अवदात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदातः, पुं, (अव + दै + क्तः ।) श्वेतवर्णः । पीत- वर्णः । इत्यमरः ॥

अवदातम्, त्रि, (अव + दै + क्तः ।) शुक्लगुणविशिष्टं । (“कुन्दैः सविभ्रमबघूहसितावदातैः” ॥ इति ऋतु- संहारे । पीतवर्णयुक्तं । निर्म्मलं । “तत्त्वं क्रमेण विदुषां करुणावदाते श्रद्धावतां हृदि पदं स्वयमादधाति” । इति शान्तिशतके ।) मनोज्ञं । इत्यमरहेमचन्द्रौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदात पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।13।1।1

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

अवदात वि।

शुक्लवर्णयुक्तः

समानार्थक:शुचि,रजत,अवदात,राम

3।3।80।2।1

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च। अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

पदार्थ-विभागः : , द्रव्यम्

अवदात वि।

पीतवर्णः

समानार्थक:पीत,गौर,हरिद्राभ,अवदात

3।3।80।2।1

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च। अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

पदार्थ-विभागः : , गुणः, रूपम्

अवदात वि।

शुद्धम्

समानार्थक:अवदात

3।3।80।2।1

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च। अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदात¦ पु॰ अव + दै--क्त।

१ शुभ्रे,

२ पीते च वर्ण्णे।

३ तद्वति

४ विशुद्धे
“अन्यस्मिन् जन्मनि च न कृतमवदातम्” काद॰।

५ मनोज्ञे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदात¦ mfn. (-तः-ता-तं)
1. White.
2. Yellow.
3. Clean, clear.
4. Beautiful. m. (-तः) White, (the colour.) E. अव, दै to cleanse, क्त affix of the part. past.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदात [avadāta], a. [अव-दै-क्त]

Beautiful; अवदातकान्तिः Dk. 17,37

Clean, clear, pure, spotless, refined, purified, polished; येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च Mb.3.1.27. सर्वविद्यावदातचेताः K.36; so विद्यावदातं मुखम्; Bh.2.2.5; शास्त्र˚

Bright, white; आपिशङ्गा- वदातया देहप्रभया K.36,65,128,187,189,43,62,95. रजनिकरकलावदातं कुलम् K.233; कुन्दावदाताः कलहंसमाला; Bk.2.18; cf. also Ki.11.75,3.25;13.37; Śānti.3.14.

Virtuous, meritorious; अन्यस्मिञ्ज- न्मनि न कृतमवदातं कर्म K.62.

Yellow. -तः White or yellow colour. cf. अवदातः सिते पीते Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदात/ अव-दात mfn. ( दस्) , cleansed , clean , clear Pa1n2. Sch. Bhat2t2.

अवदात/ अव-दात mfn. Pur. , blameless , excellent MBh. etc. , of white splendour , dazzling white ib.

अवदात/ अव-दात mfn. clear , intelligible Sa1h.

अवदात/ अव-दात m. white colour L.

"https://sa.wiktionary.org/w/index.php?title=अवदात&oldid=488979" इत्यस्माद् प्रतिप्राप्तम्