अम्बु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बु, क्ली, (अबिशब्दे उण् ।) बालानामौषधिः । इत्यमरः ॥ बाला इति भाषा । जलं (“भुक्त्वा मृ- णालपटली भवता निपीतान्यम्बुनि यत्र नलिनानि निषेवितानि” । इति भाभिनीविलासे । “अम्बुज- मम्बुनि जातं क्वचिदपि न जायतेऽम्बुजादम्बु” । इत्युद्भटः । “गाङ्गमम्बु सितमम्बु यामुनं” । इति काव्यप्रकाशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बु नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।2।7

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बु¦ न॰ अबि शब्दे--उण्।

१ लग्नावधिके चतुर्थस्थाने

२ (बाला)इति ख्यातायामोषधौ

३ जले
“गाङ्गमम्बु सितमम्बुयामुनं कज्जलाभमुभयत्र मज्जतः का॰ प्र॰।
“छातेतराम्बु-च्छटा” का॰ प्र॰
“विश्वासाय विहङ्गानामालबालाम्बु-पायिनाम्।
“तौ सरांसि रसवद्भिरम्बुमिः” इति च रघुः।
“फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादनम्” मनुः। तच्च जलम्रसतन्मात्रादुत्पन्नो भूतविशेष इति सांख्याः पञ्चीकृतेभ्यएव पञ्चभ्यो भूतेभ्यः स्थूलतया उत्पन्नमिति वेदान्तिनःजलभूतांशबाहुल्यात् जलत्वव्यवहारः
“वैशेष्यात्तद्वादः” शा॰ सूत्रात्। तस्य च रूपरसस्पर्शशब्दा विशेषगुणाः
“योयोयावतिथश्चैषां स स तावद्गुणः स्मृत” इति मनुनाभूतमध्ये चतुर्थस्य जलस्य चतुर्गुणत्वाभिधानात्
“शब्दस्पर्शौरूपरसौ सलिलस्य गुणा अमी” भा॰ शा॰ प॰ उक्तेश्च
“जले चुलचूलध्वनिः। शीतस्पर्शः शुक्लरूपं रसो माघुर्य्य-मीरितम्” पञ्चद॰।
“अग्नेराप” इति श्रुतेस्तस्याग्निप्रभव-[Page0329-b+ 38] त्वम् यथोक्तं
“तत्तेज ऐक्षत बहु स्यां प्रजायेयेतितदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते पुरुषस्तेजसएव तदध्यापो जायन्ते” छा॰ उ॰।
“तेज इति प्रसिद्धंलोके दग्धृपक्तृप्रकाशकं रोहितञ्चेति तत्सृष्टं तेज ऐक्षत। तेजोरूपत्वेन स्थितं सदैक्षतेत्यर्थः। बहु स्यां प्रजायेयेतिपूर्ब्बवत्तदपोऽसृजत। आपो द्रवाः स्निग्धाः स्यन्दित्यःशुक्लाश्चेति प्रसिद्धं लोके॥ यस्मात्तेजसः कार्य्यभृता आप-स्तस्माद्यत्र क्व च देशे काले वा शोचति सन्तप्यते स्वेदतेप्रस्विद्यते वा पुरुषस्तेजस एव तदापोऽघिजायन्ते। ताआप ऐक्षन्तेति पूर्व्ववदेव आकारसंस्थितं सदैक्षतेत्यर्थःभा॰।
“तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति
“सेयंदेवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपेव्याकरोत्” छा॰ उ॰॥
“सेयं तिस्रो देवता अनुप्रविश्य स्वा-त्मावस्थे वीजभूते अव्याकृते नामरूपे व्याकरवाणीतितासाञ्च तिसॄणां देवतानामामेकैकां त्रिवृतं करवाणि एकै-कस्याः त्रिवृत्करणे एकैकस्याः{??}धान्यं द्वयोर्द्वयोर्गुणभा-वोऽन्यथा हि रज्ज्वा इवैकमेव त्रिवृत्करणं स्यात् नतु तिसृणां पृथक् त्रिवृत्करणमिति। एवं हि तेजोऽबन्नानांपृथङ्गामप्रत्ययलाभः स्यात्तेज इदम्” इमा आपः, अऽन्नमिद-मिति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यावहारस्यप्रसिद्धिः प्रयोजनं स्यात्। एवमीक्षित्वा सेयं देवतेमा-स्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तःप्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां च पिण्डमनु-प्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदं-रूप इति तासाञ्च देवतानां गुणप्रथानभावेन त्रिवृतं त्रिवृ-तमेकैकामंकरोत्कृतवती देवता” भा॰।
“अद्भिः सोम्य! श्रुङ्गेनतेजो मूलमन्विच्छ” छा॰ उ॰
“अद्भिः शुङ्गेन तेजो मूलंकार्येण कारणम् अन्विच्छ
“तेजो वा अद्भ्यो भूयस्तद्वा एत-द्वायुमुपगृह्याकाशमभितपति तदाहुर्निशोचति नितपतिवर्षिष्यति वा इति तेज एव तत्पूर्ब्बं दर्शयित्वाऽथापःसृजते तदेतदूर्द्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिर्महाह्रादाश्च-रन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इतितेज एव तत्पूर्व्वं दर्शयित्वाऽथापः सृजते तेज उपास्वेति” छा॰ उ॰॥
“तेजो वाऽद्भ्यो भूयः, तेजसोऽप्कारण-त्वात्। कथमप्कारणत्वमित्याह। यस्मादब्योनिस्तेजस्तस्मा-त्तद्वा एतत्तेजोवायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्यवायुमाकाशमभिव्याप्नुवत्तपति यदा, तदाहुर्लौकिकाः अभि-शोचति सन्तपति सामान्येन जगन्ति तपति देहानती वर्षि-[Page0330-a+ 38] ष्यति वै इति। प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतःकार्यं भविष्यतीति विज्ञानम्॥ तेज एव तत्पूर्ब्बमात्मान-मुद्भूतं दर्शयित्वाऽथानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्वाद्भूयो-ऽद्भ्यस्तेजः। किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेणवर्षहेतुर्भवति। कथं ऊर्द्धाभिश्चोर्द्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्चतिर्यग्गताभिश्च महाह्रादाः स्तनयनशब्दाश्चरन्ति। तस्मा-त्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वाइत्याद्युक्तार्थमतस्तेज उपास्वेति भा॰। नैयायिकादयस्तु परमाणुविशेषेभ्य एव तस्योत्पत्तिः। तच्च द्विविधं नित्यमनित्यञ्च नित्यं परमाणुरूपमनित्यं द्व्यणु-कादि। प्रकारान्तरेण अनित्यमपि त्रिविधं देहेन्द्रिय-विषयभेदात्। देहः अयोनिजः वरुणचन्द्रलोकयोःश्रुत्यादिप्रसिद्धः इन्द्रियं रसनं शब्दादिषु मध्ये रसमात्र-व्यञ्जकत्वात् तस्य जलीयत्वम्। द्वणुकादिकमारभ्य हिमकरकसिन्धुपर्य्यन्तं विषयः उपभोग्यत्वात्। स्पर्शसंख्या-परिमितिसंयोगविभागपरत्वापरत्वानीत्यष्टौ वेगः गुरु-त्वं रूपं रसःस्नेहश्च जलस्येते चतुर्द्दशसमान्यविशेषगुणाःयथोक्त
“स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम्। रूपं रस-स्तथास्नेहो वारिण्येते चतुर्द्दश। वर्ण्णःशुल्कोरसस्पर्शौ। जलेमधुरशीतलौ। स्नेहस्तत्रद्रवत्वं तु सांसिद्धिकमुदाहृतम्”। नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् इन्द्रियं रसनंसिन्धुहिमादिविषयो मतः” भाषा॰। एवं स्थूलभूतजलस्यउपाधिभेदेन सुश्रुते गुणदोषादिविवेकाय भेदा दर्शिता यथा
“पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारण-माश्वासजननं श्रमघ्नं क्लमपिपासामदमूर्च्छातन्द्रानिद्रा-दाहप्रशमनमेकान्ततः पथ्यतमञ्च तदेवावनौ पतितमन्यतमंरसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिद्विकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति। तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषुमधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ल्यमुदकानि सम्भ-वन्तीत्येके भाषन्ते तत्तु न सम्यक् तत्र पृथिव्यादीनामन्यो-न्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण तत्र स्वगुणभूयिष्ठायां भूमावम्लं लवणञ्च। अम्बुगुणभूयिष्ठायांमधुरम्। तेजोगुणभूयिष्ठायां कटुकं तिक्तञ्च। वायुगुण-भूयिष्ठायां कषायञ्च। आकाशगुणभूयिष्ठायामव्यक्तरस-मव्यक्तं ह्याकाशमित्यतस्तत्प्रधानमव्यक्तरसत्वात् तत्पेय-मान्तरीक्षालाभे। तत्रान्तरीक्षं चतुर्व्विधम्। तद्यथा। धारं कारं तौषारं हैममिति। तेषां धारं प्रधानं लघु-[Page0330-b+ 38] त्वात्तत्पुनर्द्विविधं गाङ्गं सामुद्रं चेति। तत्र गाङ्गमाश्व-युजे मासि प्रायशो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्व्वीतशाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितंवर्षति देवे वहिष्कुर्व्वीत स यदि मुहूर्त्तं स्थितस्तादृश एवभवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्ण्णान्यत्वे सिक्थक्लेदेच सामुद्रमिति विद्यान्नतु तदुपादेयम्। सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजेमासि, शुचिशुक्लविततपटैकदेशच्युतमथ वा हर्म्यतलपरिभ्रष्टमन्यैर्व्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृण्मये वापात्रे निदध्यात्तत्सर्व्वकालमुपयुञ्जीत तस्यालाभे भौमम्। तच्चाकाशगुणबहुलं तत्पुनः सप्तविधम्। तद्यथा। कौपंनादेयं सारसं ताडागं प्रास्रवणमौद्भिदं चौण्टमिति तत्रवर्षास्वान्तरीक्षमौद्भिदं वा सेवेत महागुणत्वात् शरदि सर्व्वंप्रसन्नत्वात् हेमन्ते सारसं ताडागं वा, वसन्ते कौपं प्रास्र-वणं वा ग्रीष्मेष्वेवं प्रावृषि चौण्टमनवमनभिवृष्टं सर्व्व-ञ्चेति॥ कीटमूत्रपुरीषाण्डशवकोधप्रदूषितम्। तृणपर्णोत्-करयुतं कलुषं विषसंयुतम्॥ योऽवगाहेत वर्षासु पिबेद्वापिनवं जलम्। स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात्क्षिप्र-मेव तु॥ तत्र यत् शैवालपङ्कहटतृणपद्मपत्रप्रभृतिभिरव-च्छन्नं शशिसूर्य्यकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टञ्चतद्व्यापन्नमिति विद्यात्॥ तस्य स्पर्शरूपरसगन्धवीर्य्यविपाक-दोषाः षट् सम्भवन्ति। तत्र खरता पैच्छिल्यमौष्ण्यंदन्तग्राहिता च स्पर्शदोषाः। पङ्कसिकताशेवालबहु-वर्णता रूपदोषाः। व्यक्तरसता रसदोषः। अनिष्टगन्धतागन्धदोषः। यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापा-दयति स वीर्य्यदोषः। यदुपयुक्तं चिराद्विपच्यते विष्टभ्रातिवा स विपाकदोष इति। त एते आन्तरीक्षे न सन्ति॥ व्यापन्नानामग्निक्वथनं सूर्य्यातपप्रतापनं तप्तायःपिण्ड-सिकतालोष्ट्राणां वा निर्व्वापणं प्रसादनञ्च कर्त्तव्यं नाग-चम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति॥ सौवर्णेराजते ताम्रे कांस्ये मणिमये तथा। पुष्पावतंसं भौमे वासुगन्धि सलिलं पिबेत्॥ व्यापन्नं वर्जयेन्नित्यं तोयं यद्वाप्य-नार्त्तवम्। दोषसञ्जननं ह्येतन्नाददीताहितन्तुतत्॥ व्यापन्नंसलिलं यस्तु पिबतीहाप्रसादितम्। श्वयथुं पाण्डुरोगञ्चत्वग्दोषमविपाक{??}म्॥ श्वासकासप्रतिश्यायशूलगुल्मोद-राणि च। अन्यान्वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेवच॥ तत्र सप्त कलुषस्य प्रसादनानि भवन्ति। तद्यथा। कतकगोमेदकविषग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति। [Page0331-a+ 38] पञ्च निक्षेपणानि भवन्ति। तद्यथा। फलकं त्र्यष्टकंमुञ्चकलय उदकमञ्जिका शिक्यञ्चेति॥ सप्त शीतीकर-णानि भवन्ति प्रवातस्थापनमुदकप्रक्षेपणं यष्टिकाभ्रामणंव्यजनं वस्त्रोद्धरणं वालुकाप्रक्षेपणं शिक्यावलम्बनञ्चेति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बु¦ n. (-म्बु) Water. E. अबि to sound, and उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बु [ambu], n. [अम्ब्-शब्दे उण्]

Water; गाङ्गमम्बु सितमम्बु यामुनम् K. P.1.

The watery element of the blood (cf. imber).

N. of a metre.

A term in astrology (लग्नावधिकं चतुर्थस्थानम्). -Comp. -कणः a drop of water. -कण्टकः (short-nosed), alligator. -कन्दः An acquatic plant Trapa bispinosa (Mar. शिंगाडा).-किरातः alligator. -कीशः, कूर्मः a tortoise (शिशुमार); particularly Gangetic. -केशरः lemon-tree (छालङ्गवृक्ष).-क्रिया libation of water; Bk.; presentation of water to the Manes of the deceased. -कुक्कुटी An acquatic hen. -ग, -चर, -चारिन् a. moving or living in water, aquatic (as fish &c.); अद्रिं दधाराम्बुचरात्मना Bhāg.8.5. 11; Ms.12.57. -घनः hail. -चत्वरम् a lake. -चामरम् an aquatic plant (शैवाल). -ज a. produced in water, aquatic (opp. स्थलज); सुगन्धीनि च माल्यानि स्थलजान्यम्बु- जानि च Rām.

(जः) the moon.

camphor.

the Sārasa bird.

the conch; दध्मौ तारेण चाम्बुजम् Mb.7.173.9.

N. of a tree (हिज्जल). (-जम्)

a lotus; इन्दीवरेण नयनं मुखमम्बुजेन Ś. Til.3; A. Rām. 4.1.2.

the thunderbolt of Indra. ˚भूः, ˚आसनः 'the lotus-born god' Brahmā; A. Rām. ˚आसना the goddess Lakṣmī. -जन्मन् n. a lotus; -m.

the moon.

the conch.

Sārasa. -तस्करः 'waterthief', the sun (whose heat drinks up water). -तालः = ˚चामर.-द a. giving or yielding water. (-दः)

a cloud; नवाम्बुदानीकमुहूर्तलाञ्छने R.3.53; -देवम्, -दैवम् The astronomical mansion पूर्वाषाढा. -धर [धरतीति धरः, अम्बूनां धरः; धृ-अच्]

a cloud; वशिनश्चाम्बुधराश्च योनयः Ku.4.43; शरत्प्रमृष्टाम्बुधरोपरोधः R.6.44.

the plant मुस्तक.

talc.-धिः [अम्बूनि धीयन्ते अत्र; धा-कि]

any receptacle of waters; such as a jar; अम्बुधिर्घटः Sk. ˚-स्रवा Aloe perfoliata (Mar. कोरफड).

the ocean; क्षार˚ Bh.2.6.

the number four (in Math.). ˚प्रसवा N. of a plant (घृतकुमारी). -नाथः The ocean. -नामन् Andropogon muricatum (Mar. वाळा). -निधिः 'treasure of waters', the ocean; देवासुरैरमृतम्बुनिधिर्ममन्थे Ki.5.3.-प a. drinking water.

(पः) the ocean.

Varuṇa, the regent of waters; रक्षो$म्बुपानिलशशीशपुराणि चाष्टौ Śid. Śir; शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि Rām.7.4.17.

N. of a plant (चक्रमर्दक; Mar.टाकळा). -पतिः Varuṇa; यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् (अधावताम्) Mb.7.155.36. -पत्रा N. of a plant (उच्चटावृक्ष; Mar. फुरडी). -पद्धतिः f. -पातः current, flow or stream of water, cascade; गङ्गाम्बुपातप्रतिमा गृहेभ्यः Bk.1.8. -प्रसादः -प्रसादनम् [अम्बूनि प्रसादयति] the clearing nut tree (कतक Mar. निवळी). Strychnos Potatorum (the nuts of this tree are used for purifying water; when rubbed on the inner surface of the vessel, they precipitate the impurities which the water contains; (फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति) Ms.6.67.-भवम् a lotus. -भृत् m.

water-bearer, a cloud.

the ocean.

= ˚पत्रा q. v.

N. of a plant मुस्तक.

talc. -मात्रज a. produced only in water. (-जः) a conchshell. -मुच् m. a cloud; ध्वनितसूचितमम्बुमुचां चयम् Ki.5.12.

राजः the ocean.

Varuṇa. -राशिः receptacle or store of water, the ocean; त्वयि ज्वलत्यौर्वं इवाम्बुराशौ Ś.3.3; चन्द्रोदयारम्भ इवाम्बुराशिः Ku.3.67, R.6.57;9.82.-रुह् n.

a lotus.

Sārasa. -रुहः, हम्, a lotus; विपुलिनाम्बुरुहा न सरिद्वधूः Ki.5.1. (-हा) N. of the land-lotus plant (स्थलपद्मिनी). -रोहिणी a lotus. -वाची [अम्बु तद्वर्षणं वाचयति सूचयति] an epithet applied to the earth during four days from the 1th to the 13th in the dark half of the month of Āṣāḍha when it is supposed to be unclean (रजस्वला इव) and agriculture is prohibited; Brav. P.2.77. ˚प्रदः the 1th day; ˚त्यागः 13th day. -वासिनी, -वासी N. of a plant (पाटला), the trumpet flower. -वाहः [अम्बु वहतीति]

a cloud; तडित्वन्त- मिवाम्बुवाहम् Ki.3.1; भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहम् Me. 11.

a lake.

water-bearer.

the number 17.

a sort of grass. -वाहिन् a. carrying or conveying water. -m.

a cloud.

= मुस्तक.

(नी) a wooden vessel, a sort of bucket.

a woman fetching water.

N. of a stream. -विहारः sporting in water.-विस्रवा = घृतकुमारी. -वेग a. flowing quickly; यथानदीनां बहवो$म्बुवेगाः Bg.11.28. -वेतसः a kind of cane or reed growing in water. (Mar. लव्हाळा). -शिरीषिका N. of plant. -सरणम् flow or current of water. -सर्पिणी a leech (अम्बुनि सर्पति). -सेचनी a wooden baling vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बु n. water Naigh. MBh. etc.

अम्बु n. a kind of Andropogon VarBr2S. Bhpr.

अम्बु n. N. of a metre (consisting of ninety syllables) RPra1t.

अम्बु n. the number , " four " VarBr2.

"https://sa.wiktionary.org/w/index.php?title=अम्बु&oldid=488190" इत्यस्माद् प्रतिप्राप्तम्