अर्हत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्हत्¦ त्रि॰
“अर्हः प्रशंसायां कर्म्मणि शतृ।
४ पूज्ये
“अर्हणामर्हते चक्रुः” द्वित्राण्यहान्यर्हसि सोढुमर्हन्” इनि चरघुः
“सर्ब्बज्ञो जितरागादिदोघस्त्रैलोक्यपूजितः। यथा-स्थितार्थवादी च देवोऽर्हन् परमेश्वरः” इत्युक्तलक्षणे जैन-देवे पु॰। तन्मतं सर्व्वदर्शनसंग्रहात् संगृह्यते।
“ननु न कश्चित् पुरुषविशेषः सर्व्वज्ञपदवेदनीयः प्रमाणप-द्धतिमध्यास्ते सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुप-लम्भात् तथाचोक्तं तोतातितैः
“सर्व्वज्ञोदृश्यते तावन्ने-दानीमस्सदादिभिः। दृष्टो न चैकदेवोऽस्ति लिङ्गं वायोऽनुमापयेत्॥ न चागमविधिः कश्चिन्नित्यसर्व्वज्ञ-बोधकः। न च तत्रार्थवादानां तात्पपर्य्यमपि कल्प्यते॥ न चानुवदितुं शक्यः पूर्व्वमन्यैरबोधितः॥ अनादेरागमस्यार्थो न च सर्व्वज्ञ आदिमान्। कृत्रिमेणत्वसत्येन स कथं प्रतिपाद्यते॥ अथ तद्वचनेनैव सर्व्व-ज्ञोऽन्यैः प्रतीयते। प्रकल्प्येतं कथं सिद्धिरन्यो-न्याश्रयतस्तयोः॥ सर्व्वज्ञोक्ततया वाक्यं सत्यं तेनतदस्तिता। कथं तदुभयं सिध्येत् सिद्धमूलान्तरादृते॥ असर्व्वज्ञप्रणीतात्तु वचमान्मूलवर्जितात्। सर्व्वज्ञमवग-च्छन्तस्तद्वाक्योक्तं न जानतु॥ सर्व्वज्ञसदृशं किञ्चिद्यदिपश्येम सम्प्रति। उपमानेम सर्व्वज्ञं जानीयाम ततोवयम्॥ उपदेशोऽपि बुद्धस्य धर्म्माधर्म्मादिगोचरः। अन्यथा नोपपद्येत सार्व्वज्ञ्यं यदि नाभवदित्यादि”॥ अत्र प्रतिविधीयते यदभ्यधायि सद्भावग्राहकस्य प्रमाणपञ्च-कस्य तत्रानुपलम्भादिति तदयुक्तं तत्सद्भावावेदकस्यानुमा-नादेः सद्भावात्। तथा हि कश्चिदात्मा सकलपदार्थसा-क्षात्कारी तद्ग्नहर्णस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात्यत् यद्ग्रहणखभाभवत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत् तत्-साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं[Page0382-b+ 38] रूपसाक्षत्कारि। तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्ध-प्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थसाक्षात्कारीति। तावदशेषार्थग्रहणस्वभावत्वमात्मनः सिद्धं चोदनाबलान्नि-खिलार्थज्ञानात् नाप्यन्यथानुपपत्त्या सर्व्वमनैकान्तात्मकंसत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च। चोदना हि भूतं भवन्तंभविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवग-मयतीत्येवं जातीयकैरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचा-रणानिबन्धनं सकलार्थविषयकज्ञानं प्रतिपद्यमानैः सकला-र्थग्रहणस्वभावकत्वसात्मनोऽभ्युपगतम्। न चाखिलार्थ-प्रतिबन्धकावरणप्रक्षयानुपपत्तिः सम्यग्दर्शनादित्रयलक्षणस्यावरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतींतत्वात् अनयापुनरन्येऽपि क्षुद्रोपद्रवा विद्राव्याः। नन्वावरणप्रक्षयवशाद-शेषविषयं विज्ञाजं विशदं मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तंतस्य सर्व्वज्ञस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्नअनादिमुक्तत्वस्यैवासिद्धेः सर्व्वज्ञोऽनादिमुक्तः मुक्तत्वादि-तरमुक्तवत् बद्धापेक्षया च मुक्तव्यपदेशः तद्रहिते चास्याप्य-भावः स्यादाकाशवत्। नन्वनादेः क्षित्यादिक्रार्य्यपरम्प-रायाः कर्तृत्वेन तत्सिद्धिः तथाहि क्षित्यादिकं सकर्तृकंकार्त्यत्वाद्बटवदिति तदप्यसमीचीनं कार्य्यत्वस्यैवासिद्धेः। न च सावयबत्वेन तत्साधनमित्यभिधातव्यं यस्मादिदंविकल्पजालमवतरति। सावयवत्वं, समवेतद्रव्यत्वं,किमवयवसंयोगित्वं अवयवसमवायित्वम् अवयवजन्यत्वम्
३ समवेतद्रव्यत्वम् समवेतवबुद्धिविषयत्वं वा। नप्रथमः, आकाशादावनैकान्त्यात्। न द्वितीयः सामा-न्यादौ व्यभिचारात्। न तृतीयः साध्याविशिष्ट त्वात्। न चतुर्थः विकल्पयुगलार्गलग्रहगलत्वात् समवायसम्बन्ध-वत्त्वे सति द्रव्यत्वं समवेतद्रव्यत्वम्, अन्यत्र समवेतद्रव्यत्वंवा विवक्षितं हेतूक्रियते। आद्ये गगनादौ व्यभि-चारः तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः सम्भ-वात्। द्वितीये साध्याविशिष्टता अन्यशब्दार्थेषु समवायकार-णभूतेष्ववयवेषु समवायस्य साधनीयत्वात्। अभ्युपगग्यैत-दभाणि वस्तुतस्तु समवाय एव न समस्ति प्रमाणाभावात्। नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्य सावयवबुद्धिविषय-त्वेऽपि कार्य्यत्वाभावात्। न च निरवयवत्वेऽप्यस्य सावयववार्थसम्बन्धेन सावयवबुद्धिविषपयत्वमौपचारिकमित्येष्टव्यंनिरवयवत्वे व्यापित्वविरोधात् परमाणुवत्। किञ्चकिमेकः कर्त्ता साध्यते किं वा स्वतन्त्रः प्रथमे प्रासादादौव्यभिचारः स्थपत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वो-[Page0383-a+ 37] पलम्भादनेनैव सकलजगज्जननोत्पत्तावितरवैयर्थ्यञ्च। तदुक्तं वीतरागस्तुतौ
“कर्त्तास्ति नित्यो जगतः स चैकःस सर्व्वगः सन् स्ववशः स सत्यः। इमाः कुहेयाःकुविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वमिति”॥ अन्यत्रापि।
“कर्त्ता न तावदिह कोऽपि यथेच्छया वादृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः। कार्य्यं किमत्रभवतापि च तक्षकाद्यैराहत्य च त्रिभुवनं पुरुषं करोतीति” तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षये सार्व्वज्ञ्यंयुक्तम्। न चास्योपदेष्ट्रन्तराभावात् सम्यग्दर्शनादित्रित-यानुपपत्तिरिति भणनीयं पूर्व्वसर्व्वज्ञप्रणीतागमप्रभवत्वाद-मुष्याशेषार्थज्ञानस्य। नचान्योन्याश्रयतादिदोषः आगमस-र्व्वज्ञपरम्पराया वीजाङ्कुरवदनादित्वाङ्गीकारादित्यलम्। रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितय-मर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररूपितं
“सम्यग्दर्शन-ज्ञानचारित्राणि मोक्षमार्ग” इति। विवृतञ्च योगदेवेन
“येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपा-दिते तत्त्वार्थेविपरीताभिनिवेशरहितत्वाद्यपरपर्य्यायं श्रद्धानंसम्यग्दर्शनं तथा च तत्त्वार्थसूत्रम्,
“तत्त्वार्थं श्रद्धानं सम्यग्-दर्शनमिति”। अन्यदपि
“रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धा-नमुच्यते। जायते तन्निसर्गेण गुरोरधिगमेन वेति”॥ परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः” व्याख्यानादिरूप-परोपदेशजनितं ज्ञानमधिगमः। येन स्वभावेन जीवादयःपदार्थाः व्यवस्थिताः तेन स्वभावेन मोहसंशयरहितत्वेना-वगमः सम्यग्ज्ञानम्। यथोक्तम्
“यथावस्थिततत्त्वानां संक्षे-पाद्विस्तरेण वा। योऽवबोधस्तमत्राहुः सम्यगज्ञानं भनी-षिण” इति॥ तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्य्याय-केवलभेदेन। तदुक्तम्
“मतिश्रुतावधिमनःपर्य्यायकेबलानिज्ञानमिति”। अस्यार्थः ज्ञानावरणक्षयोपशमे सति इन्द्रिय-मनसी पुरस्कत्य व्यापृतः सन् ययार्थं मनुते सा मतिः। ज्ञानवरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम्। असम्यग्दर्शनादिगणजनितक्षयोपशमनिमित्तम् अवच्छिन्न-विषयं ज्ञानमवधिः। ईर्ष्यान्तरायज्ञानावरणक्षयोपशमेसति परमनोगतस्याथेस्य स्फुटं परिच्छेदकं ज्ञानं मनःपर्य्यायः। तपःक्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्-ज्ञानमन्यज्ञानासंस्पृष्टं केवलम्। तत्राद्यं परोक्षं प्रत्यक्ष-मन्यत्। तदुक्तम्
“विज्ञानं स्वपराभासि प्रमाणं बाधवर्ज्जितम्प्रत्यक्षञ्च परोक्षञ्ज द्विधा मेयविनिश्चयादिति”॥ अन्तर्गणि-[Page0383-b+ 37] कभेदस्तु सविस्तरस्तत्रैवागमेऽवगन्तव्यः। संसरणकर्म्मोच्छि-त्तावुद्यतस्य श्रद्धदानस्य ज्ञानवतः पापगमनकारणक्रिया-निवृत्तिः सम्यक् चारित्रम्। तदेतत् सप्रपञ्चमुक्तमर्हता
“सर्व्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते। कीर्त्तितंतदहिंसादिव्रतभेदन पञ्जधा। अहिंसासूनृतास्तेयब्रह्मर्य्यापरिग्रहाः॥ न यत्प्रमादयोगेन जीवित-व्यपरोपणम्। चराणां स्थावराणाञ्च तदहिंसाव्रतंमतम्॥ प्रियं पथ्यवचस्तय्यं सूनृतव्रतमुच्यते। तत्त-थ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत्॥ अनादानमद-त्तस्यास्तेयव्रतमुदीरितम्। बाह्याः प्राणनृणामर्थोहरता तं हता हि ते॥ दिव्यौदरिककामाणां कृता-नुमतकारितः। मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधामतम्॥ सर्व्वाभावेषु मूर्च्छायास्त्यागःस्यादपरिग्रहः। यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः॥ भावनाभि-र्भावितानि पञ्चभिः पञ्चधा क्रमात्। महाव्रतानि लोकस्यसाधयन्त्यव्ययं पदमिति”॥ भावनापञ्चकप्रपच्चनञ्च प्ररूपितम्
“हास्यलोभभयकोधप्रत्याख्यानैर्निरन्तरम्। आलोच्य भाषणे-नापि भावयेत् सूनृतं व्रत” मित्यादिना॥ एतानि सम्यग्द-दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकंयथा रसायनज्ञानं श्रद्धानाचरणानि सम्भूय रसायनफलंसाधयन्ति न प्रत्येकम्। अत्र संक्षेपतस्तावज्जीवाजीवाख्येद्वे तत्त्वे स्तः तत्र बोधात्मको जीवः अबोधात्मकस्त्वजीवः। तदुक्तं पद्मनन्दिना
“चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम्। उपादेयमुपादेयं हेयं हेयञ्च कुर्व्वतः॥ हेयं हि कर्तृरागा-दि तत् कार्य्यमविवेकिनः। उपादेयं परं ज्योतिरुप-योगैकलक्षणमिति”॥ सहजचिद्रूपपरिणतिं स्वीकुर्व्वाणस्यज्ञानदर्शने उपयोगः स परस्परप्रदेशात्तु प्रदेशबन्धात् कर्म्म-णैकीभूतस्यात्मनोऽन्यत्वप्रतिपत्तिकारणं भवति। सकल-जीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिक-क्षयात्मकक्षयौपशमिकभावेन कर्म्मोदयवशात् कलुषान्या-कारेण च परिणतजीवपर्य्यायजीवविवक्षायां स्वरूपं भवतियदवोचद्वाचकाचार्य्यः
“औपशमिकक्षायिकौ भावौ मिश्रश्चजीवस्य सत्त्वमौदयिकपारिणामिकौ चेति”। अनुदयप्रा-प्तिरूपे कर्म्मण उपशमे सति जीवस्योत्पद्यमानो भावःऔपशमिकः यथा पङ्के कलुषतां कुर्व्वति कतकादिद्रव्यस-म्बन्धादधः पतिते जलस्य स्वच्छता। कर्म्मणः क्षयोपशमेसति जायमानो भावः क्षायिकः यथा मोक्षः। उभयात्म[Page0384-a+ 37] भावो मिश्रः यथा जलस्यार्द्धस्वच्छता। कर्म्मोदये सति भवन्भाव औदयिकः। कर्म्मोपशमाद्यनपेक्षः सहजो भाव-श्चेतनत्वादिः पारिणामिकः। तदेतत् सत्त्वं यथासम्भवंभव्यस्याभव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः। तद्क्तम् स्वरूपसम्बीधने
“ज्ञानाद् भिन्नो नचाभिन्नो भिन्ना-भिन्नः कथञ्चन। ज्ञानं पूर्व्वापरीभूतं सोऽयमात्मेति कीर्त्तितः” इति॥ ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्य-तरस्यैवावास्तवत्वादुभयात्मकत्वमयुक्तमिति चेत्तदयुक्तं बाधेप्रमाणाभावात् अनुपलम्भो हि बाधकं प्रमाणं न सोऽस्तिसमस्तेषु वस्तुष्वनेकरसात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्ध-त्वादित्यलम्। अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षतेजीवाकाशधर्म्माधर्म्मपुद्गलास्तिकायमेदान्। एतेषु पञ्चसुतत्त्वेषु कालत्रयसम्बन्धितया स्थितिव्यपदेशः अनेकप्रदेशत्वेनशरीरवत् कायव्यपदेशः। तत्र जीवा द्विविधाः संसारिणोमु-क्ताश्च। भवाद् भवान्तरप्राप्तिमन्तः संसारिणः। ते च द्वि-विधाः समनस्काअमनस्काश्च तत्र संज्ञिनः समनस्काःशिक्षाक्रियाकलापग्रहणरूपा संज्ञा तद्विधुरास्त्वमनस्काः। ते चामनस्का द्विविधाः त्रसस्थावरभेदात् तत्र द्वीन्द्रियादयःशङ्क्षगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः पृथिव्यप्तेजोवायु-वनस्पतयः स्थावराः। तत्न मार्गगतधूलिः पृथिवीइष्टकादिः पृथिवीकायः पृथिवीकायत्वेन येन गृहीता सपृथिवीकायकः पृथिवीं कायत्वेत यो ग्रहीष्यति स पृथि-वीजीवः। एवमबादिष्वपि भेदचतुष्टयं योज्यम्। तत्रपृथिव्यादिकायत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरागृह्यन्ते न पृथिव्यादिपृथिवीकायादयः तेषां जीवत्वात्। ते च स्थावराः स्पर्शनैकेन्द्रियाश्च। भवान्तरप्राप्तिबिधुरा सुक्ताःधर्म्माधर्म्माकाशास्तिकायास्ते एकत्वशालिनो निष्क्रियाश्चद्रव्यस्य देशान्तरप्राप्तिहेतवः। तत्र धर्म्माधर्म्मौ प्रसिद्धौआलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये सर्व्वत्राव-स्थितिगतिस्थित्युपग्रहो धर्म्माधर्म्मयोरुषकारः अतएवधर्म्मास्तिकायः प्रवृत्त्यनुमेयः अधर्म्मास्तिकायः स्थित्यनुमेयःअन्यवस्तुप्रदेशमध्येऽन्यम्य वस्तुनः प्रवेशोऽवगाहः तदाकाश-कृत्यम्। स्पर्शरसवर्णवन्तः पुद्गलाः ते च द्विविधाः अणवःस्कन्धाश्च भोक्तुमशक्या अणवः द्व्यणुकादयः स्कन्धाः। तत्र द्व्यणुकादिस्कन्धभेदादण्वादिरुत्पद्यते अण्वादिसंघातात्द्व्यणुकादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः। अत एव प्रयन्ति गलन्तीति पुद्गलाः। कालस्यानेक-[Page0384-b+ 37] प्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपि द्रव्यत्वमस्ति तल्लक्ष-णयोगात् तदुक्तं गुणपर्य्योयवद्द्रव्यमिति। द्रव्याश्रयानिर्गुणाः गुणा यथा जीवस्य ज्ञानत्वादिसामान्य-रूपाः पुद्गलस्य रूपत्वादिसामान्यस्वभावाः धर्म्माधर्म्मा-काशकायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादि-सामान्यानि गुणाः। तस्य द्रव्यस्योक्तरूपेण भवनमुत्पादःतद्भावः परिणामः पर्य्यायः इति पर्य्यायाः यथा
“जीवस्यघटादिज्ञानसुखक्लेशादयः पुद्गलस्य नृत्पिण्टघटादयःधर्म्मादीनां गत्यादिविशेषाः अतएव षट् द्रव्याणीतिप्रसिद्धिः। केचन सप्त तत्त्वानीति वर्णयन्ति तदाह जीवा-जीवास्रवबन्धसंवरनिर्जरमोक्षास्तत्त्वानीति”। तत्र जीवा-जीवौ निरूपितौ आस्रवो निरूप्यते औदारिकादिकायादिचलनद्वारेणात्मनश्चलनं योगपदवेदनीयमास्रवः यथा सलि-लावगाहिद्वारं नद्यास्रवणं कारणत्वादास्रव इति निगद्यतेतथा योगप्रणाडिकया कर्मास्रवतीति स योग आस्रवः। यथा आर्द्रं वस्त्रं समन्ताद्वा नीतं रेणुजातमुपादत्ते तथाकषायजलार्द्र आत्मा योगानीतं कर्म्म सर्व्वप्रदेशैर्गृह्णातियथा वा निष्टप्तायःपिण्डे जले क्षिप्ते अम्भः समन्ताद्गृह्णाति तथा कषायोष्णो जीवो योगानीतं कर्म्म समन्ता-दादत्ते। कषति हिनस्त्यात्मानं कुगतिप्रापणादितिकषायःक्रोधो मानो माया लोभश्च। स द्विविधः शुभाशुभ-भेदात् तत्राहिंसादिः शुभः काययोगः सत्यमितहितभाष-णादिः शुभो वाम्योगः। तदेतदास्रवभेदप्रभेदजातंकायवाङ्मनःकर्म्मयोगः स आस्रवः शुभः पुण्डस्य, अशुभःपापत्येत्यादिना सूत्रसन्दर्भेण ससंरम्भमभाणि। अपरेत्वेवं मेनिरे आस्रवयति पुरुषं विषयेष्विन्द्रियप्रवृत्तिरा-स्रवः, इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपा-दिज्ञानरूपेण परिणमत इति। मिथ्यादर्शनाविरतिप्रमा-दकषायवशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामन-न्तान्तप्रदेशानां पुद्गलानां कर्स्पबन्घयोग्यानामादानमुपश्ले-पणं यत् करोति स बन्धः। तदुक्तं
“सकषायत्वाज्जीवःकर्म्म भावयोग्यान् पुद्गलानादत्तेस बन्ध” इति। तत्रकषायग्रहणं सर्व्वबन्धहेतूपलक्षणार्थम्। बन्धहेतून् पपाठवाचकार्य्यः
“मिथ्यादर्शनाविरतिप्रमादकषाया बन्धहेतवः” इति। मिथ्यादर्सनं द्विविधं मिथ्याकर्म्मोदयात् परोपदेशानपेक्षंतत्त्वाश्रद्धानं नैसर्गिकमेकम् अपरं परोपदेशजम्। पृथि-व्यादिषट्कापादानकं षडिन्द्रियासंयमनञ्च अविरतिः॥ [Page0385-a+ 37] पञ्चसभितिगुप्तिष्वनुत्साहः प्रमादः। कषायः क्रोधादिः। तत्र कषायान्ताः स्थित्यनुभावबन्धहेतवः प्रकृतिप्रदेशबन्ध-हेतुर्योग इति विभागः। बन्धश्चतुर्विध इत्युक्तं प्रकृतिस्थि-त्यनुभावप्रदेशास्तु तद्विधय इति यथा निम्बगुडादेस्तिक्तत्व-मघुरत्वादिस्वभावः एवमावरणीयस्य ज्ञानदर्शनावरणत्वमा-दित्यप्रभोच्छेदकाम्भोधरवत् प्रदीपप्रभातिरीधायककुम्भवच्चसदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्द-र्शनमोहनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्जनसङ्गवच्चारित्रेमीहनीयस्यासंयमहेतुत्वं मद्यमदवदायुषो देहबन्धकर्तृत्वंजलवत् नाम्नो विचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्च-नीचकारित्वं कुम्भकारवद्दानादोनां विघ्ननिदानत्वमन्तरा-यस्य स्वभावः कोशाध्यक्षवत्। सोऽयं प्रकृतिवन्धोऽष्टविधःद्रव्यकर्म्मावान्तरभेदमूलप्रकृतिवेदनीयः। तथावोचदुमास्वा-तिवाचकाचार्य्यः
“आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीया-युर्नामगोत्रान्तराया” इति तद्भेदञ्च समगृह्णात् पञ्चनवा-ष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चदशभेदा यथाक्रममिति। एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्न प्रस्तूयते। यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसंमाधुर्यस्वभावादप्रच्युतिस्थितिः तथा ज्ञानावरणादीनांमूलप्रकृतीनामादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरो-पमकोटिकोट्यः परा स्थितिरित्याद्युक्तं कालदुर्द्धानवत्स्वोयस्वभावादप्रच्युतिस्थितिः। यथा अजागोमहिष्या-दिक्षीराणां तीब्रमन्दादिभावेन स्वकार्य्यकारणे सामर्थ्य-विशेषोऽनुभावः। तथा कर्मपुद्गलानां कार्य्यकरणे सामर्थ्यविशेषोऽनुभावः कर्म्मभावपरिणतपुद्गलस्कन्धानामनन्तान्त-प्रदेशानाम् आत्मप्रदेशानुप्रवेशः प्रदेशबन्धः। आस्रवनि-रोधः संवरः येनात्मनि प्रविशत् कर्म्म प्रतिषिध्यते स गुप्तिसमित्यादिः संवरः। संसारकारणाद्योगादात्मनोगोपनंगुप्तिः। सा त्रिविधा कायवाङ्मनोनिग्रहभेदात्। प्राणि-पीडापरिहारेण सम्यगयनं समितिः सा ईर्ष्याभाषादिभेदात्पञ्चधा। प्रपञ्चितञ्च हेमचन्द्राचार्य्यैः
“लोकातिवाहितेमार्गे चुम्बिते भास्वदंशुभिः। जन्तुरक्षार्थमालोक्य गति-रोर्ष्या मता सताम्॥ आपद्य रागतः सर्व्वजनीनं मितभा-षणम्। प्रिया वाचंयमानां सा भाषासमितिरुच्यते॥ द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम्। मुनिर्यदन्न-मादत्ते सैषणासमितिर्मता॥ आसनार्दा{??} संवीक्ष्य प्रति-लङ्घ्य च यत्नतः। गृह्णीयान्निक्षिपेद्ध्यायेत् सा दानसमितिः[Page0385-b+ 37] स्मृता॥ कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले।
“यत्नाद्यदुत्सुजेत् साधुः सोत्सर्गसमितिर्भवेत्”॥ अत एव,
“आस्रवःस्रोतसो द्वारं संवृणोतीति संवरः” इति निराहुः तदुक्तम-भियुक्तैः
“आस्रवो भवहेतुः स्यात् स्वंवरो मोक्षकारणम्। इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम्”॥ अर्जितस्य कर्म्म-णस्तपःप्रभृतिभिर्निर्जरणं निर्जराख्यं तत्त्वं चिरकालप्रवृत्त-कषायकलापं पुण्यं सूखदुःखे च देहेन जरयति नाशयतिकेशोल्लुञ्चनादिकं तप उच्यते। सा निर्जरा द्विविधायथाकालौपक्रमिकभेदात् तत्र प्रथमा यस्मिन् काले यत्कर्म्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानाद्भवन्तीनिर्जरा कामादिपाकजेति च सा गोयते। यत् कर्म्मतपोबलात् स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत्कर्म निर्जरा। यदाह
“संसारवीजभूतानां कर्म्मणां जर-णादिह। निर्जरा सम्मता द्वेधा सकामा कामनिर्जरा॥ स्मृता सकामा यमिनामकामा त्वन्यदेहिनामिति”। मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभिनवकर्म्माभा-वात् निर्जराहेतुसन्निधानेनार्ज्जितस्य कर्म्मणो निरसबादा-त्यन्तिककर्म्ममोक्षणं सोक्षः बन्धहेतुभवहेतुनिर्जराभ्यांकृत्स्नकर्म्मविप्रमोक्षणं मोक्ष इति तदनन्तरमूर्द्ध्वं गच्छत्या-लोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितं कुलालचक्रमुप-रतेऽपि तस्मिन् तद्बलादेवासंस्कारक्षयं भ्रमति तथाभवस्थेनात्ममा अपवर्गप्राप्तये बहुशो यत् कृतं प्रणिधानंमुक्तस्य तदमावेऽपि पूर्ब्बसंस्कारादालोकान्तं गमनमुपपद्यतेयथा वा मृत्तिकालेपकृतमलावूद्रव्यं जलेऽधःपतति पुनरपे-तमृत्तिकाबन्धमूर्द्ध्वं गच्छति तथा कर्म्मरहित आत्माअसङ्गत्वादूर्द्ध्वं गच्छति बन्धच्छेदादेरण्डवीजवच्चोर्द्ध्व-गतिस्वभावाच्चाग्निशिस्वावत्। अन्योन्यं प्रदेशानुप्रवेशेसत्यविभागेनावस्थानं बन्धः परस्परप्राप्तिमात्रं सङ्गः। तदुक्तं
“पूर्व्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गतिपरिणामा-च्चाविरुद्धं कुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डवीजवद-ग्निशिखावच्चेति”। अतएव पठन्ति
“गत्वागत्वा निवर्त्तन्तेचन्द्रसूर्य्यादयो ग्रहाः। अद्यापि न निवर्त्तन्ते त्वालोका-काशमागता” इति॥ अन्ये तु गतसमस्तक्लेशतद्वासनस्याना-वरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिरि-त्यास्थिषत। एवमुक्तानि सुखदुःखसाघनाभ्यां पुण्यपांपाभ्यांसहितानि नव पदार्थान् केचनाङ्गीचक्रुः। तदुक्तं सिद्धान्ते
“जीवाजीवौ पुण्यपापयुतावास्रवः संवरो निर्जरणं बन्धो[Page0386-a+ 37] मोक्षश्च नव तत्त्वानीति”। सङ्ग्रहेप्रवृत्ता वयमुपरताः स्म। अत्र सर्व्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः
“स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च। स्यादवक्तव्यःस्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति चनास्ति चावक्तव्य इति”। तत्सर्व्वमनन्तवीर्य्यः प्रत्यपीपदत्
“तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत्। स्यान्नास्तीतिप्रयोगः स्यात्तन्निषेघे विवक्षिते॥ क्रमेणोभयवाञ्छाथां प्र-योगः समुदायभाक्। युगपत्तद्विवक्षायां स्यादवाच्यमश-क्तितः॥ आद्योवाच्यविवक्षायां पञ्चमो भङ्ग इष्यते। अन्त्योवाच्याविवक्षायां षष्ठोभङ्गसमुद्भवः॥ समुच्चयेन युक्तश्चसप्तमो भङ्ग उच्यत इति”। स्याच्छब्दः स्वल्वयं निपातः ति-ङन्तप्रतिरूपकोऽनेकान्तद्योतकः। यथोक्त्रम्
“वाक्येष्वनेका-न्तद्योति गम्यं प्रति विशेषणम्। स्यान्निपातोऽर्थयोगित्वात्ति-ङन्तप्रतिरूपक” इति॥ यदि पुनरेकान्तद्योतकः स्याच्छ-ब्दोऽयं स्यात्तदा स्यादस्तोति वाक्ये स्यात्पदमनर्थकं स्यात्अ{??}कान्तद्यीतकचे तु स्यादस्ति कथञ्चिदस्तीति स्यात्-स्यात्पदात् कथञ्चिदिति अयमर्थो लभ्यते इतिनानर्थक्यम्। तदाह
“स्याद्वादः सर्व्वथैकान्तत्यागात्किं वृततद्विधेः। सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृदितिः”॥ यदि वस्त्वल्येकान्ततः सर्व्वथा सर्व्वत्र सर्व्वात्मनास्तीतिन उपादित्साजिहासाभ्यां क्वचित् कदा केनचित्प्रवत्तेतनिवर्त्तेत वा प्राप्तप्रापणीयत्वहेयहानानुपपत्तेश्च। अनेका-न्तपक्षे तु कथञ्चित् केनचित् सत्त्वेन हानोपादाने प्रेक्षा-वतामुपपद्येते। किञ्च वस्तुनः सत्त्व स्वभावः असत्त्वंयेत्यादि प्रष्टव्यं न तावदस्तित्वं वस्तुनः स्वभाव इति समस्तिषटोऽस्तीत्यनयोः पर्य्यायतया युगपत्प्रयोगायोगात् नास्तीतिप्रयोगविरोधाच्च एवमन्यत्रापि योज्यम्। यथोक्तम्
“घटोऽ-स्तीति न वक्तव्यं सन्नेव हि यतो घटः। नास्तीत्यपि नवक्तव्यं विरोधात् सदसत्त्वयोरित्यादि” तस्मादित्थं वक्तव्यंसदसत्सदसदनिर्ब्धचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाःपुनरप्यनिर्ब्धचनीयमतेनामिश्रितानि सदसदादिमतानीतित्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादिपर्य्यनुयोगे कथञ्चि-दस्तेत्वादिप्रतिवचनसम्भवेन ते वादिनः सर्ब्बे निर्विण्णाःसन्तः तूणीमासत इति सम्पूर्णार्थविनिश्चायिनः स्याद्वादम-ङ्गीकुर्व्वतस्तत्र तत्र विजय इति सर्व्वमुपपन्नम्। यदवो-चदाचार्य्यः स्याद्वादमञ्जर्य्याम्।
“अनेकान्तात्मकं वस्तु गोचरःमर्व्वसंविदाम्। एकदेशविशिष्टोऽर्षो न यस्य विषयो[Page0386-b+ 37] मतः॥ न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि। सम्पूर्णार्थविनिश्चायि स्याद्वस्तु श्रुतमुच्यते
“अन्यो-न्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रबादाः। नया-नशेषानविशेषमिच्छन्नपक्षपाती समयस्तथार्हतः” इति॥ जिनदत्तसूरिणा जैनं मतमित्थमुक्तम्।
“बलभोगोपभो-गानामुभयोर्दानलाभयोः। अन्तरायस्तथा निद्रा भीरज्ञानंजुगुप्सितम्। हिंसा रत्यरती रागद्वेषौ रतिरतिस्मरः। शोको मिथ्यात्वमेतेऽष्टादश दीषा न यस्य सः। जिनोदेवोगुरुः सम्यक् तत्त्वज्ञानोपदेशकः। ज्ञानदर्शनचारित्रा-ण्यपवर्गस्य वर्त्मनि। स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमा-पि च। नित्यानित्यात्मलं सर्ब्धंनव तत्त्वानि सप्त वा। जीवाजीवौ पुण्यपापे चास्रवःसंवरोऽपि च। बन्धो निर्ज-रणं मुक्तिरेषां व्याख्याधुनोच्यते। चेतनालक्षणो जीवःस्यादजीवस्तदन्यकः। सत्कर्म्मपुद्गलाः पुण्यं पापं तस्यविपर्य्ययः। आस्रवः कर्म्मणां बन्धो निर्जरस्तद्वियोजनम्॥ अष्टकर्म्मक्षयान्मीक्षोऽथान्तर्भावश्च कैश्चन। पुण्यस्य संस्रवेपापस्यास्रवे क्रियते पुनः॥ लब्धानन्तचतुष्कस्य लोकागू-ढस्य चात्मनः। क्षीणाष्टकर्म्मणोमुक्तिर्निर्व्यावृत्तिर्जिनोदितासरजोहरणा भैक्षभुजो लुञ्चितमूर्द्धजाः। श्वेताम्बराःक्षमाशीलाः निःसङ्गा जैनसाधवः॥ लुञ्चिताः पिच्छिका-हस्ताः पाणिपात्रा दिगम्बराः। ऊर्द्ध्वाशिनो गृहे दातुर्द्वि-तीयाः स्युर्जिनर्षयः॥ भुङ्क्ते न केबलं न स्त्रीं मोक्षमेतिदिगम्बरः। प्राहुरेषामयं भेदोमहान् श्वेताम्बरैः सहेति”॥
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्हत्¦ mfn. (-र्हन्-र्हन्ती-र्हत्)
1. Venerable, respectable.
2. Praised, celebrated. m. (-र्हन्)
1. A Jina or Jaina saint and teacher.
2. A Jaina, or follow- er of the doctrines of Jaina.
3. A religious mendicant of that sect. E. अर्ह to worship, &c. and शतृ affix, of the present participle. [Page060-a+ 60]
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्हत् [arhat], a. [अर्ह-शतृ]
Worthy, deserving, deserving respect, respectable, adorable; त्वमर्हतां प्राग्रसरः स्मृतो$सि नः Ś.5.15; R.5.25;1.55; Ku.6.56; Ms.3.128.
Praised, celebrated (स्तुत, ख्यात).
Worthy of, deserving, entitled to (mostly Ved.). m.
A Buddha; the highest rank in Buddhist hierarchy.
A superior divinity with the Jainas; सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवो$र्हन् परमेश्वरः ॥; see the word जैन also.-त्तम a. most worthy or venerable; अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् Ms.3.128.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अर्हत् mfn. deserving , entitled to( acc. ) RV.
अर्हत् mfn. used in a respectful address for अर्हसिPa1n2. 3-2 , 133 , able , allowed to( acc. ) RV.
अर्हत् mfn. worthy , venerable , respectable S3Br. AitBr. etc. (See. अर्हत्-तमbelow)
अर्हत् mfn. praised , celebrated L.
अर्हत् m. ( अन्)a बुद्धwho is still a candidate for निर्वाण
अर्हत् m. (= क्षपणक)a जैन
अर्हत् m. an अर्हत्or superior divinity with the जैनs
अर्हत् m. the highest rank in the Buddhist hierarchy L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a king of Konka, Venka, and कुटक led astray by the teachings of ऋषभ. Gave up his स्वधर्म and adopted the path of heretics. भा. V. 6. 9.
(II)--a name of शिव. Br. III. ७२. १७३.