अमावस्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमावस्या, स्त्री, (अमा साहित्येन वसतश्चन्द्रार्कौ यस्यां, अमा + वस + आधारे ण्यत् स्त्रियां टाप् ।) कृष्णपक्षान्ततिथिः । सा तु चन्द्रमण्डलस्य पञ्च- दशकलाक्रियारूपा तत्क्रियोपलक्षितः कालो वा । इति तिथ्यादितत्त्वं ॥ सूर्य्याचन्द्रमसोर्यः परः सन्निकर्षः सामावस्या । इति गोभिलः ॥ परः सन्निकर्षश्च उपर्य्यधोभावापन्नसमसूत्रपातन्यायेन एकराश्यवच्छेदेन सहावस्थानरूपः । इति रघु- नन्दनः ॥ तत्पर्य्यायः । अमावास्या २ । दर्शः ३ । सूर्य्येन्दुसङ्गमः ४ । इत्यमरः ॥ पञ्चदशी ५ । इति स्मृतिः ॥ अमावसी ६ । अमावासी ७ । इति शब्दरत्नावली ॥ अमामसी ८ । अमामासी ९ । इत्यमरटीकायां रमानाथः ॥ सा दृष्टेन्दुकला सिनीवाली १० । नष्टेन्दुकला च कुहूः ११ । इत्य- मरः ॥ तद्व्यवस्थादि यथा । अथामावस्या । सा च प्रतिपद्युता ग्राह्या युग्मात् । वराहपुराणे चाण्डालशपथे । “षष्ठ्यष्टम्यप्यमावास्या उभे पक्षे चतुर्द्दशी । अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः” ॥ अतोऽत्र स्नानमावश्यकं । अतोऽत्र जीवत्पितृके- णापि स्नातव्यम् । “अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनं । न जीवत्पितृकः कुर्य्यात् कृते च पितृहा भवेत्” ॥ इति वचनं रागप्राप्तस्नाननिषेधकं । “भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः । तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु” ॥ इति त्रयोदशीप्रकरणोक्तवचनाच्च ॥ * ॥ पैठिनसिः । “न पर्ब्बसु तैलं क्षौरं मांसमभ्युपे- यात् नामावास्यायां हरितमपि छिन्द्यात्” । इति ॥ * ॥ “पुष्ये तु जन्मनक्षत्रे व्यतीपाते च वैधृतौ । अमायाञ्च नदीस्नानं पुनात्यासप्तमं कुलं” ॥ अत्र दहत्याजन्मदुष्कृतमिति ज्योतिषे पाठः ॥ * ॥ व्यासः । “अमावास्यां भवेद्वारो यदि भूमिसुतस्य च । गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी” ॥ “सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम्” ॥ सिनीवाली चतुर्द्दशीयुक्तामावास्या व्यस्तापि प्रशस्ता एवमन्यत्रापि वारविशिष्टविधौ न युग्मा- दरः निरवकाशत्वेन संशयायोगात् । एतच्च मौन- मरुणोदयकालमारभ्य स्नानपर्य्यन्तं । न तु स्नान- कालमात्रे । तत्र, “उच्चारें मेथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत्” ॥ इति स्कान्देन तस्य सामान्यतः प्राप्तत्वात् । उच्चारे पुरीषोत्सर्गे ॥ * ॥ स्मृतिः । “करतोयाजलं प्राप्य यदि सोमयुता कुहूः । अरुणोदयवेलायां सूर्य्यग्रहशतैः समा” ॥ ह्नमुहूर्त्तद्वयपर्य्युदस्तेतरकालकुतपादिमुहूर्त्तपञ्चक- रौहिणादिमुहूर्त्तचतुष्टयवासरतृतीयांशीयापरा- ह्णमुहूर्त्तद्वयकालाः । यथाक्रममापत्सामान्यप्रशस्त- प्रशस्ततर-प्रशस्ततमत्वेन ज्ञेयाः । एवमखण्डति- थावपि नातिसन्ध्यासमीपत इति पूर्ब्बोक्तत्वात् । “सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्” । इति मत्स्यपुराणात् । “रात्रौश्राद्धं न कुर्ब्बीत राक्षसीकीर्त्तिता हि सा । सन्ध्ययोरुभयोश्चैव सूर्य्ये चैवाचिरोदिते” ॥ इति मनुवचनाभ्यां । “ऊर्द्ध्वं मुहूर्त्तात् कुतपात् यन्मूहूर्त्तचतुष्टयं । मुहूर्त्तपञ्चकं वापि स्वधाभवनमिष्यते” ॥ इति मत्स्यपुराणान्मुहूर्त्तपञ्चकमित्यत्र कुतपादिति ल्यब्लोपे पञ्चमी कुतपमारभ्येत्यर्थः । ततस्तेनैव । “अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये । यदत्र दीयते जन्तोस्तदक्षयमुदाहृतं” ॥ इत्युक्तं । “पूर्ब्बाह्णो वै देवानां मध्यं दिनं मनुष्याणां अपराह्णः पितॄणां” । इति श्रुतिः । वासरस्य तृतीयांश इति कात्यायनवचनं । “सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्” इत्येषामेकवाक्यत्वात् वासरतृतीयांशीयापराह्ण- मुहूर्त्तद्वयस्य लाभः । इति तिथ्यादितत्त्वं ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमावस्या स्त्री।
अमावासी
समानार्थक:अमावास्या,अमावस्या,दर्श,सूर्येन्दुसङ्गम
1।4।8।2।2
कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥
: चतुर्दशीयोगाद्दृष्टचन्द्रा_अमावासी, अदृष्टचन्द्रामावासी
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमाव (वा)स्या¦ अमा सह वसतश्चर्न्द्रार्कौ यस्याम् नि॰। कृष्ण-पक्षीयपञ्चदशीतिथौ। तथा हि अधः प्रदेशवर्त्तीशीघ्रगामी चन्द्रः, ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यः। तयोर्गतिविशेषात् यत्काले चन्द्रमण्डलमन्यूनमनति-रिक्तं सत् सूर्य्यमण्डलस्याधोभागे व्यवस्थितम् भवतितदा सूर्य्यरश्मिभिः साकल्येनाभिभूतत्वात् चन्द्रमण्डलमी-षदपि न दृश्यते इति कृष्णपक्षे पञ्चदशकलाक्रियाकूटो-पलक्षितःकालः अमावस्येति निष्कर्षः।
“सूर्य्याचन्द्रमसोःयः परो विप्रकर्षः सा पौर्णमासी र्यः परःसन्निकर्षःसाऽमावस्येति” गोभि॰
“अमावस्या गुरुं हन्ति शिष्यंहन्ति चतुर्दशी” मनुः। अमावास्यायांभवः वा क्वुन् अमा-वास्यकः अण् आमावस्यः। तत्रभवे त्रि॰।
“य आगारेमृगयन्ते प्रतिक्रोशेऽमावास्ये” अथ॰
३६ ,
३
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमावस्या [amāvasyā] वास्या [vāsyā] वसी [vasī] वासी [vāsī], वास्या वसी वासी (also written अमा- मसी-मासी) [अमावस् -ण्यत्, अमा सह वसतः चन्द्रार्कौ अस्यां सा. अमावस्यर्दन्यतरस्याम् P.III.1.122 Sk.]
The day of new moon, when the sun and moon dwell together or are in conjunction; the 15th day of the dark half of every lunar month; सूर्याजन्द्रमसोः यः परः सन्निकर्षः सा$मावस्या Gobhila; अमावास्यायां दीक्षित्वा Ch. Up.5.2.4.
A sacrifice offered at that time.
The sacrificial oblation.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अमावस्या/ अमा--वस्या f. = -वास्याSee. Ka1t2h. Pa1n2. 3-1 , 122.