अलिङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिङ्ग¦ त्रि॰ नास्ति लिङ्गं ज्ञापकहेतुश्चिह्नं वा यस्य।

१ अनु-मापकहेतुशून्ये

२ चिह्नशून्ये च। वेदान्तिमतसिद्धे परमा-त्मनि पु॰। न॰ त॰। लिङ्गभिन्ने

३ अननुमापके तच्च सांख्य-मते
“हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितम् लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्” सा॰ का॰उक्तमव्यक्तम्।
“अकार्य्यं नित्यं व्यापि अक्रियम् एकमना-श्रितमलिङ्गमनवयवं स्वतन्त्रमव्यक्तमिति” सा॰ त॰ कौ॰। तद्धि{??} कस्यापि लिङ्गम् कार्य्येण कारणानुमानमिहविवक्षितं तेन संहत्यकारित्वेन परार्थतया तस्य पुरुषानु-माकत्वेऽपि न क्षतिरिति च तत्रानुसन्धेयम्
“तदलिङ्ग-[Page0411-b+ 38] मेकद्रव्यत्वात् कर्म्मणः” वै॰ सू॰।
“कर्म्म न तावत् सम-वायिकारणतया आकाशमनुमापयति कर्म्मण एकद्रव्यत्वात्एकमात्रमूर्त्तसमवायिकारणत्वात्” वै॰ सू॰ उ॰।

४ दुष्ट-चिह्नेच।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिङ्ग [aliṅga], a.

Having no characteristic marks, having no marks; said of the Supreme Being; एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम् Bhāg.1.6.26. अव्यक्तात्तु परः पुरुषो व्यापको$लिङ्ग एव च Kaṭh.6.8.

Having bad marks.

(In gram.) Having no gender;-ङ्गः An epithet of the Supreme Being; अलिङ्गात्प्रकृतिर्लिङ्गै- रुपालभ्यति सात्मजैः Mb.12.35.26. -ङ्गम् Absence of marks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिङ्ग/ अ-लिङ्ग n. absence of marks Comm. on Nya1yad.

अलिङ्ग/ अ-लिङ्ग ( mfn. )having no marks Nir. Mun2d2Up. etc.

अलिङ्ग/ अ-लिङ्ग n. (in Gr. )having no gender.

"https://sa.wiktionary.org/w/index.php?title=अलिङ्ग&oldid=488787" इत्यस्माद् प्रतिप्राप्तम्