अवधूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधूतः, पुं, (अव + धू + क्तः ।) सन्न्यासाश्रमी । तद्विधानं सन्न्यासिशब्दे द्रष्टव्यं । तद्भेदा यथा । देव्युवाच । “द्विविधावाश्रमौ प्रोक्तौ गार्हस्थ्यो भैक्षुकस्तथा । किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः ॥ एतद्वेदितुमिच्छामि तत्त्वतः कथय प्रभो । चतुर्व्विधावधूतानां लक्षणानि विशेषतः ॥ सदाशिव उवाच । ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः । गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ॥ पूर्णाभिषेकविधिना संस्कृता ये च मानवाः । शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्च्चिते ॥ ब्रह्मावधूतः शैवाश्च साग्रिमाचारवर्त्तिनः । विदध्युः सर्व्वकर्म्माणि शश्वदीरितवर्त्मना ॥ विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना । निषिद्धमन्नं तोयञ्च न गृह्लीयुः कदाचन ॥ ब्रह्मावधूतकौलानां कौलानामभिषेकिणां । प्रागेव कथितो धर्म्म आचारश्च वरानने ॥ स्नानं संन्यासनं पानं दानञ्च दाररक्षणं । सर्व्वमागममार्गेण शैवब्रह्मावधूतयोः” ॥ इति महानिर्व्वाणतन्त्रे १४ उल्लासः ॥ * ॥ अन्यच्च । शङ्कर उवाच । “शृणु देवि प्रवक्ष्यामि अवधूतो यथा भवेत् । वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः ॥ यद्रूपं कथितं सर्व्वं सन्न्यासधारणं परं । तद्रूपं सर्व्वकर्म्माणि प्रकुर्य्याद्वीरवल्लभं ॥ दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा । तथा नैव प्रकुर्य्यात्तु वीरस्य मुण्डनं प्रिये ॥ असंस्कृतं केशजालमुक्तालम्बिकचोच्चयं । अस्थिमाला विभूषा वा रुद्राक्षानपि धारयेत् ॥ दिगम्बरो वा वीरेन्द्रश्चाथ वा कौपिनी भवेत् । रक्तचन्दनसिक्ताङ्गं कुर्य्याद्भस्माङ्गभूषणं” ॥ रति निर्व्वाणतन्त्रे १४ पटलः ॥ * ॥ अपिच । “नृकरोटिं विधार्य्यञ्च काष्ठदण्डं तथा प्रिये । परशुञ्चाजिनञ्चैव योगीव धारयेत् सदा ॥ खट्टाङ्गं धारयेद्योगी वासरूपकवाससी । कपाले धारयेच्चन्द्रं चन्दनाद्यैर्व्विशेषतः ॥ ईषत् पिङ्गलकं वस्त्रं धारयेत् सर्व्वदा सुत” । सुत इति शिवस्य सम्बोधनं । सुदर्शनाख्यं यच्चक्रं तत्तु संधारयेद्बुधः ॥ विपञ्चीं कपिलञ्चैव मड्डडिण्डिमझर्झरान् । वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः” ॥ इति योगसारे २ परिच्छेदः ॥ * ॥ अपरञ्च । “क्षमा दानं तपो ध्यानं बालभावेन शैलजे । शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः ॥ एवं भावपरो मन्त्री हेतुयुक्तः सदाशिवः । ओम् तत् सदिति मन्त्रेण कर्म्मकर्त्तव्यतामाह । “ओ~ तत्सन्मन्त्रमुच्चार्य्य सोऽहमस्मीति चिन्तयन् । कुर्य्यादात्मोचितं कर्म्म सदा वैराग्यमाश्रितः ॥ कुर्व्वन् कर्म्माण्यनासक्तो नलिनोदलनीरवत् । यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः” ॥ * ॥ सर्व्वेषामोम् तत्सदिति निर्देशेन कर्म्मफलमाह । “ओ~ तत्सदिति मन्त्रेण यो यत्कर्म्म समाचरेत् । गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत्” ॥ * ॥ तन्मन्त्रक्रियमाणकर्म्मणः सम्पूर्णत्वमपि । “जपहोमप्रतिष्ठा च संस्काराद्यखिलाः क्रियाः । ओ~ तत्सदिति निष्पन्नाः संपूर्णाः स्युर्न संशयः ॥ किमन्यैर्ब्बहुभिर्म्मन्त्रैः किमन्यैर्भूरिसाधनैः । ब्राह्म्येणानेन मन्त्रेण सर्व्वकर्म्माणि साधयेत् ॥ सुखसाध्यमबाहुल्यं संपूर्णफलदायकं । नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके ॥ पुरप्रदेशे देहे वा लिखित्वा धारयेदिमं । गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत् ॥ निगमागमतन्त्राणां सारात् सारतरो मनुः । ओ~ तत्सदिति देवेशि तवाग्रे सत्यमीरितं ॥ चतुर्व्विधानां तत्त्वानामन्येषामपि वस्तुनां ॥ मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितं ॥ पश्यन् सर्व्वत्र सद्रूपं जपंस्तत् सन्महामनुं । स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् ॥ जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् । साक्षाद्ब्रह्ममयो देही सार्थमेनं जपेन्मनुं ॥ त्रिपदोऽयं महामन्त्रः सर्व्वकारणकारणं । साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयं ॥ युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा । जप्त्वैतस्य महेशानि साधकः सिद्धिभाग्भवेत्” । इति मन्त्रप्रशंसा ॥ * ॥ शैवावधूतस्य सर्व्वकर्म्मा- नधिकारमाह । “शैवावधूतसंस्कारविधूताखिलकर्म्मणः । नापि दैवे नवा पित्र्ये नार्षे कृत्येऽधिकारिता” ॥ * ॥ अथ परमहंसः । “चतुर्णामवधूतानां तुरीयो हंस उच्यते । त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्व्वे शिवोपमाः ॥ हंसो न कुर्य्यात् स्त्रीसङ्गं न विधत्ते परिग्रहं । प्रारब्धमश्नन् विहरेत् निषेधविधिवर्जितः ॥ त्यजेत् स्वजातिचिह्नानि कर्म्माणि गृहमेधिनां । तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः ॥ सदात्मभावसन्तुष्टः शोकमोहविवर्ज्जितः । निर्निकेतस्तितिक्षुः स्यान्निःसङ्गो निरुपद्रवः ॥ नार्पणं भक्ष्यपेयानां न तस्य ध्यानधारणा । मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः ॥ इति ते कथितं देवि ! चतुर्णां कुलयोगिनां । लक्षणं सविशेषेण साधूनां मत्स्वरूपिणां ॥ एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् । सर्व्वतीर्थफलावाप्तिर्जायते मनुजन्मनां” ॥ इति महानिर्व्वाणतन्त्रं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधूत¦ त्रि॰ अव + धू--क्त।

१ कम्पिते
“पवनावधूतवसनान्तयै-कया” माघः
“विदधेऽबधूतसुरसद्मसम्पदम्” माघः। कृष्णयजुर्वेदान्तर्गते

२ उपनिषद्भेदे।

३ अभिभूते,

४ निव-र्त्तिते,
“अवधूतं रक्षो अवधूता अरातयः” शत॰ ब्रा॰

५ अनादृते च।
“यो विलङ्घ्याश्रमान् वर्ण्णान् आत्मन्येवस्थितः पुमान्। अतिवर्ण्णाश्रमी योगी अवधूतः सउच्यते” इत्युक्तलक्षणे वर्ण्णाश्रमधर्मत्यागिनि

६ सन्न्यासिनिपु॰।
“अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्धनात्। तत्त्वमस्यर्{??}सिद्धत्वादवधूतोऽभिधीयते। यथा रविः सर्वर-सान् प्रभुङ्क्ते हुताशनश्चापि हि सर्व्वभक्षकः। तथैवयोगी विषयान् प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः” इति च तन्निरुक्तिलक्षणे एवमवधूतगीतशब्दे तल्लक्षणं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधूत¦ mfn. (-तः-ता-तं)
1. Compelled.
2. Discarded.
3. Shaken, removed, tossed.
4. Trodden upon.
5. Separated from worldly feeling and obligation. E. अव, and धूत shaken.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधूत [avadhūta], p. p.

Shaken, waved. Māl.9.18.

Discarded, rejected, despised; R.19.43.

Insulted, humiliated. हृतदारो$वधूतश्च नाहं जीवितमुत्सहे Mb.3.282.36.

Excelled, surpassed; लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः Ratn.2.8.

Attacked, overcome.

Separated from worldly attachments. -तः An ascetic who has renounced all worldly attachments and connections; यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः पुमान् । अतिवर्णाश्रमी योगी अवधूतः स उच्यते ॥ or अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्ध- नात् । तत्त्वमस्यर्थसिद्धत्वादवधूतो$भिधीयते ॥ सदाप्लुतो$धःशयनो$वधूतः Bhāg.3.1.19. अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे । Nm.

Smelling sense, nose, नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ Bhāg.4.25.48.-Comp. -वेश a. undressed, naked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधूत/ अव-धूत mfn. shaken off (as evil spirits) VS. i , 14

अवधूत/ अव-धूत mfn. removed , shaken away BhP. etc.

अवधूत/ अव-धूत mfn. discarded , expelled , excluded MBh. etc.

अवधूत/ अव-धूत mfn. disregarded , neglected , rejected Das3. etc.

अवधूत/ अव-धूत mfn. touched R. vi , 82 , 62

अवधूत/ अव-धूत mfn. shaken , agitated (especially as plants or the dust by the wind) , fanned MBh. etc.

अवधूत/ अव-धूत mfn. that upon which anything unclean has been shaken out or off(See. अवक्षुत) Mn. v , 125 MBh. xiii , 1577

अवधूत/ अव-धूत mfn. unclean BhP.

अवधूत/ अव-धूत mfn. one who has shaken , off from himself worldly feeling and obligation , a philosopher( ब्रह्म-विद्) BhP. Ra1jat.

अवधूत/ अव-धूत m. N. of a शैवphilosopher

अवधूत/ अव-धूत n. rejecting , repudiating MBh. iv , 352 (= Hariv. 4717 ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the friend who accompanied पुरञ्जन to the Saurabha kingdom, through the entrances Nalini and नालिनि. फलकम्:F1: भा. IV. २५. ४८.फलकम्:/F Allegorically sense of smell. फलकम्:F2: Ib. IV. २९. ११.फलकम्:/F Taught spiritual wisdom to Yadu. फलकम्:F3: Ib. XI. 7. २४-9.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=अवधूत&oldid=489006" इत्यस्माद् प्रतिप्राप्तम्