अयन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयनम्, क्ली, (अय + भावे ल्युट् ।) शास्त्रं । यथा, -- “ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते” । इति तिथ्यादितत्त्वं ॥ पन्थाः । सूर्य्यस्य उत्तर- दक्षिणदिग्गमनं । तद्यथा । माघादिषण्मासाः उत्तरायणं । श्रावणादिषण्मासाः दक्षिणायनं । इत्यमरः ॥ गमनं । गत्थर्थायधातोर्भावेऽनट् ॥ रविसंक्रान्तिविशेषः । यथा भविष्यमात्स्यज्यो- तिषेषु । “मृगकर्कटसंक्रान्ती द्वे तूदक्दक्षिणायने । विषुवती तुला मेषे गोलमध्ये तथापराः” ॥ मृगो मकरः । गोलो राशिचक्रं । देवीपुराणे, “यावद्विंशकला मुक्ता तत्पुण्यं चोत्तरायणे । निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने” ॥ तत्र स्नानदानादौ कोटिगुणफलं भवति । यथा मात्स्ये । “अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।” इत्वादि । “अयने विषुवे चैव शयने बोधने हरेः । अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिषु” ॥ इति तिथ्यादितत्त्वं ॥ * ॥ सूर्य्यगतिविशेषः । यथा, -- “मृगसंक्रान्तितः पूर्ब्बं पञ्चात्तारादिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥ षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवं । कर्क्किसंक्रमणे तद्वदभितो दक्षिणायनं” ॥ इति ज्योतिस्तत्त्वं ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयन नपुं।
त्रिभिरृतुभिः-षण्मासैः
समानार्थक:अयन
1।4।13।1।2
द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः। अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॥
अवयव : द्वौ_मासौ
पदार्थ-विभागः : , द्रव्यम्, कालः
अयन नपुं।
मार्गः
समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्
2।1।15।1।1
अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥
: प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयन¦ न॰ अय--भावे ल्युट्।
१ गतौ, दक्षिणत उत्तरस्याम्,उत्तरतश्च दक्षिणस्यां सूर्य्यस्य चन्द्रस्य च
२ गतौ, तथाहिद्वादशराश्यात्मकस्य राशिचक्रस्यार्द्धं मकरावधिमिथुनपर्य्यन्तम्राशिषट्कं क्रमेण उत्तरावनतं तत्र स्थितोऽर्कश्चन्द्रो वास्वगत्या प्राचीं गच्छन्नपि किञ्चित् किञ्चित्तिर्य्यग्गत्याउत्तरामभिक्रामति, एवं कर्कटावधिधनुःपर्य्यन्तं राशिषट्कंक्रेमेण दक्षिणावनतं तत्र स्थितोऽर्कश्चन्द्रो वा प्राग्वत् दक्षि-णामेवाभिक्रामति सेयं गतिरयनशब्देन ज्योतिषे व्यव-[Page0336-a+ 38] ह्रियते तत्र सूर्य्यस्यायनं सौरैः षड्भिर्मांसैरेकं भवतीतिच तत्रैव प्रसिड्वम्।
“अयनविष्णुपदीषडशीतय” इत्युक्तेः
३ अयनाख्यसंक्रान्तौ सा हि परिभाषिकायनशब्दवाच्या। नभोमण्डले प्रवहानिलेन पश्चाद्गत्या बंभ्रम्यमाणस्य राशि-चक्रस्य निराधारतया दोलायमानत्वेन सप्तविंशांशपर्य्यन्तंप्राक् पश्चाच्च गतिर्भवति। क्रान्तिस्थानञ्च अष्टमासा-धिक
६६ ।
८ षट्षष्टिवर्षैरेकैकमंशमतीत्य प्राक्, पश्चाद्वाचलतीति
१८
०० अष्टदशशतवर्षैः सप्तविंशांशपर्य्यन्तंप्राक्गत्वा पुनः पश्चात्, पश्चाद्गत्वा च पुनः प्रागवलम्बते। यदा चैवं राशिचक्रस्यायनस्थानं प्राक् गच्छति तदा राशि-चक्रनिर्द्दिष्टमेषादिस्थानात् उक्तकालभेदेनेकैकांशातिक्रमेणक्रमशः प्राचि, प्राक्तरे, प्राक्तने, वा स्थाने रव्यादि-ग्रहाणां प्रभापुञ्जसञ्चारः। यदा तु पश्चादवलम्बते तदानिर्दिष्टमेषादिस्यानात् तथैव परे, परतरे, परतमे, च स्थानेग्रहाणां प्रभापुञ्जसञ्चार इति भेदः। इदानीञ्च पश्चिमा-यनं तेन राशिस्थानात् पश्चादेव ग्रहप्रभापुञ्जसञ्चारः। तथाच ज्योतिघोक्तगणितरीत्या मीनान्तात् पश्चादेकविंशांशेएवेदानी विषुवादिसंक्रान्तिर्भवति एवं विष्णुपद्यादीनामपितत्तदंश एव ग्रहप्रभापुञ्जसञ्चारः। अयञ्चायनानुसारेण ग्रह-प्रभापुञ्जसञ्चारस्वीकारः दिनमानविशेषस्य लग्नपरिमाणस्यछायापदविशेषस्य, च बोधार्थमिति सिद्धान्ते प्रसिद्धम्। करणे ल्युटि।
४ उक्तायनज्ञानसाधने शास्त्रे,
“ज्योति-षामयनञ्चैवेति”
५ सैन्यनिवेशविशेषरूपव्यूहप्रवेशमार्गे च
“अयनेषु च सर्व्वेषु यथाभागमवस्थिताः” इति गीता। आधारे ल्युट्।
६ पथि,
७ गृहे,
८ आश्रये,
९ स्थाने,
“तायदस्यायनं पूर्ब्बमिति” मनुः। प्रागुक्तराशिचक्रस्य क्रान्तिवृत्तारम्भस्थानविशेषे
१० अंशादौ च
“तत्काले सायनार्कस्येति” नीलकण्टः। तथाहि मीनान्तो हि युगादौ अयनांशप्रथमस्थानं ततःप्राग्गत्या कियदंशपर्य्यन्तचलनेन परावृत्य पश्चाद्गत्यापूर्वराशेः कियदंशपर्य्यन्तं गत्वा पुनःप्राग्गत्या प्राथमिकचलनस्थानप्राप्तौ अयनस्यैकोविलक्षणो भगणो भवति इत्येवंस्थिते तद्भगणपूरणकालादिज्ञापनाय किञ्चिदभिधीयते। सूर्यसिद्धान्ते।
“त्रिंशत्कृत्यो युगे भानां चक्रं प्राक परिलम्बते। तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यते॥ तद्दोस्त्रिघ्ना दशाप्तांशाविज्ञेया अयनाभिधाः। तत्संस्कृताट्ग्रहात् क्रान्तिच्छाया-चरदलादिकम्” इति॥
“भानां चक्रं राशीनां वृत्तं क्रान्ति-वृत्तं स्वस्वविक्षेपमितशलाकाग्रप्रोतनक्षत्रगणैर्युक्तमित्यर्थः। युगेमहायुगे प्राक् पूर्ब्बविभागे त्रिंशत कृत्यस्त्रिंशत्सङ्ख्यका कृयः[Page0336-b+ 38] र्विंशतयः षट्शतमित्यर्थः। परिलम्बते ध्रुवाधारभगोलस्था-नात् तद्दूरमवलम्बते। अत्र परिलम्बत इत्यनेन भचक्र-पूर्णभ्रमणाभाव उक्तोऽन्यथा ग्रहभगणप्रसङ्गेन मध्याधि-कार एवैतदुक्तं स्यात्। तथा च तद्दूरमवलम्बनोक्त्या परा-वृर्त्य यथास्थितं भवतीत्यागतं यथापि स्वस्थानात् तथैवपश्चिमतोऽप्यवलम्बत इति सूचितम्। एवञ्च भचक्रं पश्चि-मत ईश्वरेच्छया प्रथमतः कतिचिद्भागैश्चलति ततः परा-वृत्य यथास्थितं भवति ततोऽपि तद्भागैः क्रमेण पूर्ब्बतश्च-लति ततोऽपि परावृत्य यथावस्थानंस्थितमित्येको विलक्षणोभगणः। तेन प्रागित्युपलक्षणम्। पश्चिमावलम्बनानुक्तिस्तुसंवादकाले तदभावात्। अत्र त्रिंशत्कृत्व इति पाठःप्रामादिकः।
“युगे षट्शतकृत्वो हि भचक्रं प्राग्विल-म्बते” इति सोमसिद्धान्तविरोधात्।
“तत् पश्चाच्चलितंचक्रमिति” ब्रह्मसिद्धान्तोक्तेश्च। अहर्गणात् तद्गुणात् षट्-शतगुणिताद् भूदिनैर्युगीयसूर्यसावनदिनैर्भक्ताद्यत् फलं भग-णादिकं प्राप्यते तस्य भगणत्यागेन राश्यादिकस्य भुजः कार्यस्त-स्माद्दशाप्तांशा दशभिर्भजनेनाप्तभागास्त्रिगुणिता अयनसं-ज्ञका ज्ञेयाः। भुजांशास्त्रिगुणिता दशभक्ताः फलमय-नांशा इति तात्पर्य्यार्थः। तत्संस्कृतात् तैरयनांशैर्भचक्र-पूर्ब्बापरचलनवशाद्युतहीनाद्ग्रहात् पूर्ब्बापरभचक्रचलनावग-मस्त्वयनग्रहस्य षद्भान्तर्गतानन्तर्गतत्वक्रमेण क्रान्तिच्छा-याचरदलादिकं साध्यम्। न केवलात्, बिशेषोक्तेः। छायावक्ष्यमाणा चरदलं चरं पूर्ब्बाधिकारोक्तम्। आदिशब्दा-दयनवलनमायनदृक्कर्म्म सङ्गृह्यते। यद्यपि तत्संस्कृताद्ग्र-हात् क्रान्तिरित्येव वक्तव्यमन्येषामत्र तदुपजीव्यत्वाद्ग्र-हणं व्यर्थं तथापि क्रान्तिरित्युक्त्या केवलक्रान्तिज्ञानार्थंतत्संस्कृतग्रहात् क्रान्तिः साध्या। पदार्थान्तरोपजीव्यायाःक्रान्तेः साधनं तु केवलादित्यस्य वारणार्थं क्रान्तिमात्रंतत्संस्कृतात् साध्यमिति सूचकं छायाचरदलादिकथनम्। ईश्वरेच्छया क्रान्तिवृत्तं स्वमार्गे पश्चिमतः सप्तविंशत्यंशैःक्रमोपचितैश्चलितं ततः परावृत्य स्वस्थान आगत्य तत्स्था-नात् पूर्बतः सप्तविंशत्यंशैश्चलितम्। तथा च सृष्ट्यादिभूत-क्रान्तिविषुवद्दृत्तसम्पाताश्रितक्रान्तिवृत्तप्रदेशो रेवत्यामन्नःप्रागानीतग्रहभोगावधिरूपः स्वस्थानात् पूर्ब्बमपरत्र वाक्रान्तिवृत्तमार्गे गतः। विषुवद्वृत्ते तु तद्भागस्य वा पश्चिम-भागः पूर्व्वभागो वा गतः। सम्पाते तद्वृत्तयोर्याम्योत्त-रान्तराभावात् क्रान्त्यभावः। पूर्ब्बसम्पातप्रदेशे तु तयो-र्य्याम्योत्तरान्तरत्वात् क्रान्तिरुत्पन्नातो यथास्थितग्रहभो-[Page0337-a+ 38] गात् क्रान्तिरसङ्गतेति सम्पातावधिकग्रहभोगात् क्रान्तिर्युक्तातत्र सम्पातावधिकग्रहभोगज्ञानार्थं पूर्ब्बसम्पातावधिकःपूर्ब्बाधिकारोक्तो ग्रहमोगो वर्त्तमानसम्पातपूर्ब्बसम्पाता-श्रितक्रान्तिवृत्तप्रदेशयोरन्तरभागैरयनांशाख्यैः पूर्व्वसम्पा-तप्रदेशस्य पूर्ब्बपश्चिमाव्स्थानक्रमेण युतहीनो भवति। क्रान्त्यु पजींव्याः पदार्था अपि वर्त्तमानसम्पातादुत्पन्ना इतितत्साधनमपि तत्संस्कृतग्रहात्। अथायनांशज्ञानं तु षट्-शतभगणेभ्यः पूर्ब्बानुपातरीत्याहर्गणाद्ग्रहभोगो भगणा-दिकस्तत्र गतभगणमितं परपूर्ब्बभचक्रावलम्बनं गतम्। वर्त्तमानं त्वारम्भे पश्चिमावलम्बनाद्राशिषट्कान्तर्गते राश्या-दिके पश्चिमावलम्बनमनन्तर्गते पूर्ब्धावलम्बनम्। तत्रापित्रिभान्तर्गगतानन्तर्गतत्वक्रमेण चलनं परावर्त्तनमिति भुजःसाधितस्ततो नवत्यंशैर्यदि सप्तविंशतिमागास्तदा भुजांशैः किमित्यनुपातेनं गुणहरौ नवभिरपवर्त्य भुजांशास्त्रिगुणितादशभक्ता इति सर्व्वमुपपन्नम् रङ्ग॰”॥
“स्फुटं दृक्तुल्यतांगच्छेदयने विषुवद्वये। प्राक् चक्रं चलितं हिदं छायार्कात्करणागते॥ अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके” सू॰सि॰।
“अयने दक्षिणोत्तरायणसन्धौ विषुवद्वये गोलसन्धौचलितं चक्रंदृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायसं गच्छेत्। तत्र प्रत्यक्षतस्तस्मिन् गत्यन्तरं द्वश्यत इत्यर्थः। तथा चसृष्ट्यादिकाले रेवतीयोगतारासन्नावधिमेषतुलाद्योः कर्क-मकराद्योर्विषुवायनप्रवृत्तेरिदानीमन्यत्र तत्खरूपे प्रत्यक्षे इतिक्रान्तिवृत्तं चलितमन्यथा तदनुपपत्तेरिति भावः। ननुपूर्व्वतोऽपरत्र वा चलितमिति कथं ज्ञेयमित्यत आह। प्रागिति। छायार्काद्यद्दिने सूर्यस्यायनदिक्परावर्त्तनमुदयेप्राच्यपरसूत्रस्थत्वं वा तस्मिन् दिनेऽन्यन्मित् दिने वा मध्या-ह्नच्छायातो वक्ष्यमाणप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः। करणागते प्रागुक्तप्रकारेणातीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः। न्यूने सति अन्तरांशैः सूर्ययोरन्तरांशैश्चक्रं क्रान्तिवृत्तंप्राक् पूर्ब्बस्मिन् चलितमिति ज्ञेयम्। अथ यद्यधिके सतिशेषै सूर्ययोरन्तरांशै श्चक्रमावृत्य परिवृत्य पश्चात् पश्चिमा-भिमुखं तथा चलितमिति ज्ञेयम्। अत्रोपपत्तिः। छायातोवक्ष्यमाणप्रकारेण सूर्य्यो वर्त्तमानसम्पाताद्गणितागतस्तुरेवतीतारासन्नाद्यवधितोऽतस्तयोरन्तरमयनांशास्तत्र क्रा-न्तिवृत्तस्य पूर्ब्बचलने गणितागतच्छायार्कोऽधिकोभवति पश्चिमचलने तु न्यूनो भवतीति सर्व्वगुपपन्नम्”। रङ्गनाथः॥ एवमयनस्य प्रकृतस्थानात् चलनेस्थिते सौरागमे
“त्रिंशत्कृत्योयुगे भाना” मित्युक्तेः[Page0337-b+ 38] सोमसिद्धान्ते
“युगे षट्शतकृत्वो हि भचक्रं प्राक्विलम्बते” इत्युक्तेश्च
४३
२०
००
० वर्षमिते युगे षट्शतै-र्विभाजिते लब्धैः
७२
०० वर्षैरेकोऽयनस्य भगणीभवतीति गम्यते। एवञ्चोक्तदिशा युगादितः प्रथमंमीनान्तात् मेषसप्तविंशतिपर्यन्तं प्राक् गत्वा ततःपरिवृत्य मीनशेषपर्यन्तं सप्तविंशत्यशैरागत्य ततोऽपिपश्चाद्गत्या सप्तविंशत्यंशैः मीनचतुर्थांशपर्यन्तमागत्य परावृत्यप्राग्गत्या पुनः सप्तविंत्यंशैः मीनशेषपर्यन्तं धावति इत्येवंचतुर्भिः सप्तविंशत्यंशैः अष्टोत्तरशतांशैः प्राग्पश्चाद्गतिभेदेनएकोऽयनभगणोभवतीति प्रागुक्तैः
७२
०० वर्षैः यदि
१०
८ अंशाः तदा एकांशे किमित्यनुपातेन
६६ ।
८ अष्ट-मासाघिकषट्षष्टिवर्षैरेकेकांशायनचलनम् इति प्रतिभातिततश्च यदि
६६ ।
८ वर्षादिभिः
६० कलात्मकोऽंशस्तदा एक-वर्षेण किमित्यनुपाते
५४ विकलाः प्रतिवर्षमयन स्थानचलनमायाति अत्र प्रागित्युक्तेः सृष्ट्यादौ युगादौ च प्रथमंप्रागेव गतिर्न तु पश्चिमतः तथात्वे इदानीन्तनांशवैषम्या-पत्तेः। तथा हि
४३
२०
००
० युगे यदि षट्शतानिअयनभगणास्तदा
१७
२८
००
० कृतयुगे किमित्यनुपातेन
२४
० भगणाः
१२
९६
००
० त्रेतायुगे
१८
० भगणाः
८६
४०
०० द्वापरे
१२
० भगणाः इत्येवं त्रिपुगे
५४
० भगणा गता इदानीं कलियुगस्य वर्षागता
४९
७३ यदि
७२
०० वर्षेषु
१०
८ अंशात्मकीभगणस्तदा
४९
७३ वर्षेषुकिमिति त्रैराशिके
७४ अंशाः
३५ कलाः
४४ विकलाःलब्धा तथा च
१०
८ अंशात्मकायनभगणमध्ये एतावदंशा-दयो गता इति लभ्यते। तत्र यदि प्रथमं पश्चाद्गत्या भग-णारम्भस्तदा मीनान्तात् चतुर्थांशं यावत् पश्चाद्गत्या परा-वृत्य मीनपर्य्यन्तगमने
५४ अंशाः गताः तत प्राग्गत्या मेष-सप्तविं शत्यं शैर्गतिस्वीकारे इदानीं मेषस्य
२० ।
३५ ।
४४ अय-नांशादिः स्यात्। नच तत् छायादिसंवादि प्रथमं प्राग्गतिस्वीकारे तु प्राग्गत्या प्रथमं मीनान्तात् मेषस्य सप्तविंशत्यंशपर्यन्तं गत्वा पश्चाद्गत्या सप्तविंशत्यंशैः मीनान्तगमने
५४ अंशाः गताः ततः पश्चाद्गत्या मीनस्य एते
२० ।
३५ ।
४४ अंशादयोगतास्तथा च पश्चाद्गत्या मीनस्य नवमांशेइदानीमयनांशादिरिति सर्व्वज्योतिर्वित्सम्पदायः। अतएव एतदयनांशमादायैव ग्रहस्पष्टादिकं ग्रहणंसाध्यते दिनमानादिकञ्चानीयते। इदीन्तनाः ज्योति-विदांशिरोमणयः सर्वगणकावतंसाः पण्डितोत्तमाः श्रीम-न्तोवापुदेवशास्त्रिणः अयनचलनस्य राहुदृष्टान्तेन सर्व्वथा[Page0338-a+ 38] विलोमगतितयायनभगणम् यदुरीचक्रुः तत्र विरोधादिकंप्रदर्शयिष्यते तद्दृष्ट्वा विद्वद्भिस्तस्य प्रमादोऽप्रमादो वावगन्तव्यः। तथा हि छायादिना अयनभोगस्य प्रतिबर्षं
५४ विकलाः इदानीं पश्चादयनस्थानचलनं च सर्वज्योति-र्वित्प्रसिद्धम्। तत्र केवलं पश्चाद्गत्याऽयनस्थानचलनेनभचक्रस्य भ्रमणाङ्गीकारे। यदि
५४ विकलाभिः एको वर्षस्तदा
१२
९६
००
० विकलात्मकभचक्रभ्रमणे कति वर्षा इत्यनु-पातेन
२४
००
० वर्षेष्वेको भगणो भवति यदि
२४
००
० वर्षैः एकोभगणः तदा
४३
२०
०० वर्षात्मके महायुगे कतिभगणाभवन्ति इत्यनुपातेन
१८
० भगणाभवन्ति। ततश्च सौरसोमसिद्धान्तोक्तषट्शतसंख्याविरोधः इदानींमीननवांशे अयनस्थानेविरोधश्च। तथा हि तन्मते राशि-चक्रस्य केवलं विलोमगत्यायनभगणस्वीकारेण प्रागुक्तटिशा
२४
००
० वर्षैरेकोभगणः तदा
१७
२८
००
० वर्षात्मकेकृतंयुगे कतीत्यनुपातेन
७२ भगणाः।
१२
९६
००
० वर्धात्मकत्रेतायाम्
५४ ,
८६
४०
०० द्वापरे
३६ इत्येवंत्रियुगे
१६
२ भगणाः गताः इदानीं कलेः
४९
७३ गताब्देषु किमिति जिज्ञासायाम् यदि
५४ विकलाभिरेकोवर्षस्तदा
४९
७३ वर्षेषु किमित्यनुपाते
७४ ।
३५ ।
४४ अंशादयोगताः इत्यायाति तन्मते च मीनान्तात् सर्वथापश्चाद्गत्या भगणपूरणस्वीकारेण मीनान्तात्
७४ ।
३५ ।
४४ अंशादितः पूर्ब्बमयनस्थानापत्तिः तथाच मीनान्तात्तावद्भिरंशैः पूर्व्वं मकरस्य पञ्चदशांशे अयनांशादिस्यात्। न च तथा प्रत्यक्षादिभिरवगम्यते नापि ज्योतिर्विदांकेषाञ्चित्सम्मतम् अतोऽयनस्थानेन केवलविलोमगत्याभचक्रस्य भ्रमणोक्तिः साहसमेव। किञ्च अतिचिरन्तनकालैःसंवादनीये प्राग्गतित्वे पश्चाद्गतित्वे वा आर्ष ज्ञानं विनानिर्णयासम्भवः अतः सौराद्यागमोक्तं प्राग्गतित्वमना-दृत्य प्रथमं पश्चाद्गतिस्वीकारः केवलपश्चाद्गतिस्वीकारःअयनचलनस्य तद्भगणसंख्यातो विषमकल्पनञ्चार्वाग्दृशांआगसविरोधात् वचनमात्रेण न श्रद्धाय प्रभवति। किञ्च सौरागमाद्युक्तं प्राग्गतित्वंमनादृत्य केवलंपश्चाद्गतित्वं यत् स्वीकृतं तत् सर्व्वव्ययहारलोपकम्तिथ्यादिसाधनाङ्गायनांशादिविलोपकञ्च। एतेन इंल-ण्डिया अपि ज्योतिर्वेत्तारः सृष्टिकालस्य षट्सहस्र-कालमात्रपरिमितिवादिनोऽपि परास्ताः। तैरपि प्रतिवर्षं
५४ विकलाः अयनांशभोगाः स्वीकृताः स्वीकृतश्चषटषष्टिवर्षैरकांशभोगः तथा च
६६ ।
८ वर्षादिभिर्यदि एको-[Page0338-b+ 38] ऽंशः पश्चाद्गच्छति तदा तदुक्तसृष्टिकाले
६०
०० कतीत्य-नुपाते
९० अंशाः समायान्ति तेन मीनान्तात्
९० अंशान्तरेपश्चाद्गत्या धनुःशेषांशेऽयनारम्भः स्यात् तदेतद्दृष्टविरुद्ध-त्वादपेक्ष्यमेवंमीनान्तं विहाय अन्यत्र कान्तिवृत्तारम्भस्था-नतश्चलनकल्पने न विनिगमकममस्ति इति विजातीयज्योति-र्विदाम्मतमसङ्गतमेव तैरपि तदवधिक्रान्तिवृत्तारम्भांशचलन-स्वीकारात्। इदानीं च संवाद्ययनानुसारेण मीनान्तात्
२० ।
३५ ।
४४ तत्रानुपातेप्रायेण
१३
७० वर्षा आयान्ति तत्रैवसृष्टिकल्पनन्तु नैव सम्भवति ख्रीष्टाब्द
१८
७३ कालस्यततो-ऽधिकत्वेन तत्पूर्ब्बं सृष्टेरुचितत्वात्। पुनर्भगणान्तरस्वीकारेतु
२४
००
० वर्षास्ततोऽधिकाः स्युस्तेन
२५
३५ वर्षाः सृष्टिकालाः अन्ततः स्युः तावतिथेच काले सर्वग्रहाणां मेषादौस्थित्यसम्भव एव इति सर्वथा तन्मतमनादरयणीयमेव। प्राग्-दर्शितसरणौ प्रीचीनसम्मतिरपि यथा।
“मृगसंक्रान्तितःपूर्ब्बं पश्चात्तारादिनान्तरे। प्रतिवर्षं चतुः पञ्चपलमान-क्रमेण तु। षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः। एवंचतुःपञ्चदिनादयनारम्भणं क्रमात्। व्युत्क्रमेण च तद्वत्स्यादुदग्यानं रवेर्ध्रुवम्। कर्किसंक्रमणे तद्वदभितोदक्षिणाय-नम्। अयनांशक्रमेणैव विषुवारम्भणं तथा। रविसंक्रान्ति-तोमेषतुलयोरभितः पुनः” तिथि॰ त॰। अधिकमयन-संक्रान्तिशब्दे वक्ष्यते। एति सूर्य्योदक्षिणामुत्तरांवाऽत्र आधारे ल्युट्। पूर्व्वोक्तरीत्या सूर्यस्योत्तर-दक्षिणागत्याधारे
११ काले तथा च।
“तपस्तपस्यौ शिशि-रावृतुः मधुश्च माधवश्च वासन्तिकावृतुः शुक्रश्चशुचिश्च ग्रीष्मावृतुः अथैतदुत्तरायणं देवानां दिनं नभश्चनभस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च शारदावृतुः सहाश्चसहस्यश्च हैमन्तिकावृतुः अथैतद्दक्षिणायनं देवानां रात्रिः” इति श्रुतौ
“अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदोजनाः। धूमोरात्रि-स्तथा वह्निः षण्मासादक्षिणायनमिति” गीतायाञ्च षण्मासा-नामेव अयनत्वेनाभिधानात्।
१२ अयनाभिमानिदेवेषु
“आतिवाहिकास्तल्लिङ्गात्” शा॰ सू॰। अर्च्चिरादीनांतदमिमानदेवतापरत्वव्यवस्थापनात्
“तेऽचिर्षमभिसम्पद्यन्तेअर्च्चिषोऽहः अह्न आपूर्य्यमाणपक्षम् आपूर्य्यमाणपक्षात्यानुदङ्ङेति तान्मासान् मासेभ्यः संवत्सरमित्युपक्रम्यसएतान् ब्रह्म गमयतीति” छा॰ उ॰ श्रुतौ ब्रह्म-गमयितृत्वोक्तेः तेषां चेतनपरत्वौचित्यम्।
“अयते यातिअनेन ऋतुत्रयेण सूर्य्योदक्षिणाशामुत्तराशां वेति[Page0339-a+ 38] ऋतुत्रयमयन तथा च वाजसनेयिनः पञ्चाग्निविद्यायांदक्षिणोत्तरमार्गयोः समामनन्ति।
“यान् षण्मासान्दक्षिणादित्य एति, यान् षण्मासानुदङ्ङादित्य एतीति” तथा छन्दोगा अधीयते।
“यान् षड्दक्षिणैति--मासान्तान्, यान् षडुत्तरैति मासांस्तानिति” तैत्तिरीयाः क्रतुग्रहब्राह्मणेपठन्ति
“तस्मादादित्यः षण्मासान् दक्षिणेनैतिषड् त्तरेणैति” एवंचादित्यगतिमुपजीव्यायननिष्पत्तेः सौर-मेवैतत् अत एव विष्णु धर्म्मोत्तरे सौरमानमधिकृत्योक्तम्
“ऋतुत्रयं चायनंस्यादिति” केचित्तु चान्द्रमानेनायनद्वयम-भ्युपगच्छन्ति
“मार्गमासादिकैस्त्रिभिः ऋतुभिः कल्पितःकालः षण्मासात्मकमुत्तरायणं ज्यैष्ठमासादिकैः दक्षिणायन-मिति तत्र प्रमाणं ज्योतिः शास्त्रादौ मृग्यं श्रौतस्मार्त्तकर्मानु-ष्ठाने तु मकरकर्कटसंक्रान्त्यादिक एवायनद्वयकाल इतियथोक्तश्रुतिस्मृतिभ्यामवगन्तव्यम् उत्तरायणस्य यागकर्मा-ङ्गचं कण्वा अधीयते
“उदगयन आपूर्य्यमाणे पक्षे पुण्याहेद्वादशाहमुपसद्वती भूत्वेत्यादि”। चौलादीनामुत्तरायणकर्त्त-व्यता गृह्यस्मृतिषु प्रसिद्धा। सत्यव्रतश्च देवताप्रतिष्ठादीना-मुत्तरायणदक्षिणायनयोर्विधिनिषेधावाह
“देवतारामवा-प्यादिप्रतिष्ठोदङ्नुखे रवौ। दक्षिणाभिमुखे कुर्व्वन् न तत्-फलमवाप्नुयादिति” उग्नदेवतानां प्रतिष्ठा दक्षिणायनेकर्त्तव्या तथा च वैखानससंहितायामभिहितम्
“मातृ-भैरववाराहनारसिंहत्रिविक्रमाः। महिषासुरहन्त्री चस्थाप्या वै दक्षिणायन इति” कालमाधवीये माधवः।
“सौरेण द्युनिशोर्वामं षडशीतिमुखांनिच। अयनंविषुवच्चैव संक्रान्तेः पुण्यकालता”। सू॰ सि॰ उक्तेःअयनं सौरमानेनैवेत्यवगम्यते। कान्तिवृत्तारम्भस्थान-चलनं च सर्वेषां राशीनां स्वस्वस्थानात् प्राक् पश्चाद्वाअयनांशानुसारेणान्यत्र स्थाने भवति। तस्य स्फुटा-नयनमयनसंक्रान्तिशब्दे वक्ष्यते।
“संक्रान्तिषु यथाकालस्तदीयेऽप्ययने तथा” का॰ मा॰ स्मृतिः। एतिसमृद्धिमनेनकरणे ल्युट्।
१२ सत्रविशेषे यथा गवामयनम्तद्विवरणं गवामयनशब्दे। अयनेननिर्वृत्तम् अयनस्येदंवाअण्। आयनम् अयनसाध्ये अयनसम्बन्धिनि च त्रि॰।
“युतायनांशोडुपकोटिशिञ्जिनी जिनांशमौर्व्या गुणिताविभाजिता। द्युजीवया लब्धफलस्य कार्म्मुकम् भवेच्छ-शाङ्कायनदिक्कमायनमिति” आयनं वलनमस्फुटेषुणा सङ्गुणंद्युगणभाजितं हतम्। पूर्ण्णपूर्ण्णधृतिभिर्गृहाश्रितव्यक्ष-भोदयहृदायनाः कलाः
“अस्फुटेषुवलनाक्षतिस्तु वा[Page0339-b+ 38] पष्टिहृत् फलकलाः स्युरायनाः” इति च सि॰ शि॰। अयनेभवः ठञ्। आयनिकः अयनभवे त्रि॰ स्त्रियां ङीप्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयन¦ n. (-नं)
1. A road, a path.
2. The half year, that is, the sun's road north and south of the equator. See उत्तरायण, &c.
3. The equinoe- tial and solstitial points.
4. A Sastra or inspired writing. E. इण to go, and ल्युट् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयन [ayana], a. [अय्-ल्युट्] Going (at the end of comp.); यथेमा नद्यः स्यन्दमानाः समुद्रायणाः Praśn. Up.
Going, moving, walking; as in रामायणम्.
A walk, path, way, road; आयन्नापो$यनमिच्छमानाः Rv.3.33.7. अगस्त्य- चिह्नादयनात् R.16.44.
A place, site, abode, place of resort; Bṛi. Up.2.4.11. ता यदस्यायनं पूर्वम् Ms. 1.1 (occurring in the derivation of the word नारायण).
A way of entrance, an entrance (to an array of troops or व्यूह); अयनेषु च सर्वेषु यथाभागमव- स्थिताः Bg.1.11.
Rotation, circulation period; अङ्गिरसां अयनम्; इष्टि˚, पशु˚.
A particular period in the year for the performance of particular sacrificial or other religious works; N. of certain sacrificial performances; as गवामयनम्.
The sun's passage, north and south of the equator.
(Hence) The period of this passage, half year, the time from one solstice to another; see उत्तरायण and दक्षिणायन; cf. also सायन and निरयण.
the equinoctial and solstitial points; दक्षिणम् अयनम् winter solstice; उत्तरम् अयनम् summer solstice;
Method, manner, way.
A Śāstra, scripture or inspired writing.
Final emancipation; नान्यः पन्था विद्यते$यनाय Śvet. Up.
A commentary; treatise.
The deities presiding over the ayanas. -Comp. -अंशः, -भागः the arc between the vernal equinoctial point and beginning of the fixed zodiac or first point of Aries. -कलाः The correction (in minutes) for ecliptic deviation. Sūryasiddhānta. -कालः the interval between the solstices. -ग्रहः A planet's longitude as corrected for ecliptic deviation; ibid. -जः a month caused byayanāṁśa. -परिवृत्तिः Change of the अयन; sun's passage from one side of the equator to the other; अयनपरिवृत्ति- र्व्यस्तशब्देनोच्यते । ŚB. on MS.6.5.37. -संक्रमः, -संक्रान्तिःf. passage through the zodiac. -वृत्तम् the ecliptic.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अयन mfn. going VS. xxii , 7 Nir.
अयन n. walking a road a path RV. iii , 33 , 7etc. (often ifc. See. नैमिषा-यन, पुरुषा-यन, प्रसमा-यन, समुद्रा-यण, स्वेदा-यन) , (in astron. ) advancing , precession Su1ryas.
अयन n. (with gen [ e.g. अन्गिरसाम्, आदित्यानम्, गवाम्, etc. ] or ifc. )" course , circulation " , N. of various periodical sacrificial rites AV. S3Br. etc. the sun's road north and south of the equator , the half year Mn. etc. , the equinoctial and solstitial points VarBr2S. etc.
अयन n. way , progress , manner S3Br.
अयन n. place of refuge Mn. i , 10
अयन n. a treatise( शास्त्रSee. ज्योतिषाम्-अयन) L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a साध्य. M. २०३. ११.