अर्द्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्द्धम्, क्ली, (ऋध् + घञ् ।) समानांशः । समभागः । इत्यमरः ॥ आधा इति भाषा । समभागेऽर्द्धशब्दः पुमान् क्लीवञ्च । अर्द्धशब्दः पुंलिङ्गः खण्डपर्य्याय- एव विभागीकृत्य वण्टितस्य तुल्यवण्टिते अद्ध क्लीवमेवेति केचित् । अर्द्धो रूपभेदात् भागे पुंसि । तथा वस्त्रार्द्धो नगरार्द्धः उपचारात्तु भाग- वति वाच्यलिङ्गः । यथा अर्द्धा शाटी अर्द्धः कम्बलः अर्द्धं वस्त्रं । इति माधवी ॥ असमपरिभागवृ- त्तिस्त्रिलिङ्गोऽर्द्धैत्यनुन्यासः । समग्रविभागेऽर्द्ध- शब्दो नपुंसक एव नान्यलिङ्गः । इति भागवृत्तिः । इति भरतः ॥

अर्द्धः, पुं, (ऋध् + घञ् ।) एकदेशः । तत्पर्य्यायः । भित्तं २ शकलं ३ खण्डं ४ । इत्यमरः ॥ (“पश्चा- र्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्ब्बकायम्” ॥ इति शाकुन्तले । “सर्व्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः । अर्द्धेन कुरुते कार्य्यं सर्व्वनाशो हि दुःसहः” ॥ इति पञ्चतन्त्रं ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्द्ध¦ mfn. (-र्द्धः-र्द्धा-र्द्धं) Half, halved. m. (-र्द्धः) A part. n. (-र्द्धिं) A half. E. ऋध to increase, and घञ् aff.

"https://sa.wiktionary.org/w/index.php?title=अर्द्ध&oldid=488656" इत्यस्माद् प्रतिप्राप्तम्