अरिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्टम्, क्ली, (रिष हिंसायां कर्त्तरि क्त, नञ्- समासः ।) सूतिकागृहं । (“अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा” । इति रघुवंशे ।) अशुभं । तक्रं । मरणचिह्नं । (यदुक्तम्, “रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते । तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते” ॥) शुभं । इति मेदिनी ॥ उपद्रवः । तत्पर्य्यायः । उप- लिङ्गः २ उपसर्गः ३ अजन्यं ४ ईतिः ५ उत्पातः ६ । इति हेमचन्द्रः ॥ (मद्यं । यथा । द्राक्षारिष्टं । दशसूलारिष्टं । वव्वूलारिष्टं । “अरिष्टं लघुपाकेन सर्व्वतश्च गुणाधिकम् । अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ॥ इति वैद्यके ।) (“मरणचिह्नार्थे लक्षणं यथा । नियतमरणा- ख्यापकलिङ्गं ॥ इति माधवसंगृहीतरोगविनि- श्चयग्रन्थटीकाकृद्विजयरक्षितः ॥ * ॥ तत्र प्रकृत- वर्णोऽर्द्धशरीरे विकृतवर्णोऽर्द्धशरीरे द्वावपि वर्णौ मर्य्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणविभा- गेन यद्येवं पूर्ब्बपश्चिमविभागेन यद्युत्तराधर- विभागेन यद्यन्तर्वहिर्विभागेनातुरस्यारिष्टमिति विद्यात्” ॥ इति चरकः । “शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् । तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे” ॥ इति च सुश्रुतः ॥)

अरिष्टः, पुं, (रिष हिंसायां कर्त्तरि क्त, नञ्समासः ।) लशुनः । निम्बः । फेनिलवृक्षः । काकः । कङ्क- पक्षी । इति मेदिनी । वृषभासुरः । इत्यनेकार्थ- ध्वनिमञ्जरी ॥ मद्यविशेषः । इक्षुविकारसहिता- भयाचित्रकदन्तीपिप्यल्यादिभूरिभेषजक्वाथादिसं- स्कारवान् अरिष्टोऽभिधीयते । इति सुश्रुतटीका ॥ अस्य गुणः । अर्शःशोथग्रहणीकफरोगनाशित्वं । इति राजवल्लभः ॥ (“द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं मवेत् । आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितं ॥ यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । अरिष्टः क्वाथसिद्धः स्यात्तयोर्मानिं पलोन्मितं” ॥ इति शार्ङ्गधरः ॥ गुणोऽस्य यथा चरकेणोक्तः ॥ “शोकार्शोंग्रहणीदोषपाण्डुरोगारुचिज्वरान् । हन्त्यरिष्टः कफकृतान्रोगान् रोचनदीपनः ॥ * ॥ दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ त्रिफलाया दलानाञ्च प्रक्षिप्य त्रिपलं ततः । रसे चतुर्थशेषे तु पूते शीते समावपेत् ॥ तुलां गुडस्य तत्तिष्ठेत् मासार्द्धं घृतभाजने । तन्मात्रया पिबेन्नित्यं अर्शोभ्योऽपि प्रमुच्यते ॥ ग्रहणीपाण्डुरोगघ्नं वातवर्ञ्चोऽनुलोमनं ॥ दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः” ॥ इति दन्त्यरिष्टः । इति चरकः ॥ “अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः । बहुदोषहरश्चैव दोषाणां शमनश्च सः ॥ दीपनः कफवातघ्नः सरः पित्तविरोधनः । शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः” ॥ इति सुश्रुतश्च ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्ट नपुं।

प्रसवस्थानम्

समानार्थक:अरिष्ट,सूतिकागृह

2।2।8।2।3

मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्. गर्भागारं वासगृहमरिष्टं सूतिकागृहम्. कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

अरिष्ट पुं।

अरिष्टः-रीढा

समानार्थक:अरिष्ट,फेनिल

2।4।31।2।2

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः। रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अरिष्ट पुं।

निम्बः

समानार्थक:अरिष्ट,सर्वतोभद्र,हिङ्गुनिर्यास,मालक,पिचुमन्द,निम्ब

2।4।62।1।1

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अरिष्ट पुं।

लशुनम्

समानार्थक:महौषध,लशुन,गृञ्जन,अरिष्ट,महाकन्द,रसोनक

2।4।148।2।3

लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

अरिष्ट पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।1।3

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

अरिष्ट नपुं।

दण्डमथितगोरसमात्रम्

समानार्थक:दण्डाहत,कालशेय,अरिष्ट,गोरस

2।9।53।1।3

दण्डाहतं कालशेयमरिष्टमपि गोरसः। तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्.।

 : पादांशजलघोलः, अर्धांशजलघोलः, वस्त्रनिःसृतदधिजलम्

पदार्थ-विभागः : पक्वम्

अरिष्ट नपुं।

अशुभम्

समानार्थक:रिष्ट,अरिष्ट,अनय

3।3।36।1।2

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

अरिष्ट नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

3।3।36।1।2

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्ट¦ पु॰ रिष--हिसाय कर्त्तरि--क्त न॰ त॰।

१ लशुने

२ निम्बे।
“सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च
“ब्रणिरक्षायां सुश्रुतः।
“सुमनायाश्चपत्राणिपटोलारिष्टयोस्त-थेति” विद्रधिचिकित्सायां सुश्रुतः।

३ लङ्कानिकटवर्त्तिप-र्वतभेदे

४ काके

५ कङ्के (रीठा) इति ख्याते

६ फेनिलफलक-वृक्षे।
“अरिष्टकस्त्रिदोषघ्नोग्रहजिद्गर्भपातनः” वैद्य॰।

७ कृष्णहतेऽसुरभेदे।
“यत्र शाल्वञ्चमैन्दञ्च कंसं द्विविदमेव चअरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्। नागं कुवलयापीडं चानूरं मुष्टिकं तथा। दैत्यान् मानुषदेहस्थान्सूदयामास वीर्य्यवान्” हरिव॰।

८ अशुभे।

९ तक्रे।

१० सूतिकागृहे।
“अरिष्टशब्यां परितोविसर्पिणा” रघुःतत्करणप्रकारस्तु
“नवमे मासि सूतिकागारमेनां प्रवेशयेत्प्रशस्ततिथ्यादौ तत्रारिष्टं ब्राह्मणक्षत्रिमवैश्यशूद्राणां श्वेत-रक्तपीतकृष्णेषु भूमिप्रदेशेषु विन्यस्तन्यग्रोधतिन्दुकभल्लातक-सर्षपदूर्वानिर्म्मितं शय्यागारं यथासंख्यं तन्मयपर्य्यङ्कमुपलि-प्तभित्ति सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्ता-यतंचतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम्” सुश्रु॰। तत्र प्रवेशे
“रोहिण्यैन्दवपौष्णे तु स्वातीवरुणयोरपि। प्रनर्वसौ पुष्यहस्तधनिष्ठासूत्तरासु च। मैत्रे त्वाष्ट्रे[Page0357-b+ 38] तथाश्विन्यां सूतिकागारमाविशेत्” नि॰ सि॰ ताराउक्ता। एतच्च सम्भवे
“प्रसूति समये प्राप्ते सद्यएवप्रवेशयेत्” वशिष्ठोक्तेः। तच्च नैरृत्यां वास्तुभूमौ-कार्यम्
“वारुण्यां भोजनगृहं नैरृत्यां सूतिकागृहम्” वशिष्ठोक्तेः
“दशाहं सूतिकागारमायुधैश्च विशेषतः। वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः। मुषलेन तथाद्वारि वर्णकैश्चित्रितेन च” विष्ण॰ पु॰

११ अनिष्टसूचके उत्-पाते भूमिकम्पादा अरिष्टे त्रिविधोत्पाते” इतिज्यो॰

१२ अनिष्टस्थानस्थेषु रव्यादिग्रहेषु।

१३ पानेनारिष्टकारकेमद्ये।
“रक्तारिष्टं शोषिताजीण्णं शेषम्” माघः।
“अरिष्टंलघु पाकेन सर्व्वतस्तु गुणाधिकम्। अरिष्टस्य गुणा ज्ञेयावीजद्रव्यगुणैः समाः” वैद्य॰। मद्ये पुस्त्वमपि भावप्र॰। नास्ति रिष्टंयतोऽधिकम्

५ ब॰।

१४ मरणचिह्ने।
“रोगिणोमरणं यस्मादवश्यं भावि लक्ष्यते। तल्लक्षणमरिष्टं स्यात्रिष्टमप्यभिधीयत” इति पुरा॰। न॰ त॰।

१५ शुभे न॰

५ व॰।

१६ शुभदायके विधाने

१७ अविनाशिनि च त्रि॰।

१८ वलिपुत्रे दैत्यभेदे पु॰
“अरिष्टो वलिपुत्रश्च वरिष्ठोऽथशिलायुधः” हरिवं॰ (कट्की) ख्यातायां

१९ कटुकायां

२० कश्यपपत्नीभेदे च स्त्री
“अदितिर्दितिर्दनुश्चैव अरिष्टासुरसा खशा” इत्युपक्रम्य
“कद्रुर्मुनिश्च राजेन्द्र! तास्वपत्या-नि मे शृणु अरिष्टा तु महासत्वान् गन्धर्वानमितौजसः” हरिव॰ रिष्टं हिंसा विरोधे न॰ त॰।

२१ सुखे-नावस्थाने न॰
“मर्त्तवेऽथो अरिष्टतातये” ता॰ ब्रा॰।
“अरिष्टं सुखेनावस्थान’ तस्य तातये विस्ताराय” भा॰। स्वार्थे कन्। निम्बादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्ट¦ m. (-ष्टः)
1. The soap-berry plant, (Sapindus saponaria, &c.)
2. Garlick.
3. The Nimb tree, (Melia azadaracta.)
4. A crow.
5. A heron.
6. The name of an Asur or infernal spirit. n. (-ष्टं)
1. A woman's apartment, the lying-in chamber.
2. Good fortune, happi- ness.
3. Bad or ill luck, misfortune.
4. Buttermilk.
5. Vinous spirit.
6. Sing or symptom of approaching death.
7. A portent, some natural phenomenon considered as indicating calamity. E. अ neg. and रिष्ट bad or good fortune.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्ट [ariṣṭa], a.

Unhurt; perfect, complete; imperishable, undecaying, secure, safe; अरिष्टं गज्छ पन्थानम् Rām.1.24. 3; अरिष्टं मार्गमातिष्ठत् पुण्यं वा तु निषेवितम् Rām.

Auspicious, अक्षताभ्यामरिष्टाभ्यां हतः कर्णो महारथः Mb.8.66.2.

unauspicious; अरिष्टमैन्द्रं निशितम् Rām.6.67.164.

ष्टः A heron (कङ्क).

A raven, crow.

An enemy; अरिष्टस्त्वाष्ट्रस्य Mv.4.18.

N. of various plants: (a) the soap-berry tree (Mar. रिठा); कुतपानामरिष्टकैः (शुद्धिः) Ms. 5.12. (b) another plant (Mar. निंब) Rām.2.94.9. Bhāg.8.2.12.

Garlic.

A distilled mixture.

N. of a demon killed by Kṛiṣṇa; a son of Bali.

ष्टा A bandage.

N. of a medical plant (कटुका).

N. of a daughter of Dakṣa and one of the wives of Kaśyapa, and mother of महाश्वेता.

ष्टम् Bad or ill luck, evil, misfortune, calamity.

A portentous phenomenon foreboding misfortune, unlucky omen (such as earth-quake).

Unfavourable symptom, especially of approaching death; रोगिणो मरणं यस्मादवश्यं भावि लभ्यते । तल्लक्षणमरिष्टं स्याद्रिष्टमप्यमिधीयते ॥ cf. also Pātañjala Yogadarśana 3.22.

Good fortune or luck, happiness.

The lying-in-chamber, delivery-room, women's apartments; कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः Mb.12.69.49; (अन्तःपुरम्); अपस्नात इवारिष्ठं प्रविवेश गृहोत्तमम् Rām.

Butter-milk.

Spirituous liquor; ग्लानिच्छेदी क्षुत्प्रबोधाय पीत्वा रक्तारिष्टम् Śi. 18.77. cf.... अरिष्टं सूतिकागृहे । अशुभे निम्बवृक्षे च शुभे तक्राङ्कयोः पुमान् । काके च फेनिले नीचे व्यसने$नर्थलम्बयोः । भग्यहीने... Nm.-Comp. -असु a. Ved. having one's life unhurt. अरिष्टासु सचेवहि बृहते वाजसातये Av.14.2.72. -गातु a. Ved. dwelling securely चा$रिष्टगातुः स होता सहोभरिः Rv.5.44.3.-गृहम the lying-in-chamber. -ग्राम a. Ved. of undivided group, having a complete troop; अरिष्टग्रामाः सुमतिं पिपर्तन Rv.1.166.6. -ताति a. Ved. making fortune or happy, auspicious. (-तिः f.) safeness, security, succession of good fortune, continuous happiness (अरिष्टं करोतीति ˚तातिः; अरिष्टस्य भावो वा शिवशमरिष्टस्य करे P.IV.4.143-4 Sk.); तदत्रभवता निष्पन्नाशिषां काममरिष्टतातिमाशास्महे Mv. 1. -दुष्टधी a. apprehensive of death, alarmed at the approach of death. -नेमिः N. of the 22nd तीर्थंकर of the Jainas; N. of the brother of Garuḍa. -पुरम् N. of a place; cf. अरिष्टाश्रितपुरम् P. VI.2.1. -भर्मन् a. granting security; देवेभिर्देव्यदिते$- रिष्टभर्मन्ना गहि Rv.8.18.4. -मथनः N. of Śiva or Viṣṇu.-शय्या a lying in couch; अरिष्टशय्यां परितो विसारिणा R. 3.15. -सूदनः, -हन् m. killer of Ariṣṭa, epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्ट/ अ-रिष्ट mf( आ)n. unhurt RV. etc.

अरिष्ट/ अ-रिष्ट mf( आ)n. proof against injury or damage RV.

अरिष्ट/ अ-रिष्ट mf( आ)n. secure , safe RV.

अरिष्ट/ अ-रिष्ट mf( आ)n. boding misfortune (as birds of ill omen , etc. ) , AdbhBr. Hariv.

अरिष्ट/ अ-रिष्ट mf( आ)n. fatal , disastrous (as a house) R. ii , 42 , 22

अरिष्ट/ अ-रिष्ट m. a heron L.

अरिष्ट/ अ-रिष्ट m. a crow L.

अरिष्ट/ अ-रिष्ट m. the soapberry tree , Sapindus Detergens Roxb. (the fruits of which are used in washing Ya1jn5. i,186 )

अरिष्ट/ अ-रिष्ट m. See. अरी ष्टक

अरिष्ट/ अ-रिष्ट m. Azadirachta Indica R. ii , 94 , 9

अरिष्ट/ अ-रिष्ट m. garlic L.

अरिष्ट/ अ-रिष्ट m. a distilled mixture , a kind of liquor Sus3r.

अरिष्ट/ अ-रिष्ट m. N. of an असुर(with the shape of an ox , son of बलि, slain by कृष्णor विष्णु) Hariv. BhP.

अरिष्ट/ अ-रिष्ट m. of a son of मनुवैवस्वतVP. ( v.l. for देष्ट)

अरिष्ट/ अ-रिष्ट m. ill-luck , misfortune(See. अरिष्टn. ) MBh. xii , 6573

अरिष्ट/ अ-रिष्ट m. a medical plant L.

अरिष्ट/ अ-रिष्ट m. N. of दुर्गाSkandaP.

अरिष्ट/ अ-रिष्ट m. N. of a daughter of दक्षand one of the wives of कश्यपHariv.

अरिष्ट/ अ-रिष्ट n. bad or ill-luck. misfortune

अरिष्ट/ अ-रिष्ट n. a natural phenomenon boding approaching death

अरिष्ट/ अ-रिष्ट n. good fortune , happiness MBh. iv , 2126 , buttermilk L.

अरिष्ट/ अ-रिष्ट n. vinous spirit L.

अरिष्ट/ अ-रिष्ट n. a woman's apartment , the lying-in chamber(See. अरिष्टग्रिहand -शय्याbelow) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Danu. फलकम्:F1:  भा. VI. 6. ३०.फलकम्:/F Took part with Bali in the देवासुर war. फलकम्:F2:  Ib. VIII. १०. २२.फलकम्:/F A दानव with मनुष्य धर्म। फलकम्:F3:  वा. ६८. १५.फलकम्:/F Known for music. फलकम्:F4:  वा. ६९. ७३.फलकम्:/F
(II)--the son of Mitra and रेवती. भा. VI. १८. 6.
(III)--an asura friend of कंस. फलकम्:F1:  भा. X. 2. 1; Vi. V. 1. २४; 4. 2; १२. २१.फलकम्:/F Came once to the व्रज of Nanda in the form of a terrific bull. Gopas and gopis got afraid as also the cattle there; attacked कृष्ण who vanquished him. फलकम्:F2:  भा. X. ३६. 1-१६; ४६. २६; II. 7. ३४; Br. III. ७३. १००; IV. २९. १२४; Vi. V. १४ (whole); १५. 1; २९. 4.फलकम्:/F
(IV)--a son of Vaivasvata Manu. M. ११. ४१; Vi. III. 1. ३३.
(V)--a son of Bali; took part in the तारकामय war. M. १७३. २०; १७७. 7.
(VI)--one of the nine sons of Manu; killed by कृष्ण. वा. ८५. 4; ९८. १००.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ARIṢṬA (ARIṢṬAKA) : An asura, a servant of Kaṁsa. Once, at the instance of Kaṁsa he went to Gokula disguised as an ox to kill Śrī Kṛṣṇa. The ox instilled terror in people by tearing to pieces hills and mountaisn with its horns and bellowing like hell. But Śrī Kṛṣṇa faced the beast, and rained blows on him and it was thrown hundred yojanas away and it died. At the time of death it regained its fromer from as Asura. (Bhāga- vata, Daśama, Skandha, Chapter 37).


_______________________________
*15th word in right half of page 47 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिष्ट न.
एक साम का नाम, पञ्च.ब्रा. 12.5.22 सा.वे. 1.565 पर निबद्ध।

"https://sa.wiktionary.org/w/index.php?title=अरिष्ट&oldid=488468" इत्यस्माद् प्रतिप्राप्तम्