अमृत

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृतम्, क्ली, (मृ + भावे क्तः, नास्ति मृतं मरणं यस्मात् तत्, तत्पायिनां मरणाभावात् तस्य तथात्वं ।) समुद्रोद्भवदेवभक्ष्यामरत्वजनकद्रव्यवि- शेषः । यदा पृथुराजभयेन पृथ्वी गौर्भूता तदा देवा इन्द्रं वत्सं कृत्वा हिरण्मयपात्रे अमृतरूप- म्पयोऽदूदुहन् तत्तु दुर्व्वाससः शापात् समुद्रमध्यं गतं पश्चात् समुद्रमथने अमृतपूर्णकलसं मृहीत्वा धन्वन्तरिरुत्थितः । इति भारतभागवते ॥ तत्- पर्य्यायः ॥ पीयूषं २ सुधा ३ । इत्यमरः ॥ पेयूषं ४ । इति तट्टीकासारसुन्दरी ॥ * ॥ निर्जरं ५ । समुद्रनवनीतकं ६ । इति शब्दरत्ना- वली ॥ जलं । धृतं ॥ यज्ञशेषद्रव्यं ॥ अयाचित- वस्तु ॥ मुक्तिः । इति मेदिनी ॥ दुग्धं । औषधं । विषसामान्यं । वत्सनाभः । पारदः । इति राज- निर्घण्टः ॥ अन्नं । धनं । स्वर्णं । भक्षणीयद्रव्यं । हृद्यं । स्वादुद्रव्यं । इति हेमचन्द्रः ॥

अमृतः, पुं, (मृ + कर्त्तरि क्तः, नञ्समासः ।) धन्व- न्तरिः । देवता । इति मेदिनी । वाराहीकन्दः । वनमुद्गः । इति राजनिर्घण्टः ॥ सुन्दरः । अति- हृद्यः । इति भरतधृतव्याडिः ॥ (आत्मा, यथा महाभारते, -- “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तादमृतः परः । अमृतान्न परं किञ्चित् सा काष्ठा सा परा गतिः” ॥ सूर्य्यः ॥ सुरपतिरिन्द्रः ॥ विष्णोः सहस्रनाममध्ये परिगणितो नामभेदः ॥) मरणरहिते त्रि । यथा । “अमृते जारजः कुण्डः” । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृत नपुं।

अमृतम्

समानार्थक:पीयूष,अमृत,सुधा

1।1।48।2।4

व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा॥

सम्बन्धि1 : देवः

पदार्थ-विभागः : खाद्यम्,पानीयम्,अलौकिकपानीयम्

अमृत नपुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।6।2।6

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

अमृत नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।2।3

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

अमृत नपुं।

यज्ञशेषः

समानार्थक:अमृत

2।7।28।2।1

त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्. अमृतं विघसो यज्ञशेषभोजनशेषयोः॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

अमृत नपुं।

अयाचितः

समानार्थक:अमृत

2।9।3।1।2

द्वे याचितायाचितयोर्यथासंख्यं मृतामृते। सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृत¦ त्रि॰ न मृतः।

१ मरणशून्ये जीविते
“अमृते जारजःकुण्डः” अमरः
“अपाम सोमममृता अभूम” इति श्रुतिःमरणञ्चात्र
“आभूतसंप्लवस्थानममृतत्वं हि भाष्यते इति” विष्णु पु॰ उक्तम् महाकल्पावस्थायित्वं, देवानामपि तथैवा-मृतत्वम्
“कार्य्यात्यये तदध्यक्षेण सहातः परमाम्नायात्” शा॰ सू॰ कार्य्यब्रह्मणा सह सर्व्वेषां लयाभिधानात्। नमृतं मरणं यस्मात्।

२ पीयूषे तत्सेवने हि अमृतत्वंभारतादौ प्रसिद्धम्। तच्च प्रथमं पृथूपदिष्टैर्दैर्वरिन्द्रं वत्संकृत्वा गोरूपधरायाः पृथ्वा दुग्धम् पश्चाच्च दुर्वासः-शापात् समुद्रमध्यं गतम् ततो देवासुरैः समुद्रे मथितेपुनरुत्पन्नमिति पौराणिकी कथानुसन्धेया
“देवासुरैरमृत-मस्वुनिधिर्ममन्ते” किरा॰ न वै देवा अश्नन्ति पिबन्तिएतदेवामृतं दृष्ट्वा तृप्यन्ति” चा॰ उ॰।
“अमृतदीधितिरेषविदर्भजे। भजसि तापमनुष्यकिमंशुभिः। यदि भवन्तिमृताः सखि! चन्द्रिकाः इति” नैषधम्।

३ जले तस्यप्राणहेतुत्वात् अमृतत्वम्।
“अन्नमयं हि सौम्य! मनआपोमयः प्राणः” इत्युपक्रम्य षोडशकलः सौम्य!पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयःप्राणो न पिबतो विच्छेत्स्यते” छा॰ उ॰। जलपानाभावेप्राणविच्छेदौक्तेः तत्पाने च प्राणवृद्धेः जलस्य मरणाहेतु-त्वम्।
“अमृतोपस्तरणमसि स्वाहा”
“अमृतापिधानमसिस्वाहेति” आपोशनमन्त्रः।

४ घृते तस्य,
“आयुर्वै घृत” मित्युक्तेरायुर्जनकत्वात् मरणाहेतुत्वात्तथात्वम्।
“अमृतंनाम यत् सन्तोमन्त्रजिह्वेषु जुह्वति। शोभैव मन्दरक्षु-व्धक्षुभिताम्भोधिवर्णना” माघः।

५ पारदे तस्य च रसा-यनादिना पाने
“अभ्रकस्तव वीजन्तु मम वोजन्तु पारदःअनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्” इत्युक्तेः बहु-कालजीवनहेतुत्वात् तथात्वम् रसेश्वरनर्शने विवरणम्।

६ यज्ञशिष्टे द्रव्ये
“यज्ञशेषोऽमृतं स्मृत” मित्युक्तेस्तथात्वम्।

७ अयाचिते वस्तुनि
“मृतं स्वाद्याचितं भैक्ष्यममृतं स्याद्-दयाचितम्” मनूक्तेस्तस्य मरणरूपापमानहेतुयाचनशून्य-त्वात् तथात्वम्।
“ऋतामृताभ्यां जीवेत” मनुः।

८ दुग्धेतस्य देहधारकत्वेन मरणाहेतुत्वात् तथात्वम्।

९ अन्ने
“अन्न-मूलं हि जीवन” मित्युक्तेस्तथात्वम्। न म्रियते क्षीयते।

१० स्वर्णे। [Page0324-a+ 38]
“अग्नौ सुवर्णमक्षीणमिति” या॰ उक्तेस्तस्य वह्नौबहुतापनेऽपि अक्षीणत्वात्तथात्वम् अतएव तस्य तैजसत्वं
“स्वर्णं तैजसमत्यन्तानलसन्तापेऽपि अनाश्यत्वादित्यनुमानेन” सि॰ मु॰ साधितम्। एवदभिप्रायेणैव
“अमृतं वै हिरण्य-मित्युक्तमा शत॰ ब्रा॰।

११ भक्षणीयद्रव्यमात्रे, तस्यान्नवत्तथा-त्वम्

१२ स्वादुद्रव्ये अमृततुल्यस्वादवत्त्वात्।

१३ तत्साधनेद्रव्येत्रि॰
“आदित्योवै देवमधु” इत्यादि मधुविद्यायाम्
“ता एवा-स्यामृतामधुनाड्यः” छा॰ उ॰ पञ्चकृत्वः पाठः।

१४ हृद्ये अमृत-वदाह्लादकत्वात् तथात्वम्

१५ विषे

१६ वत्सनाभे विषेतयोः वैद्यकोक्तदिशा शोधने अमरणहेतुत्वात्तथा। अतएव
“विषमष्यमृतं क्वचिद्भवेदिति” रघुः

१७ मोक्षे
“बिद्यया-मृतमश्नुते” इति श्रुतिः क्षयशून्यत्वात्तथा
“अमृत-स्यैष सेतुरिति” श्रुतिः
“स श्रिये चामृताय च” अमरः।

१८ अमृततुल्ये आनन्दकरत्वात्तथा।
“अमृतंवालभाषितमिति” हितो॰।
“आप्यायितोऽसौ वच-नामृतेन उद्भटः”। अमृतमस्त्यस्य स्वामित्वेन भक्षक-त्वेन वा अर्श॰ अच्।

१९ धन्वन्तरौ सहि समुद्रमथानसमये अमृतं बिभ्रदुत्थितः इति पुराणे प्रसिद्धम्।

२० देवे तद्भक्षत्वेन तथात्वम्। देवानाञ्चामृतदर्शनेनैव तृप्त-त्वम्
“न वै देवा अश्नन्ति पिबन्ति एतर्देवामृतं दृष्ट्वा तृप्य-न्तोति” छा॰ उ॰ उक्तेः
“रथेनामृतं मर्त्त्यञ्च” य॰

३३ ,

४० अमृतं देवादिकमिति” वे॰ दी॰। न स्रियते स्म कर्त्तरि क्त।

२१ वाराहीकन्दे{??}ं तस्य बहुच्छेदनेऽपि पुनःप्ररूढत्वात्तथा

२२ वनमुद्गे च तस्य ओषधितया फलपाकान्तत्वेऽपि छिन्न-प्ररूढत्वात्तथात्वम्।

२३ शुडूच्याम्।

२४ इन्द्रवारुण्यां

२५ ज्योतिष्मन्याम्

२६ गोरक्षदुग्धायाम्

२७ अतिविषायां

२८ रक्तत्रिवृति

२९ दूर्व्वायाम्

३० आमलक्यां

३१ हरी-तक्यां

३२ तुलस्यां

३३ पिप्पल्यां

३४ स्थूलमांस-हरीतक्याञ्च स्त्री। एतासां यथायथं रोगनिवारकत्वेनतथात्वम्। अमृतेन सहोत्पन्नत्वात् अमृततुल्यास्वादव-त्त्वाच्च

३५ सुरायां स्त्री।

३६ सूर्य्यरश्मिभेदे स्त्री
“तासांशतामि चत्वारि रश्मीनां वृष्टिसर्ज्जने। शतत्रयंहिमोत्सर्गे तावद्गर्भस्य सर्ज्जने। आनन्दाश्च हि मेघाश्चभूतनाः पृतना इति। चतुःशतं वृष्टिवाहाः सर्व्वास्ताअमृता स्त्रियः” मल्लि॰ यादवः। तासाञ्चामृतस्य जलस्यदायित्वात्तथा।
“सौरीभिरिव नाडीभिरमृताख्याभिर-म्मयः” रघुः।

३७ मरणशूग्ये विष्णौ पु॰
“अमृतः शाश्वतःस्थाणुः” वि॰ स॰। नास्ति मृतं मरणं यस्मात्। [Page0324-b+ 38]

३८ अजरमरत्वप्रदे त्रि॰।
“इन्द्रियस्येन्द्रियमिदं पयोऽ-मृतं मधु” यजु॰

१९ ,

७२ ,

७३ ,

७४ ,

७५ ।
“अमृतमजरामृत्युप्रदत्वात् आनन्दकरम् अमृततुल्यम् वे॰ दी॰
“नन्दाभौमार्कयोर्भद्रा शुक्रेन्द्वोश्च जया बुधे। शुभयोगा गुरौरिक्ता पूर्ण्णा मन्देऽमृताह्वया।
“आदित्यभौमयोर्नन्दाभद्रा शुक्रशशाङ्कयोः जया ज्ञोस्याद् गुरौ रिक्ता पूर्णार्केचामृता शुभेति” इति ज्योतिषोक्ते

३९ तिथिवार-योगरूपे योगभेदे
“ध्रुवगुरुकरमूला पौष्णभान्यर्कशारेहरियुगविधियुग्मे फल्गुनीभाद्रयुग्मे। दिवसकरतुरङ्गौशर्वरीनाथवारे। गुरुयुमनलवातोपान्त्यपौष्णानि कौजे। दहनविधिशताख्यामैत्रभं सौम्यवारे। मरुददितिभपुष्यामैत्रभं जीववारे। भगयुगजयुगश्वोविष्णुमैत्रे सिताहे। श्वसनकमलयोनी सौरिवारेऽमृतानि” राज मा॰ उक्तेआदित्यहस्ता गुरुपुष्ययुक्ता बुधानुराधा शनिरोहिणी च। सोमे च विष्णुः कुजरेवती च शुक्राश्विनी चामृतयोगवर्गाः। उक्ते च

४० वारनक्षत्रयोगजे योगभेदे
“यदि विष्टिव्यती-पातौ दिनंवाप्यशुभं भवेत्। हन्यतेऽमृतयोगेन भास्क-रेण तमो यथा” ज्योति॰।

४१ ब्रह्मणि न॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृत¦ n. (-तं)
1. The food of the gods, Ambrosia or Nectar.
2. Water.
3. Butter, rice, &c. the residue of a sacrifice.
4. Oiled butter or ghee.
5. Unsolicited alms.
6. Boiled rice.
7. Food.
8. Wealth, property.
9. Gold.
10. Buttermilk.
11. Any thing sweet, a sweet- meat.
12. Milk.
13. Poison.
14. A drug or medicament.
15. Quick- silver.
16. Final emancipation. m. (-तः)
1. A god, an immortal.
2. DHANWANTARI, the physician of the gods. f. (-ता)
1. Emblic myrobalan, (phyllanthus emblica.)
2. The yellow sort., (Terminalia citrina.)
3. Another plant, (Menispermum glabrum.)
4. Long pepper.
5. Holy basil, (Ocymum sanctum.)
6. Spirituous liquor. It also occurs amongst the synonimes of several plants besides those enumerated. mfn. (-तः-ता-तं)
1. Beloved, desired.
2. Beautiful.
3. Immortal, imperishable. E. अ neg. मृङ् to die, and क्त affix; what is immortal or what makes so; what supports life, &c.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृत [amṛta], a.

Not dead; अमृते जारजः कुण्डः Ak.

Immortal; अपाम सोममृता अभूम Rv.8.48.3; U.1.1. ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च Bg.14.27.

Imperishable, Indestructible, eternal.

Causing immortality.

Beautiful, agreeable, desired. पाञ्चजन्याभिषिक्तश्च राजा$- मृतमुखो$भवत् Mb.12.4.17.

तः A god, an immortal, deity. आरुरोह यथा देवः सोमो$मृतमयं रथम् Mb.12.37.44.

N. of Dhanvantari, physician of the gods; also N. of Indra, of the sun, of Prajāpati, of the soul, Viṣṇu and Śiva.

N. of a plant (वनमुद्ग, Mar. मटकी)

N. of the root of a plant (वाराहीकन्द, Mar. डुकरकंद).

ता Spirituous liquor.

N. of various plants; e. g. आमलकी, हरीतकी, गुडूची, मागधी, तुलसी, इन्द्रवारुणी, ज्योतिष्मती, गोरक्षदुग्धा, अतिविषा, रक्तत्रिवृत्, दूर्वा, स्थूलमांसहरीतकी.

N. of one of the Nāḍīs in the body; नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणात् Māl.5.2.

One of the rays of the sun; सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः R.1.58.

तम् (a) Immortality, imperishable state; न मृत्युरासीदमृतं न तर्हि Rv.1.129.2; Ms.22.85. (b) Final beatitude, absolution; तपसा किल्विषं हन्ति विद्ययामृतमश्रुते Ms.12.14; स श्रिये चामृताय चAk.

The collective body of immortals.

(a) The world of immortality, Paradise, Heaven; the power of eternity, immortal light, eternity.

Nectar of immortality, ambrosia, beverage of the gods (opp. विष) supposed to be churned out of the ocean; देवासुरैरमृतमम्बुनिधिर्ममन्थे Ki.5.3; विषादप्यमृतं ग्राह्यम् Ms.2.239; विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया R.8.46; oft. used in combination with words like वाच्, वचनम्, वाणी &c.; कुमारजन्मामृतसंमिताक्षरम् R.3.16; आप्यायितो$सौ वचनामृतेन Mb.; अमृतं शिशिरे वह्निरमृतं क्षीरभोजनम् Pt.1.128 the height of pleasure or gratification.

The Soma juice.

Antidote against poison.

The residue or leavings of a sacrifice (यज्ञशेष); विघसाशी भवेन्नित्यं नित्यं वा$मृतभोजनः Ms.3.285.

Unsolicited alms, alms got without solicitation; मृतं स्याद्याचितं भैक्षम- मृतं स्यादयाचितम् Ms.4.4-5.

Water; मथितामृतफेनाभमरजो- वस्त्रमुत्तमम् Rām.5.18.24. अमृताध्मातजीमूत U.6.21; अमृता- दुन्मथ्यमानात् K.136; cf. also the formulas अमृतोपस्तरणमसि स्वाहा and अमृतापिधानमसि स्वाहा; Mahānār. Up.7 and 1; repeated by Brāhmaṇas at the time of sipping water before the commencement and at the end of meals.

A drug.

Clarified butter; अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति Śi.2.17.

Milk; अमृतं च सुधा चैव सुधा चैवामृतं तथा Mb.13.67.12.

Food in general.

Boiled rice.

Anything sweet, anything lovely or charming; a sweetmeat. यथामृतघटं दंशा मकरा इव चार्णवम् Rām.7.7.3.

Property.

Gold.

Quicksilver.

Poison.

The poison called वत्सनाभ.

The Supreme Spirit (ब्रह्मन्).

N. of sacred place.

N. of particular conjunctions of Nakṣatras (lunar asterisms) with week days (वारनक्षत्रयोग) or of lunar days with week days (तिथि- वारयोग).

The number four.

splendour, light. [cf. Gr. ambrotos, ambrosia; L. immortalis]. cf. अमृतं वारि सुरयोर्निर्वाणे चातिसुन्दरे । अयाचिते यज्ञशेषे पुंसि धन्वन्तरे$पि च । पीयूषे च धृते दीप्तावाचार्ये विबुधे$पि च । हरीतक्यामाम- लक्यां गलूच्यामपि तत्स्त्रियाम् । Nm. -Comp. -अंशुः, -करः, -दीधितिः, -द्युतिः, -रश्मिः &c. epithets of the moon; अमृतदीधितिरेष विदर्भजे N.4.14; अमृतांशूद्भव born from the moon; from whom was born the moon, N. of Viṣṇu.-अंशुकः An interior variety of gems having white rays, Kau. A.2.11. -अक्षर a. immortal and imperishable; क्षरं प्रधानममृताक्षरं हरः Śvet. Up. -अग्रभूः N. of the horse of Indra (उच्चैःश्रवस्); अमृताग्रभुवः पुरेव पुच्छम् Śi. 2.43. -अन्धस्, -अशनः, -आशिन् m. 'one whose food is nectar'; a god, an immortal. -अपिधानम् Water sipped after eating nectar-like food so as to overlay it like a cover. -असु a. whose soul is immortal; अमृतासुर्वर्धमानः सुजन्मा Av.5.1.1.

आशः N. of Viṣṇu.

a god; इदं कार्यममृताशाः शृणोमि Mb.12.299.7.-आसङ्गः a sort of collyrium. -आहरणः N. of Garuḍa who once stole Amṛita. -इष्टका a kind of sacrificial brick shaped like the golden head of men, beasts &c. (पशुशीर्षाणि). -ईशः, ईश्वरः N. of Śiva. -उत्पन्ना a fly.

(न्नम्), उद्भवम् A kind of collyrium (खर्परीतुत्थम्).

Potassium permanganate -उपस्तरणम् Water sipped as a substratum for the nectar-like food. (-वः) N. of the Bilva tree. -ओदनः Name of a son of Siṁhahanu, and uncle of Śākyamuni. -करः, -किरणः 'nectar-rayed', the moon. -कुण्डम् a vessel containing nectar. -क्षारम् sal ammoniac. (Mar. नवसागर). -गतिः N. of a metre consisting of 4 syllables. -गर्भ a. filled with water or nectar; ambrosial.

(र्भः) the individual soul.

the Supreme Soul.

child of immortality (said of sleep); देवानाममृतगर्भो$सि स्वप्न Av.6.46.1.-चितिः f. an arrangement or accumulation of sacrificial bricks conferring immortality. -ज a. produced by or from nectar. (-जः) a sort of plant, Yellow Myrobalan (Mar. हिरडा). -जटा N. of a plant (जटामासी). -तरङ्गिणी moonlight. -तिलका N. of a metre of 4 lines, also called त्वरितगति. -द्रव a. shedding nectar. (-वः) flow of nectar. -धार a. shedding nectar. (-रा)

N. of a metre.

flow of nectar. -नन्दनः A pavilion with 58 pillars (Matsya P.27.8.). -नादोपनिषद् f. 'The sound of immortality', Name of an Upaniṣad.

पः a drinker of nectar' a god or deity.

N. of Viṣṇu.

one who drinks wine; ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवा- जिहीते Śi.7.42. (where अ˚ has sense

also).

पक्षः having golden or immortal wings, a sort of hawk.

the immortal or golden wings of sacrificial fire.

fire itself. -फलः N. of two trees पटोल and पारावत.

(ला) a bunch of grapes, vine plant, a grape (द्राक्षा)

= आमलकी. (-लम्) a sort of fruit (रुचिफल) found in the country of the Mudgalas according to Bhāva P.-बन्धुः Ved.

a god or deity in general.

a horse or the moon.

A friend or keeper of immortality; तां देवा अन्वजायन्त भद्रा अमृतबन्धवः Rv.1.72.5. -बिन्दू- पनिषद् f. 'drop of nectar',:N. of an Upaniṣad of the Atharvaveda. -भल्लातकी a sort of medicinal preparation of ghee mentioned by Chakradatta. -भवनम् N. of a monastery (built by Amṛitaprabha); Raj. T.-भुज् m. an immortal, a god, deity; one who tastes the sacrificial residues. -भू a. free from birth and death.-मति = ˚गति q. v.

मन्थनम् churning (of the ocean) for nectar.

N. of the chapters 17 to 19 of Mb.1.-मालिनी N. of Durgā. -मूर्तिः The moon; आप्याययत्यसौ लोकं वदनामृतमूर्तिना Bhāg.4.16.9. -योगः see under अमृत.

रसः nectar, ambrosia; काव्यामृतरसास्वादः H.1; विविधकाव्यामृतरसान् पिवामः Bh.3.4.

the Supreme Spirit.

(सा) dark-coloured grapes.

a sort of cake (Mar. अनर्सा). -लता, -लतिका a nectar-giving creeping plant (गुडूची). -वाक a. producing nectar like sweet words. -संयावम् a sort of dish mentioned in Bhāva P. -सार a. ambrosial; ˚राणि प्रज्ञानानि U.7.

(रः) clarified butter.

a sort of अयःपाक. ˚जः raw sugar, molasses (गुड).

सूः, सूतिः the moon (distilling nectar).

mother of the gods.

सोदरः 'brother of nectar', the horse called उच्चैःश्रवस्.

a horse in general. -स्रवः flow of nectar. (-वा) N. of a plant and tree (रुदन्ती-रुद्रवन्ती; Mar. रानहरभरा). -स्त्रुत् a. shedding or distilling nectar; स्वरेण तस्याममृतस्रुतेव Ku.1.45.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृत/ अ-मृत mfn. (See. Pa1n2. 6-2 , 116 )not dead MBh.

अमृत/ अ-मृत mfn. immortal RV. etc.

अमृत/ अ-मृत mfn. imperishable RV. VS.

अमृत/ अ-मृत mfn. beautiful , beloved L.

अमृत/ अ-मृत m. an immortal , a god RV. etc.

अमृत/ अ-मृत m. N. of शिव

अमृत/ अ-मृत m. of विष्णुMBh. xiii

अमृत/ अ-मृत m. of धन्वन्तरिL.

अमृत/ अ-मृत m. the plant Phaseolus Trilobus Ait.

अमृत/ अ-मृत m. the root of a plant L.

अमृत/ अ-मृत n. collective body of immortals RV.

अमृत/ अ-मृत n. world of immortality , heaven , eternity RV. VS. AV. (also आनिn. pl. RV. i , 72 , 1 and iii , 38 , 4 )

अमृत/ अ-मृत n. immortality RV.

अमृत/ अ-मृत n. final emancipation L.

अमृत/ अ-मृत n. the nectar (conferring immortality , produced at the churning of the ocean) , ambrosia RV. (or the voice compared to it , N. Ragh. )

अमृत/ अ-मृत n. nectar-like food

अमृत/ अ-मृत n. antidote against poison Sus3r.

अमृत/ अ-मृत n. N. of a medicament S3is3. ix , 36 , medicament in general Buddh.

अमृत/ अ-मृत n. the residue of a sacrifice(See. अमृएत-भुज्)

अमृत/ अ-मृत n. unsolicited alms Mn. iv , 4 and 5 , water Naigh.

अमृत/ अ-मृत n. milk L. clarified butter L. (See. पञा-मृत) , boiled rice L.

अमृत/ अ-मृत n. anything sweet , a sweetmeat R. vii , 7 ,3

अमृत/ अ-मृत n. a pear L.

अमृत/ अ-मृत n. food L. , property L.

अमृत/ अ-मृत n. gold L.

अमृत/ अ-मृत n. quicksilver L.

अमृत/ अ-मृत n. poison L.

अमृत/ अ-मृत n. a particular poison L.

अमृत/ अ-मृत n. a ray of light Ragh. x , 59 N. of a metre RPra1t.

अमृत/ अ-मृत n. of a sacred place (in the north) Hariv. 14095 , of various conjunctions of planets (supposed to confer long life) L.

अमृत/ अ-मृत n. the number , " four " L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an अमिताभ god. Br. II. ३६. ५३; वा. ६२. ४६.
(II)--a son of भरताग्नि. वा. २९. 8.
(III)--one of the seven divisions of प्लक्षद्वीप. भा. V. २०. 3.
"https://sa.wiktionary.org/w/index.php?title=अमृत&oldid=488105" इत्यस्माद् पुनः प्राप्तिः