अलर्क

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्कः, पुं, (अलमर्कतेऽर्च्यते वा, अर्क + अच्, अर्च + घञ् वा ।) क्षिप्तकुक्कुरः । (“आलर्कं विष- मिव सर्व्वतः प्रसुप्तम्” । इति उत्तरचरिते ।) श्वेतार्कवृक्षः । शादा आकन्द इति भाषा । (अस्य पर्य्यायान्तरं गुणान्तरञ्च यथा -- “अलर्को गुणरूपः स्यान्मन्दारो वसुकोपि च । श्वेतपुष्पः सदापुष्पः सबालार्कः प्रतापसः ॥ रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः । रक्तपुष्पः शुक्लफलस्तथास्फोटः प्रकीर्त्तितः ॥ अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् । निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्क्रिमीन् ॥ अलर्ककुसुमं वृष्यं लघुदीपनपाचनं । अरोचकप्रसेकार्शःकासश्वासनिवारणम्” ॥ इति भावप्रकाशः ॥ “दुष्टकर्द्दमसंस्पर्शाः कण्डूक्लेदान्वितान्तराः” । अङ्गुल्योऽलस मित्याहुः ॥ इति वाभटः ॥) तत्पर्य्यायः । प्रतापसः २ राजार्कः ३ गणरूपी ४ । इति रत्नमालामरौ ॥ शूकराकाराष्टपादतीक्ष्ण- दन्तसूच्याकृतिलोमजन्तुविशेषः । दंशनामासुरो भृगुशापात् अयं जन्तुर्भूत्वा कर्णस्योरुं भित्त्वा परशुरामदृष्टिपातात् शापमुक्तः पूर्ब्बरूपो बभूव । इति महाभारते राजधर्म्मे ॥ (“ददर्श रामस्तं चापि कृमिं शूकरसन्निभं । अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतं ॥ रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः । सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः । पुरा देवयुगे तात ! भृगोस्तुल्यवया इव । सोऽहं भृगोः सुदयितां भार्य्यामपहरं बलात् ॥ महर्षेरभिशापेन कृमिभूतोऽपतं भुवि” । स्वनामख्यातो नृपतिः । “शैव्यः शेनकपोतीये स्वमांसं पक्षिणे ददौ । अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्” ॥ इति रामायणे । स्वनामख्यातः काशिराजः, स हि वत्सराजस्य पुत्त्रः सन्नतेश्च पिता, यथा हरिवंशे, -- “वत्सपुत्त्रस्त्वलर्कस्तु सन्नतिस्तस्य चात्मजः । अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥ षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । तस्यासीत् सुमहद्राज्यं रूपयौवनशालिनः” ।)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्क पुं।

श्वेतार्कः

समानार्थक:अलर्क,प्रतापस

2।4।81।1।3

मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ। शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

अलर्क पुं।

मत्तशुनः

समानार्थक:अलर्क,योगित

2।10।22।1।4

शुनको भषकः श्वा स्यादलर्कस्तु स योगितः। श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्क¦ पु॰ अलमर्कतेऽर्च्यते वा अर्क--अच् अर्च--घञ् वा शक॰।

१ श्वेतार्कवृक्षे

२ क्षिप्तकुक्करे

३ कृमिभेदे च स च भा॰ शा॰ प॰दर्शितः यथा
“अथ कृमिः श्लेष्ममेदोमांसशोणितभीजनः। दारुणो दारुणस्पर्शः कर्णस्याभ्यासमागतः। स॰ तस्योरु-[Page0410-a+ 38] मथासाद्य बिभेद रुधिराशनः। न चैनमशकत् क्षेप्तुं हन्तुंवापि गुरोर्भयात्। स दश्यमानस्तु तथा कृमिणा तेनभारत!। गुरोः प्रबोधनाशङ्की तमुपैक्षत सूर्य्यजः। कर्णस्तुवेदनां धैर्य्यादसह्यां विनिगृह्य ताम्। अकम्प्रयन्नव्यथ-यन् धारयामास भार्गवम्। तदास्य रुधिरेणाङ्गं परिस्पृष्टंभृगूद्वहः। तदाऽबुध्यत तेजस्वी सन्त्रस्तश्चेदमब्रवीत्। अहोऽस्म्यशुचिताम्प्राप्तः किमिदं क्रियते त्वया। कथयस्वभयं त्यक्त्वा याथातथ्यमिदं मम। तस्य कर्ण्णस्तदाचष्टकृमिणा परिभक्षणम्। ददर्श रामस्तं चापि कृमिं शूक-रसन्निभम्। अष्टपादन्तीक्ष्णदंष्ट्रं सूचिभिरिव संवृतम्। रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः। सं दृष्टमात्रोरामेण कृमिः प्राणानवासृजत्। तस्मिन्नेवासृजि क्लिन्न-स्तदद्भुतमिवाभवत्। ततोऽन्तरीक्षे ददृशे विश्वरूपः कराल-वान्। राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः। स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः। स्वस्ति तेभृगुशार्दूल। गमिष्यामि यथागतम्। मोक्षितो नरका-दस्माद्भवता मुनिसत्तम!। भद्रञ्च तेऽस्तु वन्दे त्वां प्रियंमे भवता कृतम्। तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्। कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्। सोऽब्रवोद-हमासं प्राग्दंशो नाम महासुरः। पुरा देवयुगे तात!भृगोस्तुल्यवया इव। सोऽहं भृगोः सुदयितां भार्य्या-मपहरं बलात्। महर्षेरभिशापेन कृमिभूतोऽपतं भुवि। अब्रवीद्धि स मां क्रोधात्तव पूर्व्वपितामहः। मूत्रश्लेष्मा-शनः पाप निरयं प्रतिपत्स्यसे। शापस्यान्तो भवेद्ब्रह्म-न्नित्येवं तमथाब्रुवम्। भविता भार्गवाद्रामादिति माम-ब्रवीद्भृगुः”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्क¦ m. (-र्कः)
1. White swallow wort, (Calotropis gigantea alba.)
2. A mad dog or one rendered furious.
3. A fabulous animal, like a hog with eight legs.
4. An Asura changed to such an animal. Also अलर्क्क। E. अल् to adorn, &c. क्विप् affix, and अर्क to inflame or heat.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्कः [alarkḥ], 1 A mad dog or one rendered furious.

A fabulous animal like a hog with eight legs. अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् । रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः Mb.12.3.13.

A kind of worm.

N. of a plant (श्वेतार्क; Mar. पांढरी रुई).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अलर्क m. a mad dog or one rendered furious Sus3r.

अलर्क m. a fabulous animal , like a hog with eight legs MBh. R. Ma1rkP.

अलर्क m. the plant Calatropis Gigantea Alba Sus3r. (See. दीर्घा-इअर्क)

अलर्क m. N. of a king Hariv. etc.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a pupil of दत्तात्रेय: a sage who realised the force of हरिमाया। भा. I. 3. ११; II. 7. ४४.
(II)--a son of Dyumat, and father of Sannati. He retained his youth and ruled for ६६,000 years. The ब्र्। पुराण and the विष्णु पुराण make him the son respectively [page१-116+ २८] of Vatsa and Pratardana, and father of Sannati. फलकम्:F1:  Br. III. ६७. ६९, ७२; Vi. IV. 8. १६-18; भा. IX. १७. 6-8.फलकम्:/F A राजऋषि of काशी; attained longevity through the grace of लोपामुद्रा. Killed the राक्षस Ks2emaka and recovered his capital. Two ancient verses in his praise. फलकम्:F2:  M. १८०. ६८-9; वा. ९२. ६६-8.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Alarka : m.: A worm (kṛmi).

Feeding on flesh and blood (māṁsaśoṇitabhojana), covered with phlegm (śleṣmamaya), harsh to touch (dāruṇasparśa); looked like a boar; had eight legs, sharp jaws, covered with hair sharp as needles 12. 3. 13, 6-7, 12-13; it bit and cut open Karṇa's thigh 12. 3. 7-8; really a great Asura, Gṛtsa by name, who was born as a worm due to the curse of Bhṛgu 12. 3. 14-20.

_______________________________
*4th word in right half of page p3_mci (+offset) in original book.

previous page p2_mci .......... next page p4_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=अलर्क&oldid=488768" इत्यस्माद् पुनः प्राप्तिः