अलिन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन्दः, पुं, (अलते भूष्यते, अल + कर्म्मणि बाहुलकात् किन्दच् ।) वहिर्द्वारसंलग्नचतुरस्र- कृत्रिमभूमिः । तत्पर्य्यायः । प्रघाणः २ प्रघणः ३ वहिर्द्वारप्रकोष्ठः ४ आलिन्दः ५ । इत्यमरः ॥ गृह- द्वारपिण्डकः । अलिन्दः नाम्नीति अलञ् इन्द ह्रस्वादिः । यस्यामलिन्देंषु न चक्रुरेवेति माघः । स्वार्थे ष्णे आलिन्दो दीर्घादिरपि । “गृहैकदेशे आलिन्दः प्रघाणःप्रघणस्तथा” । इत्यमरदत्तः । अथ पिण्डक आलिन्द इति हड्डः । इह तूभयमेव श्लेषादिति साज्झः । इत्यमरटीकायां भरतः ॥ * ॥ अन्यच्च । “प्रघाणप्रघणालिन्दा द्वारवाह्यप्रकोष्ठके । गृहाभ्यन्तरशय्यार्थपिण्डिकायामपि त्रयं ॥ आलिन्दः स्यादलिन्दोऽपि स्यादलिन्दक इत्यपि” । इति शब्दरत्नावली ॥ (“शुकाङ्गनीलोपलनिर्म्मितानां लिप्तेषु भासा गृहदेहलोनां । यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥” इति माघः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन्द पुं।

त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः

समानार्थक:प्रघाण,प्रघण,अलिन्द

2।2।12।2।3

शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्. प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन्द¦ पु॰ अल्यते भूष्यते अल + कर्म्मणि किन्दच्।

१ द्वारप्रकोष्ठे

२ बहिर्द्वारवर्त्तिनि चत्वराकारे प्रदेशे।
“यस्या-मलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानिः” माघः

२ बहिर्द्वारभागमात्रे

३ देशभेदे

४ तद्देशतासिनि

५ तद्राजनि चब॰ व॰।
“अलिन्दाः कालवाश्चैव कुण्ठकाः करटा स्तथा” भा॰ उ॰ प॰ जम्ब खण्डविभागे प्राच्यजनपदकथने। गौरादिगणपाठात् स्त्रियां ङीष्। अलिन्दी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन्द¦ m. (-न्दः) A terrace before a house. E. अल to adorn, &c. and किन्दच् affix; also आलिन्द।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन्दः [alindḥ] अलिन्दकः [alindakḥ], अलिन्दकः [अल्यते भूष्यते, अल्-कर्मणि-किंदच्]

A terrace before a housedoor; मुखालिन्दतोरणम् M.5, Dk.74.

A place (like a square) at the door.

(pl.) N. of a country or its inhabitants; or its ruler also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अलिन्द m. ( ifc. f( ई). g. गौरा-दिSee. )a terrace before a house-door S3a1k. etc.

अलिन्द m. pl. N. of a people MBh. vi , 371 VP.

"https://sa.wiktionary.org/w/index.php?title=अलिन्द&oldid=488792" इत्यस्माद् प्रतिप्राप्तम्