अल्पम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पम्, त्रि, (अल् + प् ।) किञ्चित् । तत्पर्य्यायः । ईषत् २ मनाक् ३ स्तोकं ४ । (“अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः” । इति मनुः ।) खुल्लकं ५ श्लक्ष्णं ६ दभ्रं ७ कृशं ८ तनुः ९ तनूः १० त्रुटिः ११ त्रुटी १२ मात्रा १३ लवः १४ लेशः १५ कणः १६ कणी १७ कणिका १८ अणुः १९ सूक्ष्मं २० । इत्यमरः ॥ क्षुल्लं २१ क्षुल्लकं २२ खुल्लं २३ कणा २४ । इति शब्दरत्नावली । (अतिसामान्यः । “अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम्” । इति रघुवंशे । संक्षिप्तं । अदीर्घं । “अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः” । इति पञ्चतन्त्रम् ।)

"https://sa.wiktionary.org/w/index.php?title=अल्पम्&oldid=113660" इत्यस्माद् प्रतिप्राप्तम्