अरुणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरुणः, पुं, (ऋ + उनन् ।) सूर्य्यसारथिः । स तु विनतापुत्रः गरुडज्येष्ठभ्राता च । तत्पर्य्यायः । सूरसूतः २ अनूरुः ३ काश्यपिः ४ गरुडाग्रजः ५ सूर्य्यः । अर्कवृक्षः । अव्यक्तरागः । ईषद्रक्तवर्णः । इत्यमरः । सन्ध्यारागः । शब्दरहितः । कपिल- वर्णः । कुष्ठभेदः । अरुणगुणविशिष्टे तु वाच्य- लिङ्गः । इति मेदिनी ॥ पुन्नागवृक्षः । गुडः । इति राजनिर्घण्टः ॥ (कपिलवर्णयुक्तः । कृष्ण- मिश्रितरक्तवर्णविशिष्टः । “कपोताङ्गारुणो धूमो दृश्यते विमलाम्बरे” । इति रामायणे ।)

"https://sa.wiktionary.org/w/index.php?title=अरुणः&oldid=113265" इत्यस्माद् प्रतिप्राप्तम्