को (अं) I.i. 14, 23, 3०; इसे गोपितृ यज्ञ के अन्त में भी अर्पित करते हैं, बौ.श्रौ.सू. 2.8-11।

"https://sa.wiktionary.org/w/index.php?title=अमात्य&oldid=488038" इत्यस्माद् प्रतिप्राप्तम्