अयस्थूण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयस्थूण¦ पु॰ अयोनिर्म्मितः स्थूणः वा विसर्गलोपः। लोह-मये

१ गृहस्थूणे

६ ब॰। तथाविधगृहस्थूणयुक्ते

२ गृहस्थे।
“अयस्थूणगृहपतीनां वै” शतव्रा॰ अयस्थूणा गृहपतय-स्तेपामिति तेषाम् हीनद्रव्यकत्वादाक्षेपः भा॰।

७ त॰

३ अयोमयाक्षे रथादौ त्रि॰।
“व्युष्टावयस्थूणमुदितासूर्य्यस्य” ऋ॰

५ ,

६२ ,

८ , अयस्थूणमयोमयशङ्कुं गर्त्तंरथं वेति भा॰।

४ ऋषिभेदे पु॰ तस्य गोत्रम् अण्आयस्थूणः तस्य बहुषु लुक्। अयस्थूणाः। गौ॰पाटात् ङीष् अयस्थूणी।

"https://sa.wiktionary.org/w/index.php?title=अयस्थूण&oldid=488327" इत्यस्माद् प्रतिप्राप्तम्