सामग्री पर जाएँ

अर्घ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्यम्, त्रि, (अर्ह्यते पूज्यते, अर्ह + ण्यत्, न्यङ्क्वादी- नाञ्चेति कुत्वं, अर्घमर्हति इति पादार्घाभ्याञ्चेति यत् वा ।) पूजनयोग्यं । पूज्यं । इति मेदिनी ॥ अर्घ्यार्थं । तत्तु पूजार्थदूर्व्वाक्षतचन्दनपुष्पमिश्रित- वारि । इत्यमरः ॥ (“अनर्घ्यमर्घ्येण तमद्रिनाथः, स्वर्गौकसामर्च्चितमर्च्चयित्वा” । इति कुमारसम्भवे । “अर्घ्यमर्घ्यमितिवादिनं नृपं, सोऽनवेक्ष्य भरताग्रजो यतः” । इति रघुवंशे ।) अर्घार्थजलम् इति अमरटीकायां भरतः ॥ तत्तु सामान्यविशेषभेदेन द्विविधं । तत्राद्यस्य क्रमः । स्ववामे त्रिकोणवृत्तभूविम्बं विलिख्याधारशक्तिं पूजयित्वा अस्त्रमन्त्रेण पात्रं प्रक्षाल्य मन्त्रेण जलेनापूर्य्याङ्कुशमुद्रया मन्त्रेण, सूर्य्यमण्डलात्तीर्थमावाह्य प्रणवेन गन्धपुष्पाभ्यां संपूज्य धेनुमुद्रां प्रदर्श्य प्रणवमष्टधा दशधा वा जपेत् ॥ अन्त्यस्य क्रमः । स्ववामे त्रिकोणमण्डलं कृत्वा तत्र त्रिपदिकामारोप्य अस्त्रेण शङ्खं प्रक्षाल्य तदुपरि संस्थाप्य मन्त्रेण गन्धपुष्पाक्षत- दूर्व्वादि तत्र निःक्षिप्य विमलजलेन विलोम- मातृकया मूलेन च पूरयेत् ततस्त्रिपदिकायां वह्निमण्डलपूजा शङ्खे सूर्य्यमण्डलपूजा जले सोममण्डलपूजा ततो मन्त्रेणाङ्गुशमुद्रया सूर्य्यम- ण्डलात्तीर्थमावाह्य मन्त्रेण स्वहृदयाद्देवतां तत्रा- वाह्य कूर्च्चमन्त्रेणावगुण्ठ्यास्त्रमन्त्रेण गालिनीमुद्रां प्रदर्श्य मन्त्रेण तज्जलं वीक्ष्य अङ्गमन्त्रैः सकलीकृत्य गन्धपुष्पाभ्यां देवतां संपूज्य तदुपरि मत्स्यमुद्रया- च्छाद्य मूलमन्त्रमष्टधा जप्त्वा धेनुमुद्रां प्रदर्श्या- स्त्रेण संरक्ष्य तस्मात् किञ्चित् जलं प्रोक्षणीपात्रे निःक्षिपेत् । इति तन्त्रसारः ॥

अर्घ्यम्, क्ली, (अर्घ + यत् ।) जरत्कारुमुनितपोवनतरू- द्भतमधु । तस्य गुणाः । चक्षुरायुर्हितकारित्वं । आमवातकफपित्तनाशित्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्य वि।

अर्घ्यार्थजलम्

समानार्थक:अर्घ्य

2।7।33।1।1

षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि। क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्य¦ त्रि॰ अर्ह्यते पूज्यते अर्ह--ण्यत्--न्यङ्का॰ कुत्वम्-अर्घमर्हति अर्घ + यत् वा।

१ पूजनीये
“तमर्घ्यमर्घ्यादिकयादिपूरुषः माघः”। अर्घाय देयं यत्।

२ पूजार्थं देयेजलादौ।
“तानर्घ्यानर्घ्यमादाय दूरात् प्रत्युद्ययौ गि-रिः” कुमा॰।
“अनर्घ्यमर्घ्येण तमद्रिनाथः” कुमा॰। अर्घं मूल्यमधिकमर्हति यत्।

३ जरुत्कारतपोवनवृक्षोद्भवेमधुनि न॰ तस्य बहुमूल्यत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्य¦ mfn. (-र्घ्यः-र्घ्या-र्घ्यं) Venerable, deserving worship. n. (-र्घ्यं) A respect- ful oblation to gods or venerable men, of rice, durva grass, flowers, &c. with water only and of water in a small boat-shaped vessel. n. (-र्घ्यं) Wild honey. e. अर्घ, and य or यत् aff. [Page057-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्य [arghya], a. [अर्घ-यत् अर्घमर्हति]

Valuable; अनर्घ्य invaluable; अनर्घ्यमपि माणिक्यम् see s. v.

Venerable, deserving respectful offering; तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः Ku.6.5; Śi.1.14; Y.1.11.

र्घ्यम् A respectful offering or oblation to a god or venerable person (see अर्घ); अर्घः पूजाविधिः तदर्थं द्रव्यम् अर्घ्यम् Sk.; अर्घ्यमस्मै V.5.; ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्चुतः U.3.24; अर्घ्यंमर्घ्यमिति वादिनं नृपम् R.11.69;1.44; Ku.1.58,6. 5; (it often consists only of water given in a droṇa and forms part of the Madhuparka ceremony).

A kind of honey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्य mfn. " valuable "See. अन्-अर्घ्य, ( g. दण्डा-दिSee. , " अर्घम्-अर्हति") deserving a respectful reception (as a guest) Pa1rGr2. Ya1jn5. etc.

अर्घ्य mfn. belonging to or used at the respectful reception of a guest Gobh. Ya1jn5. etc.

अर्घ्य n. ( Pa1n2. 5-4 , 25 ) water offered at the respectful reception of a guest A1s3vGr2. etc. , (probably for आर्घ्यSee. )a kind of honey L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्घ्य न.
किसी व्यक्ति को सम्मानित करने के लिए प्रयुक्त होने वाले द्रव्य-जलादि, शां.श्रौ.सू. 4.21.4।

"https://sa.wiktionary.org/w/index.php?title=अर्घ्य&oldid=488560" इत्यस्माद् प्रतिप्राप्तम्